देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १६

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १५ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १६
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १७ →

सन्ध्योपासननिरूपणम्

श्रीनारायण उवाच
अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् ।
भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ १ ॥
प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ ।
प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् ॥ २ ॥
ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते ।
तद्‍भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम ॥ ३ ॥
उत्तमा तारकोपेता मध्यमा लुप्ततारका ।
अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥ ४ ॥
उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ ।
अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥ ५ ॥
विप्रो वृक्षो मूलकान्यत्र सन्ध्या
     वेदः शाखा धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्‍नतो रक्षणीयं
     छिन्ने मूले नैव वृक्षो न शाखा ॥ ६ ॥
सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता ।
जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते ॥ ७ ॥
तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् ।
तदभावेऽन्यकर्मादावधिकारी भवेन्न हि ॥ ८ ॥
उदयास्तमयादूर्ध्वं यावत्स्याद्‌घटिकात्रयम् ।
तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम् ॥ ९ ॥
कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् ।
अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत् ॥ १० ॥
यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् ।
सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत् ॥ ११ ॥
गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् ।
नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा ॥ १२ ॥
यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ ।
सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते ॥ १३ ॥
एतस्या अपरं दैवं ब्राह्मणानां च विद्यते ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ १४ ॥
यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता ।
सर्ववेदसारभूता गायत्र्यास्तु समर्चना ॥ १५ ॥
ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च ।
वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता ॥ १६ ॥
तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः ।
आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ १७ ॥
आचान्तः प्राणमायम्य केशवादिकनामभिः ।
केशवश्च तथा नारायणो माधव एव च ॥ १८ ॥
गोविन्दो विष्णुरेवाथ मधुसूदन एव च ।
त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम् ॥ १९ ॥
हृषीकेशः पद्मनाभो दामोदर अतः परम् ।
सङ्‌कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥ २० ॥
पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा ।
जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा ॥ २१ ॥
ॐकारपूर्वकं नाम चतुर्विंशतिसङ्‌ख्यया ।
स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा ॥ २२ ॥
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ ।
मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा ॥ २३ ॥
एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च ।
सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत् ॥ २४ ॥
दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्‌बुध: ।
तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत् ॥ २५ ॥
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् ।
ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्‌द्विजः ॥ २६ ॥
संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु ।
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥ २७ ॥
प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् ।
गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम् ॥ २८ ॥
दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् ।
कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधा: ॥ २९ ॥
पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् ।
कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत् ॥ ३० ॥
रेचक: पूरकश्चैव प्राणायामोऽथ कुम्भक: ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसै: ॥ ३१ ॥
रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् ।
साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः ॥ ३२ ॥
नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् ।
चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम् ॥ ३३ ॥
कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् ।
प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम् ॥ ३४ ॥
रेचके शङ्‌करं ध्यायेल्ललाटस्थं महेश्वरम् ।
शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् ॥ ३५ ॥
पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् ।
रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम् ॥ ३६ ॥
पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम ।
श्रौतमाचमनाद्यं च शृणु पापापहं मुने ॥ ३७ ॥
प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् ।
पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते ॥ ३८ ॥
गायत्रीं शिरसा सार्धं जपेद्‌व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः ॥ ३९ ॥
(सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना ।
नानापापैकशमनं महापुण्यफलप्रदम् ॥)
पञ्चाङ्‌गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु ।
सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः ॥ ४० ॥
कनिष्ठानामिकाङ्‌गुष्ठैर्यतेश्च ब्रह्मचारिणः ।
आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः ॥ ४१ ॥
ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः ।
नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु ॥ ४२ ॥
नश्येदघं मार्जनेन संवत्सरसमुद्‍भवम् ।
तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः ॥ ४३ ॥
अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति ।
प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया ॥ ४४ ॥
आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् ।
उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ॥ ४५ ॥
नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् ।
पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः ॥ ४६ ॥
द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च ।
श्वासमार्गेण तं पापमानयेत्करवारिणि ॥ ४७ ॥
नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् ।
निष्पापं तु शरीरं मे सञ्जातमिति भावयेत् ॥ ४८ ॥
उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् ।
जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्‌गुष्ठवर्जितम् ॥ ४९ ॥
वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् ।
त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने ॥ ५० ॥
ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः ।
मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः ॥ ५१ ॥
ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः ।
आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः ॥ ५२ ॥
उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः शृणु ।
त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः ॥ ५३ ॥
कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् ।
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥ ५४ ॥
उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् ।
दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा ॥ ५५ ॥
एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते ।
महापुण्यस्य जननं सन्ध्योपासनमीरितम् ॥ ५६ ॥
अर्घ्याङ्‌गभूतमन्त्रोऽयं प्रोच्यते शृणु नारद ।
यदुच्चारणमात्रेण साङ्‌गं सन्ध्याफलं भवेत् ॥ ५७ ॥
सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः ।
आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम् ॥ ५८ ॥
आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि ।
जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम ॥ ५९ ॥
उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च ।
अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम ॥ ६० ॥
ततः शुद्धस्थले नैजमासनं स्थापयेद्‌बुधः ।
तत्रारुह्य जपेत्पश्चाद्‌गायत्रीं वेदमातरम् ॥ ६१ ॥
अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने ।
प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्‌गव ॥ ६२ ॥
तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद ।
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ॥ ६३ ॥
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ।
न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः ॥ ६४ ॥
न खेचरीसमा मुद्रा सत्यं सत्यं च नारद ।
घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्‍नतः ॥ ६५ ॥
स्थिरासने स्थिरो भूत्वा निरहङ्‌कारनिर्ममः ।
लक्षणं नारद मुने शृणु सिद्धासनस्य च ॥ ६६ ॥
योनिस्थानकमङ्‌घ्रिमूलघटितं कृत्वा दृढं विन्यसे-
न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं
तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते ॥ ६७ ॥
आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् ।
गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे ॥ ६८ ॥
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते ।
यद्‌रात्र्या कुरुते पापं तद्‌रात्र्या प्रतिमुच्यते ॥ ६९ ॥
सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति ।
अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते ॥ ७० ॥
तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः ।
यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे ॥ ७१ ॥
ततः शापविमोक्षाय विधानं सम्यगाचरेत् ।
ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च ॥ ७२ ॥
वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् ।
ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते ॥ ७३ ॥
विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः ।
वसिष्ठस्मरणादेव तस्य शापो विनश्यति ॥ ७४ ॥
हृत्पद्ममध्ये पुरुषं प्रमाणं
सत्यात्मकं सर्वजगत्स्वरूपम् ।
ध्यायामि नित्यं परमात्मसंज्ञं
चिद्‌रूपमेकं वचसामगम्यम् ॥ ७५ ॥
अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् ।
ॐकारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत् ॥ ७६ ॥
भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् ।
भुवः पूर्वं तु जानुभ्यां स्व: कटिभ्यां नमो वदेत् ॥ ७७ ॥
महर्नाभ्यै जनश्चैव हदयाय ततस्तपः ।
कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत् ॥ ७८ ॥
अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् ।
भर्गो देवस्य मध्याभ्यां धीमहीत्येव कीर्तयेत् ॥ ७९ ॥
अनामाभ्यां कनिष्ठाभ्यां धियो यो न: पदं वदेत् ।
प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधी: ॥ ८० ॥
ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा ।
विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि ॥ ८१ ॥
भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् ।
शक्त्यात्मने धीमहीति कवचाय ततः परम् ॥ ८२ ॥
कालात्मने धियो यो नो नेत्रत्रय उदीरितम् ।
प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम् ॥ ८३ ॥
अक्षरन्यासमेवाग्रे कथयामि महामुने ।
गायत्रीवर्णसम्भूतन्यास: पापहरः पर: ॥ ८४ ॥
प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः ।
तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत् ॥ ८५ ॥
सकारं गुल्फयोस्तद्वद्‌विकारं जङ्घयोर्न्यसेत् ।
जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम् ॥ ८६ ॥
रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च ।
कट्यां यकारमेवात्र भकारं नाभिमण्डले ॥ ८७ ॥
गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः ।
वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके ॥ ८८ ॥
धीकारं मुखदेशे तु मकारं तालुदेशके ।
हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले ॥ ८९ ॥
भ्रूमध्ये चैव योकारं योकारं च ललाटके ।
नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे ॥ ९० ॥
चोकारं पश्चिममुखे दकारं चोत्तरे मुखे ।
याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत् ॥ ९१ ॥
एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः ।
ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम् ॥ ९२ ॥
भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् ।
रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम् ॥ ९३ ॥
रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् ।
द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम् ॥ ९४ ॥
सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् ।
हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम् ॥ ९५ ॥
चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् ।
अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत् ॥ ९६ ॥
ब्रह्मा तु कवचं यस्या गोत्रं सांख्यायनं स्मृतम् ।
आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम् ॥ ९७ ॥
एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् ।
ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः ॥ ९८ ॥
सुमुखं सपुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा ॥ ९९ ॥
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १०० ॥
विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्‌गरं पल्लवं तथा ॥ १०१ ॥
चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् ।
शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः ॥ १०२ ॥
चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि ।
जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः ॥ १०३ ॥
त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका ।
भवतीयं महापुण्या सकृज्जप्या बुधैरियम् ॥ १०४ ॥
ॐकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ।
चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः ॥ १०५ ॥
एवं नित्यं जपं कुर्याद्‌ब्राह्मणो विप्रपुङ्‌गवः ।
स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते ॥ १०६ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सन्ध्योपासननिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ </poem>