देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८
← अध्यायः ०७ | देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः ०८ वेदव्यासः |
अध्यायः ०९ → |
पराशक्तेराविर्भाववर्णनम्
जनमेजय उवाच
भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर ।
द्विजातीनां तु सर्वेषां शक्त्युपास्तिः श्रुतीरिता ॥ १ ॥
सन्ध्याकालत्रयेऽन्यस्मिन् काले नित्यतया विभो ।
तां विहाय द्विजाः कस्माद्गृह्णीयुश्चान्यदेवताः ॥ २ ॥
दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे ।
कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥ ३ ॥
दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः ।
दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः ॥ ४ ॥
किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति ।
बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः ॥ ५ ॥
अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः ।
न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति ॥ ६ ॥
किमत्र कारणं तस्माद्वद वेदविदांवर ।
मणिद्वीपस्य महिमा वर्णितो भवता पुरा ॥ ७ ॥
कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् ।
तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ ॥ ८ ॥
प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत ।
सूत उवाच
इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः ॥ ९ ॥
निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः ।
यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते ॥ १० ॥
व्यास उवाच
सम्यक्पृष्टं त्वया राजन् समये समयोचितम् ।
वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे ॥ ११ ॥
पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे ।
शतवर्षं महाराज महाविस्मयकारकम् ॥ १२ ॥
नानाशस्त्रप्रहरणं नानामायाविचित्रितम् ।
जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप ॥ १३ ॥
पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि ।
भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि ॥ १४ ॥
ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् ।
चक्रुः परस्परं मोहात्साभिमानाः समन्ततः ॥ १५ ॥
जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः ।
सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥ १६ ॥
सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः ।
अस्मदग्रे पामराणां दैत्यानां चैव का कथा ॥ १७ ॥
पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः ।
तेषामनुग्रहं कर्तुं तदैव जगदम्बिका ॥ १८ ॥
प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ १९ ॥
विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् ।
अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम् ॥ २० ॥
सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति ।
दैत्यानां चेष्टितं किं वा माया कापि महीयसी ॥ २१ ॥
केनचिन्निर्मिता वाथ देवानां स्मयकारिणी ।
सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम् ॥ २२ ॥
यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि ।
बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया ॥ २३ ॥
ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः ।
गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम् ॥ २४ ॥
ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि ।
सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम् ॥ २५ ॥
वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ ।
तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ २६ ॥
वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः ।
अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ २७ ॥
सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति ।
तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम् ॥ २८ ॥
दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि ।
तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः ॥ २९ ॥
न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति ।
पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक् ॥ ३० ॥
वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः ।
ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥ ३१ ॥
त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् ।
त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥ ३२ ॥
त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि ।
नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः ॥ ३३ ॥
सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् ।
साभिमानो जगामाशु यत्र यक्षं विराजते ॥ ३४ ॥
यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया ।
कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ३५ ॥
ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् ।
मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत् ॥ ३६ ॥
वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि ।
मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत् ॥ ३७ ॥
इति श्रुत्वा वायुवाणीं निजगाद परं महः ।
तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥ ३८ ॥
नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् ।
श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥ ३९ ॥
उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह ।
लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः ॥ ४० ॥
वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् ।
नैतञ्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः ॥ ४१ ॥
अलौकिकं भाति यक्षं तेजः परमदारुणम् ।
ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥ ४२ ॥
देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः ।
तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत् ॥ ४३ ॥
प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् ।
अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥ ४४ ॥
अतीव लज्जितो जातो वासवो देवराडपि ।
यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि ॥ ४५ ॥
अतः परं न गन्तव्यं मया तु सुरसंसदि ।
किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥ ४६ ॥
देहत्यागो वरस्तस्मान्मानो हि महतां धनम् ।
माने नष्टे जीवितं तु मृतितुल्यं न संशयः ॥ ४७ ॥
इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः ।
चरित्रमीदृशं यस्य तमेव शरणं गतः ॥ ४८ ॥
तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले ।
मायाबीजं सहस्राक्ष जप तेन सुखी भव ॥ ४९ ॥
ततो जजाप परमं मायाबीजं परात्परम् ।
लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥ ५० ॥
अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ ।
तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥ ५१ ॥
तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् ।
भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥ ५२ ॥
बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् ।
चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान् ॥ ५३ ॥
दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् ।
भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम् ॥ ५४ ॥
त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् ।
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम् ॥ ५५ ॥
दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् ।
प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम् ॥ ५६ ॥
रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् ।
उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥ ५७ ॥
निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् ।
ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥ ५८ ॥
प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः ।
दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः ॥ ५९ ॥
तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः ।
उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥ ६० ॥
प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने ।
इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा ॥ ६१ ॥
रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् ।
मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥ ६२ ॥
सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण ब्रवीमि ॥ ६३ ॥
ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् ।
द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम ॥ ६४ ॥
भागद्वयवती यस्मात्सृजामि सकलं जगत् ।
तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः ॥ ६५ ॥
मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः ।
सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी ॥ ६६ ॥
चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता ।
साम्यावस्थात्मिका चैषा माया मम सुरोत्तम ॥ ६७ ॥
प्रलये सर्वजगतो मदभिन्नैव तिष्ठति ।
प्राणिकर्मपरीपाकवशतः पुनरेव हि ॥ ६८ ॥
रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च ।
अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते ॥ ६९ ॥
बहिर्मुखा तु या माया तमःशब्देन सोच्यते ।
बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः ॥ ७० ॥
रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम ।
गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ॥ ७१ ॥
रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् ।
तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥ ७२ ॥
स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः ।
रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि ॥ ७३ ॥
साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी ।
अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम् ॥ ७४ ॥
निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते ।
निर्गुणं मायया हीनं सगुणं मायया युतम् ॥ ७५ ॥
साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च ।
प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥ ७६ ॥
सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि ।
ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम् ॥ ७७ ॥
मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति ।
इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता ॥ ७८ ॥
मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा ।
युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान् ॥ ७९ ॥
कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् ।
स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः ॥ ८० ॥
तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः ।
अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम् ॥ ८१ ॥
अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् ।
निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥ ८२ ॥
अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् ।
मामेव शरणं यात सच्चिदानन्दरूपिणीम् ॥ ८३ ॥
व्यास उवाच
इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी ।
अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता ॥ ८४ ॥
ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् ।
सम्यगाराधयामासुर्भगवत्याः परात्परम् ॥ ८५ ॥
त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः ।
यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ॥ ८६ ॥
एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः ।
तारहृल्लेखयोश्चापि जपे निष्णातमानसाः ॥ ८७ ॥
न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् ।
न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥ ८८ ॥
गायत्र्युपासना नित्या सर्ववेदैः समीरिता ।
यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा ॥ ८९ ॥
तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।
गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥ ९० ॥
कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् ।
विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः ॥ ९१ ॥
शिवोपास्तिरतो विप्रो नरकं याति सर्वथा ।
तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ।
देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः ॥ ९२ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां
द्वादशस्कन्धे पराशक्तेराविर्भाववर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥