देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०५

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०४ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०५
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०६ →



श्रीगायत्रीस्तोत्रवर्णनम्

नारद उवाव
 भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।
 गायत्र्याः कथितं तस्माद्‌गायत्र्याः स्तोत्रमीरय ॥ १ ॥
 श्रीनारायण उवाच
 आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
 सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २ ॥
 त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
 बाह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३ ॥
 प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
 वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४ ॥
 हंसस्था गरुडारूढा तथा वृषभवाहिनी ।
 ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५ ॥
 यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।
 सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६ ॥
 रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
 त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ७ ॥ ॥
 सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।
 शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्‍भवा ॥ ८ ॥
 आनन्दजननी दुर्गा दशधा परिपढ्यते ।
 वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९ ॥
 गरिष्ठा च वरार्हा च वरारोहा च सप्तमी ।
 नीलगङ्‌गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १० ॥
 भागीरथी मर्त्यलोके पाताले भोगवत्यपि ।
 त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ ११ ॥
 भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी ।
 भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ १२ ॥
 महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।
 तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३ ॥
 कमला विष्णुलोके च गायत्री ब्रह्मलोकदा ।
 रुद्रलोके स्थिता गौरी हरार्धाङ्‌गनिवासिनी । १४ ॥
 अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
 साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५ ॥
 ततः परा परा शक्तिः परमा त्वं हि गीयसे ।
 इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ १६ ॥
 गङ्‌गा च यमुना चैव विपाशा च सरस्वती ।
 सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥ १७ ॥
 गोदावरी शतद्रूश्च कावेरी देवलोकगा ।
 कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८ ॥
 गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
 इडा च पिङ्‌गला चैव सुषुम्णा च तृतीयका ॥ १९ ॥
 गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च ।
 अलम्बुषा कुहूश्चैव शङ्‌खिनी प्राणवाहिनी ॥ २० ॥
 नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
 हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१ ॥
 तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ।
 मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा ॥ २२ ॥
 शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।
 किमन्यद्‌बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३ ॥
 तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते ।
 इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४ ॥
 महापापप्रशमनं महासिद्धिविधायकम् ।
 य इदं कीर्तयेत्स्तोत्रं सन्ध्याकाले समाहितः ॥ २५ ॥
 अपुत्रः प्राप्नुयात्युत्रं धनार्थी धनमाप्नुयात् ।
 सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६ ॥
 भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
 तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७ ॥
 यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् ।
 लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ २८ ॥
 शृणुयाद्योऽपि तद्‍भक्त्या स तु पापात्प्रमुच्यते ।
 पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे श्रीगायत्रीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥