देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०६

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०५ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०६
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०७ →



गायत्रीसहस्रनामस्तोत्रवर्णनम्

नारद उवाच
 भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
 श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥
 सर्वपापहरं देव येन विद्या प्रवर्तते ।
 केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥
 ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् ।
 ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥
 वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः ।
 श्रीनारायण उवाच
 साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४ ॥
 शृणु वक्ष्यामि यत्‍नेन गायत्र्यष्टसहस्रकम् ।
 नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥
 सृष्ट्यादौ यद्‍भगवता पूर्वं प्रोक्तं ब्रवीमि ते ।
 अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥
 छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता ।
 हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥
 अङ्‌गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
 अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥
 रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
 रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
 गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां
 पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९ ॥
 अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
 अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १० ॥
 अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
 अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११ ॥
 अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
 अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥
 अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
 अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥
 अजा चाजमुखावासाप्यरविन्दनिभानना ।
 अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥
 असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
 आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५ ॥
 आदित्यपदवीचाराप्यादित्यपरिसेविता ।
 आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥
 आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
 आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७ ॥
 आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
 आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥
 इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
 इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९ ॥
 इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी ।
 इन्द्रनीलसमाकारा चेडापिङ्‌गलरूपिणी ॥ २० ॥
 इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता ।
 उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥
 उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
 ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥
 ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
 ऋतं चर्षिर्ऋतुमती ऋषिदेवनमस्कृता ॥ २३ ॥
 ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
 ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥
 ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
 लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५ ॥
 एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
 ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६ ॥
 ओङ्‌कारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
 और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥
 अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
 कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८ ॥
 कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
 करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥
 कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
 कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥
 कालजिह्वा करालास्या कालिका कालरूपिणी ।
 कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥
 कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
 कौमारी करुणापाङ्‌गी ककुबन्ता करिप्रिया ॥ ३२ ॥
 केसरी केशवनुता कदम्बकुसुमप्रिया ।
 कालिन्दी कालिका काञ्ची कलशोद्‍भवसंस्तुता ॥ ३३ ॥
 काममाता क्रतुमती कामरूपा कृपावती ।
 कुमारी कुण्डनिलया किराती कीरवाहना । ३४ ॥
 कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
 कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥
 कलहंसगतिः कक्षा कृतकौतुकमङ्‌गला ।
 कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः ॥ ३६ ॥
 कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
 कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥
 खड्गखेटकरा खर्वा खेचरी खगवाहना ।
 खट्वाङ्‌गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥
 खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
 खण्डेन्दुतिलका गङ्‌गा गणेशगुहपूजिता ॥ ३९ ॥
 गायत्री गोमती गीता गान्धारी गानलोलुपा ।
 गौतमी गामिनी गाथा गन्धर्वाप्सरसेविता ॥ ४० ॥
 गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
 गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥
 गुहावासा गुणवती गुरुपापप्रणाशिनी ।
 गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२ ॥
 गिरिजा गुह्यमातङ्‌गी गरुडध्वजवल्लभा ।
 गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥
 गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
 घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥
 घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
 घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ ४५ ॥
 घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
 ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥
 चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
 चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥
 चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
 चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥
 चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
 चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥
 चारुचन्दनलिप्ताङ्‌गी चञ्चच्चामरवीजिता ।
 चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५० ॥
 चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।
 चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥
 चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
 चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२ ॥
 चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
 छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥
 छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
 छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥
 छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
 जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥
 जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
 जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥
 जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
 जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥
 जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
 ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥
 जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
 ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्‌मुखी ॥ ५९ ॥
 जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
 झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ ६० ॥
 झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
 टङ्‌कबाणसमायुक्ता टङ्‌किनी टङ्‌कभेदिनी ॥ ६१ ॥
 टङ्‌कीगणकृताघोषा टङ्कनीयमहोरसा ।
 टङ्‌कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥
 डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता ।
 डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥
 डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
 ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४ ॥
 नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।
 त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५ ॥
 त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
 तरुणादित्यसङ्‌काशा तामसी तुहिना तुरा ॥ ६६ ॥
 त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना ।
 त्रिशक्तिस्त्रिपुरा तुङ्‌गा तुरङ्‌गवदना तथा ॥ ६७ ॥
 तिमिङ्‌गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
 तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥
 त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
 ताटङ्‌किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥
 तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
 तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥
 तारका त्रियुता तन्वी त्रिशङ्‌कुपरिवारिता ।
 तलोदरी तिलाभूषा ताटङ्‌कप्रियवाहिनी ॥ ७१ ॥
 त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
 तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥ ७२ ॥
 त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
 तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥
 तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्‌गी तनुवल्लरिः ।
 थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥
 दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
 देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५ ॥
 देवयानी दुरावासा दारिद्र्योद्‍भेदिनी दिवा ।
 दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥
 दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
 देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥
 दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
 धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥
 धरंधरा धराधारा धनदा धान्यदोहिनी ।
 धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥
 धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
 धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥
 नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
 नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥


नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
 निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥
 नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
 नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥
 नरकक्लेशशमनी नारायणपदोद्‍भवा ।
 निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥
 नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका ।
 नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५ ॥
 नन्दजा नवरत्‍नाढ्या नैमिषारण्यवासिनी ।
 नवनीतप्रिया नारी नीलजीमूतनिःस्वना ॥ ८६ ॥
 निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
 नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥
 नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
 नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८ ॥
 निमग्नारक्तनयना निर्घातसमनिःस्वना ।
 नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥
 पार्वती परमोदारा परब्रह्मात्मिका परा ।
 पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥
 परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
 पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१ ॥
 पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
 पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥
 पावनी पादसहिता पेशला पवनाशिनी ।
 प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३ ॥
 पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
 पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥
 पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
 पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥
 पतिव्रता पवित्राङ्‌गी पुष्पहासपरायणा ।
 प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥
 पट्टिपाशधरा पङ्‌क्तिः पितृलोकप्रदायिनी ।
 पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥
 प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
 पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८ ॥
 पृथुजङ्‌घा पृथुभुजा पृथुपादा पृथूदरी ।
 प्रवालशोभा पिङ्‌गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥
 प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
 पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ १०० ॥
 परमाया परज्योतिः परप्रीतिः परागतिः ।
 पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ १०१ ॥
 पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
 पीताङ्‌गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥
 पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
 पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥
 पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
 पञ्चाङ्‌गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥
 पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
 पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५ ॥
 पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
 पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥
 पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
 प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥
 फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
 फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥
 बालबाला बहुमता बालातपनिभांशुका ।
 बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥
 बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
 बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥
 बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
 बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥
 बालाकिनी बिलाहारा बिलवासा बहूदका ।
 बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥
 बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
 बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३ ॥
 बद्धगोधाङ्‌गुलित्राणा बदर्याश्रमवासिनी ।
 बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥
 वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
 बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥
 बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
 बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥
 ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्‌कणसूत्रिणी ।
 भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥
 भद्रकाली भुजङ्‌गाक्षी भारती भारताशया ।
 भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८ ॥
 भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
 भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥
 भागीरथी भोगवती भवनस्था भिषग्वरा ।
 भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥
 भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
 भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१ ॥
 भुजङ्‌गवलया भीमा भेरुण्डा भागधेयिनी ।
 माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥
 महादेवी महाभागा मालिनी मीनलोचना ।
 मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥
 मानवी मधुसम्भूता मिथिलापुरवासिनी ।
 मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४ ॥
 मन्दोदरी महामाया मैथिली मसृणप्रिया ।
 महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५ ॥
 माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
 मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥
 मधुरद्राविणी मुद्रा मलया मलयान्विता ।
 मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥
 महामारी महावीरा महाश्यामा मनुस्तुता ।
 मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥
 मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
 मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९ ॥
 योगासना योगगम्या योगा यौवनकाश्रया ।
 यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥
 यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
 यात्रा यानविधानज्ञा यदुवंशसमुद्‍भवा ॥ १३१ ॥
 यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
 यामिनी योगनिरता यातुधानभयङ्‌करी ॥ १३२ ॥
 रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
 रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥
 रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
 राकेशी रूपसम्पन्ना रत्‍नसिंहासनस्थिता ॥ १३४ ॥
 रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
 राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥
 रमणीययुगाधारा राजिताखिलभूतला ।
 रुरुचर्मपरीधाना रथिनी रत्‍नमालिका ॥ १३६ ॥
 रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
 रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥
 रत्‍नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
 लज्जाधिदेवता लोला ललिता लिङ्‌गधारिणी ॥ १३८ ॥
 लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
 लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥
 वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
 वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥
 विनता व्योममध्यस्था वारिजासनसंस्थिता ।
 वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१ ॥
 वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
 विष्णुपत्‍नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥
 वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
 वेदाक्षरपरीताङ्‌गी वाजपेयफलप्रदा ॥ १४३ ॥
 वासवी वामजननी वैकुण्ठनिलया वरा ।
 व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥
 शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।
 शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥
 शोभावती शिवाकारा शङ्‌करार्धशरीरिणी ।
 शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६ ॥
 शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
 शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥
 श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
 शर्वाणी शर्वरीवन्द्या षड्भाषा षड्‌ऋतुप्रिया ॥ १४८ ॥
 षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
 षडङ्‌गरूपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥
 सरस्वती सदाधारा सर्वमङ्‌गलकारिणी ।
 सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥
 सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
 सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥
 सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
 सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥
 सर्वोत्तुङ्‌गा सङ्‌गहीना सद्‌गुणा सकलेष्टदा ।
 सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥
 हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी ।
 क्षौमवस्त्रपरीताङ्‌गी क्षीराब्धितनया क्षमा ॥ १५४ ॥
 गायत्री चैव सावित्री पार्वती च सरस्वती ।
 वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥
 इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
 पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥
 एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
 अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥
 जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः ।
 यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥
 सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
 भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥
 यद्‌गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
 चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥
 इदं रहस्यं परमं गुह्याद्‌गुह्यतरं महत् ।
 पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥
 मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
 रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥
 बह्महत्यासुरापानसुवर्णस्तेयिनो नराः ।
 गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३ ॥
 असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः ।
 पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ १६४ ॥
 इदं रहस्यममलं मयोक्तं पद्मजोद्‍भव ।
 ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ १६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीसहस्रनामस्तोत्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥

वर्गःदेवीभागवतपुराणम्