देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १५
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १४ | देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १५ वेदव्यासः |
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १६ → |
त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम्
<poem>त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम्
श्रीनारायण उवाच
अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् ।
धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ १ ॥
ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः ।
तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ २ ॥
यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते ।
तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ ३ ॥
विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् ।
तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ ४ ॥
न गायत्र्युपदेशोऽपि भस्मनो धारणं विना ।
ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत् ॥ ५ ॥
गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव ।
सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ ६ ॥
न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने ।
यावन्न भस्म भालादौ धृतमग्निसमुद्भवम् ॥ ७ ॥
भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् ।
एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ ८ ॥
मन्त्रपूतं सितं भस्म ललाटे परिवर्तते ।
स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ ९ ॥
यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसंग्रहे ।
स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ १० ॥
न यस्य सहजा प्रीतिर्मणिवद्भस्मसंग्रहे ।
स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ ११ ॥
न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु ।
स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ १२ ॥
ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् ।
ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ १३ ॥
(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति ।
स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ।
सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥)
विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि ।
न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ १४ ॥
यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ।
तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ १५ ॥
गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् ।
जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ १६ ॥
विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् ।
विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ १७ ॥
प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ।
यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ १८ ॥
प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः ।
सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः ॥ १९ ॥
स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ।
यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ २० ॥
धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु ।
न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ २१ ॥
कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् ।
मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ २२ ॥
षडङ्गुलायतं मानमपि चाधिकमानकम् ।
नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ २३ ॥
कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः ।
अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः ॥ २४ ॥
मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् ।
त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ २५ ॥
अत्र ते कथयाम्येनमितिहासं पुरातनम् ।
कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ २६ ॥
भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः ।
शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ २७ ॥
नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः ।
कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ २८ ॥
आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे ।
नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ २९ ॥
तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् ।
घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम् ॥ ३० ॥
मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः ।
छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः ॥ ३१ ॥
श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि ।
पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि ॥ ३२ ॥
ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा ।
वर्तते यमराडत्र पापिनां भोगदायकः ॥ ३३ ॥
नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः ।
सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ ॥ ३४ ॥
तत्र कुण्डान्यनेकानि पापिनां भोगदानि च ।
षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥ ३५ ॥
तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् ।
वर्तते तद्गतानां च यातनानां तु वर्णनम् ॥ ३६ ॥
कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि ।
ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः ॥ ३७ ॥
ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने ।
ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः ॥ ३८ ॥
ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने ।
कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये ॥ ३९ ॥
त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने ।
मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः ॥ ४० ॥
ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने ।
तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥ ४१ ॥
श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् ।
इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया ॥ ४२ ॥
उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः ।
अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥ ४३ ॥
तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् ।
हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे ॥ ४४ ॥
परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् ।
मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः ॥ ४५ ॥
समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः ।
वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः ॥ ४६ ॥
मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः ।
शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने ॥ ४७ ॥
महाराज महाश्चर्यमधुनैवाभवद्विभो ।
स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम् ॥ ४८ ॥
निमित्तं नैव जानीमः कस्मादिदमभूद्विभो ।
चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥ ४९ ॥
निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः ।
महामहिषमारूढो ययौ ते यत्र पापिनः ॥ ५० ॥
तां वार्तां प्रेषयामास दूतद्वारामरावतीम् ।
श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह ॥ ५१ ॥
ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः ।
तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह ॥ ५२ ॥
परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः ।
अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान् ॥ ५३ ॥
चकिता एव ते सर्वे न विदुस्तस्य कारणम् ।
अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम् ॥ ५४ ॥
तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् ।
उच्छिन्ना वेदमर्यादा परमेशकृता कथम् ॥ ५५ ॥
भगवान् स्वस्य संकल्पं वितथं कृतवान्कथम् ।
आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः ॥ ५६ ॥
तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् ।
एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः ॥ ५७ ॥
ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् ।
पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम् ॥ ५८ ॥
रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् ।
सदा षोडशवर्षीयं नानालङ्कारभूषितम् ॥ ५९ ॥
नानागणैः परिवृतं लालयन्तं परां शिवाम् ।
ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह ॥ ६० ॥
वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् ।
एतस्य कारणं देव न जानीमः कथञ्चन ॥ ६१ ॥
वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो ।
विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः ॥ ६२ ॥
उवाच मधुरं वाक्यं मेघगम्भीरया गिरा ।
शृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते ॥ ६३ ॥
भस्मनो महिमैवायं भस्मना किं भवेन्न हि ।
कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः ॥ ६४ ॥
अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे ।
भालभस्मकणास्तत्र पतिता दैवयोगतः ॥ ६५ ॥
तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् ।
इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम् ॥ ६६ ॥
भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् ।
पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति ॥ ६७ ॥
मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम ।
पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः ॥ ६८ ॥
त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् ।
पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत् ॥ ६९ ॥
श्रीनारायण उवाच
इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च ।
तदनुज्ञां समादाय ययौ देवान्तिकं हरिः ॥ ७० ॥
तत्सर्वं कथयामास कारणं शङ्करोदितम् ।
साधु साध्विति ते प्रोचुरमरा मौलिचालनैः ॥ ७१ ॥
शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः ।
पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप ॥ ७२ ॥
तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि ।
स्थापयामासुरमराः पूजयामासुरन्वहम् ॥ ७३ ॥
तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः ।
ते विमानं समारुह्य गताः कैलासमण्डलम् ॥ ७४ ॥
नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि ।
पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः ॥ ७५ ॥
निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् ।
इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम् ॥ ७६ ॥
नातः परतरं किञ्चिदधिकं विद्यते मुने ।
ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः ॥ ७७ ॥
प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् ।
ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः ॥ ७८ ॥
वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च ।
पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥ ७९ ॥
सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते ।
मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः ॥ ८० ॥
श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् ।
श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते ॥ ८१ ॥
अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् ।
अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ॥ ८२ ॥
एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् ।
वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा ॥ ८३ ॥
पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः ।
मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम् ॥ ८४ ॥
दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते ।
नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ ८५ ॥
सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् ।
चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ॥ ८६ ॥
ललाटे केशवं विद्यान्नारायणमथोदरे ।
माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ॥ ८७ ॥
उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते ।
तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च ॥ ८८ ॥
त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् ।
श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके ॥ ८९ ॥
पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् ।
द्वादशैतानि नामानि वासुदेवेति मूर्धनि ॥ ९० ॥
पूजाकाले च होमे च सायं प्रातः समाहितः ।
नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम् ॥ ९१ ॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् ।
शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः ॥ ९२ ॥
ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ ९३ ॥
एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः ।
सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन् ॥ ९४ ॥
परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः ।
हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ ९५ ॥
अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः ।
प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् ॥ ९६ ॥
अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः ।
अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ ९७ ॥
एकान्तिनां प्रपन्नानां परमैकान्तिनामपि ।
अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत् ॥ ९८ ॥
ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् ।
मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः ॥ ९९ ॥
विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः ।
करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ १०० ॥
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः ॥ १०१ ॥
निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ १०२ ॥
अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः ।
स पर्यायेण तानेति नरकानेकविंशतिम् ॥ १०३ ॥
ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् ।
ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च ॥ १०४ ॥
शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च ।
विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने ॥ १०५ ॥
तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः ।
ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम् ॥ १०६ ॥
अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ।
जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ १०७ ॥
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् ।
ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु ॥ १०८ ॥
स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः ।
तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात् ॥ १०९ ॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् ।
विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत् ॥ ११० ॥
वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि ।
पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ १११ ॥
नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः ।
श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि ॥ ११२ ॥
अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् ।
देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम् ॥ ११३ ॥
अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि ।
वेदसिद्धो महादेवः साक्षात्संसारमोचकः ॥ ११४ ॥
भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च ।
वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत् ॥ ११५ ॥
प्रादुर्भावविशेषाणामपि तस्य तदेव हि ।
श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् ॥ ११६ ॥
अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् ।
वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥ ११७ ॥
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ।
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥ ११८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ </poem>