देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १६ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १७
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १८ →

सन्ध्यादिकृत्यवर्णनम्

<poem> श्रीनारायण उवाच
भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी ।
अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ १ ॥
अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः ।
अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च ॥ २ ॥
सम्पुटैका षडोङ्‌कारा गायत्री विविधा मता ।
धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥ ३ ॥
पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् ।
जपसंख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥ ४ ॥
स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् ।
अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥ ५ ॥
सम्पुटैका षडोङ्‌कारा भवेत्सा ऊर्ध्वरेतसाम् ।
गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत् ॥ ६ ॥
तुरीयपादो गायत्र्याः परोरजसे सावदोम् ।
ध्यानमस्य प्रवक्ष्यामि जपसाङ्‌गफलप्रदम् ॥ ७ ॥
हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं
     प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् ।
अचलपरमसूक्ष्मं ज्योतिराकाशसारं
     भवतु मम मुदेऽसौ सच्चिदानन्दरूपः ॥ ८ ॥
त्रिशूलयोनी सुरभिमक्षमालां च लिङ्‌गकम् ।
अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत् ॥ ९ ॥
या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी ।
भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः ॥ १० ॥
ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः ।
लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः ॥ ११ ॥
हमाकाशात्मने पुष्पं चार्पयामि नमो नमः ।
यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् ॥ १२ ॥
रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् ।
वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत् ॥ १३ ॥
यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् ।
एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत् ॥ १४ ॥
ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः ।
न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत् ॥ १५ ॥
विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा ।
दशवारमशक्तो वा नातो न्यूनं कदाचन ॥ १६ ॥
तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः ।
न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन ॥ १७ ॥
यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः ।
सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्‌कजम् ॥ १८ ॥
लिङ्‌गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् ।
यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ॥ १९ ॥
तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि ।
गायत्रीतर्पणं चातः करणीयं महामुने ॥ २० ॥
गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः ।
सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥ २१ ॥
भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च ।
भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥ २२ ॥
स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् ।
मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत् ॥ २३ ॥
जनः पदान्त इतिहासपुराणमितीरयेत् ।
तपः सर्वागमं चैव पुरुषं तर्पयामि च ॥ २४ ॥
सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च ।
ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत् ॥ २५ ॥
भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च ।
स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥ २६ ॥
ॐभूरेकपदा नाम गायत्रीं तर्पयामि च ।
भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ॥ २७ ॥
स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् ।
ॐभूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम् ॥ २८ ॥
उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् ।
वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम् ॥ २९ ॥
साङ्‌कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् ।
तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत् ॥ ३० ॥
मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः ।
ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः ॥ ३१ ॥
तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु ।
अतो देवा इति द्वाभ्यां सर्वाङ्‌गस्पर्शनं चरेत् ॥ ३२ ॥
स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् ।
यथाविधि च गोत्रादीनुच्चरेद्‌द्विजसत्तमः ॥ ३३ ॥
एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् ।
सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत् ॥ ३४ ॥
पञ्चायतनपूजां च ततः कुर्यात्समाहितः ।
शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत् ॥ ३५ ॥
पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः ।
मूलमन्त्रेण वा कुर्याद्‌ह्रीश्च ते इति मन्त्रतः ॥ ३६ ॥
भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् ।
आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि ॥ ३७ ॥
वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः ।
षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः ॥ ३८ ॥
देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् ।
न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते ॥ ३९ ॥
अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता ।
नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम् ॥ ४० ॥
दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् ।
मल्लिकाजातिकुसुमं कुटजं पनसं तथा ॥ ४१ ॥
किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् ।
शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके ॥ ४२ ॥
मदन्तं सिन्दुवारं च पालाशकुसुमं तथा ।
दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा ॥ ४३ ॥
शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् ।
केतकीं कर्णिकारं च कदम्बकुसुमं तथा ॥ ४४ ॥
पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा ।
एवमादीनि पुष्पाणि देवीप्रियकराणि च ॥ ४५ ॥
गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः ।
कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत् ॥ ४६ ॥
एवं पूजां समाप्यैव वेदाभ्यासं चरेद्‌बुधः ।
ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् ।
तृतीयदिनभागे तु नियमेन विचक्षणः ॥ ४७ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सन्ध्यादिकृत्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥

</poem>