सामग्री पर जाएँ

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ६

विकिस्रोतः तः

6.6 प्रपाठक: 6
6.6.1 अनुवाक 1 दक्षिणाहोमकथनम्
1 सुवर्गाय वा एतानि लोकाय हूयन्ते यद् दाक्षिणानि द्वाभ्यां गार्हपत्ये जुहोति द्विपाद् यजमानः प्रतिष्ठित्यै । आग्नीध्रे जुहोति । अन्तरिक्ष एवाऽऽक्रमते सदो ऽभ्य् ऐति सुवर्गम् एवैनं लोकं गमयति सौरीभ्याम् ऋग्भ्यां गार्हपत्ये जुहोति । अमुम् एवैनं लोकꣳ समारोहयति नयवत्यर्चाग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै दिवं गच्छ सुवः पतेति हिरण्यम्
2 हुत्वोद् गृह्णाति सुवर्गम् एवैनं लोकम् गमयति रूपेण वो रूपम् अभ्य् ऐमीत्य् आह रूपेण ह्य् आसाꣳ रूपम् अभ्य् ऐति यद् धिरण्येन तुथो वो विश्ववेदा वि भजत्व् इत्य् आह तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा वि भजति तेनैवैना वि भजति । एतत् ते अग्ने राधः
3 ऐति सोमच्युतम् इत्य् आह सोमच्युतꣳ ह्य् अस्य राध ऐति तन् मित्रस्य पथा नयेत्य् आह शान्त्यै । ऋतस्य पथा प्रेत चन्द्रदक्षिणा इत्य् आह सत्यं वा ऋतम् । सत्येनैवैना ऋतेन वि भजति यज्ञस्य पथा सुविता नयन्तीर् इत्य् आह यज्ञस्य ह्य् एताः पथा यन्ति यद् दक्षिणाः । ब्राह्मणम् अद्य राध्यासम्
4 ऋषिम् आर्षेयम् इत्य् आह । एष वै ब्राह्मण ऋषिर् आर्षेयो यः शुश्रुवान् तस्माद् एवम् आह वि सुवः पश्य व्यन्तरिक्षम् इत्य् आह सुवर्गम् एवैनं लोकं गमयति यतस्व सदस्यैर् इत्य् आह मित्रत्वाय । अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्र दातारम् आ विशतेत्य् आह वयम् इह प्रदातारः स्मो ऽस्मान् अमुत्र मधुमतीर् आ विशतेति
5 वावैतद् आह हिरण्यं ददाति ज्योतिर् वै हिरण्यम् । ज्योतिर् एव पुरस्ताद् धत्ते सुवर्गस्य लोकस्यानुख्यात्यै । अग्नीधे ददाति । अग्निमुखान् एवर्तून् प्रीणाति ब्रह्मणे ददाति प्रसूत्यै होत्रे ददाति । आत्मा वा एष यज्ञस्य यद् होता । आत्मानम् एव यज्ञस्य दक्षिणाभिः सम् अर्धयति ॥
 
6.6.2 अनुवाक 2 समिष्टयजुर्होमकथनम्
1 समिष्टयजूꣳषि जुहोति यज्ञस्य समिष्ट्यै यद् वै यज्ञस्य क्रूरं यद् विलिष्टं यद् अत्येति यन् नात्येति यद् अतिकरोति यन् नापि करोति तद् एव तैः प्रीणाति नव जुहोति नव वै पुरुषे प्राणाः पुरुषेण यज्ञः सम्मितः । यावान् एव यज्ञस् तम् प्रीणाति षड् ऋग्मियाणि जुहोति षड् वा ऋतवः । ऋतून् एव प्रीणाति त्रीणि यजूꣳषि
2 त्रय इमे लोकाः । इमान् एव लोकान् प्रीणाति यज्ञ यज्ञं गच्छ यज्ञपतिं गछेत्य् आह यज्ञपतिम् एवैनं गमयति स्वाम् योनिं गच्छेत्य् आह स्वाम् एवैनं योनिं गमयति । एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर इत्य् आह यजमान एव वीर्यं दधाति वासिष्ठो ह सात्यहव्यो देवभागम् पप्रच्छ यत् सृञ्जयान् बहुयाजिनो ऽयीयजो यज्ञे
3 यज्ञम् प्रत्य् अतिष्ठिपा3 यज्ञपता3व् इति स होवाच यज्ञपताव् इति सत्याद् वै सृञ्जयाः परा बभूवुर् इति होवाच यज्ञे वाव यज्ञः प्रतिष्ठाप्य आसीद् यजमानस्यापराभावायेति देवा गातुविदो गातुं वित्त्वा गातुम् इतेत्य् आह यज्ञ एव यज्ञम् प्रति ष्ठापयति यजमानस्यापराभावाय ॥
 
6.6.3 अनुवाक 3 अवभृथयजुर्होमकथनम्
1 अवभृथयजूꣳषि जुहोति यद् एवार्वाचीनम् एकहायनाद् एनः करोति तद् एव तैर् अव यजते । अपो ऽवभृथम् अवैति । अप्सु वै वरुणः साक्षाद् एव वरुणम् अव यजते वर्त्मना वा अन्वित्य यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति साम्ना प्रस्तोतान्ववैति साम वै रक्षोहा रक्षसाम् अपहत्यै त्रिर् निधनम् उपैति त्रय इमे लोकाः । एभ्य एव लोकेभ्यो रक्षाꣳसि
2 अप हन्ति पुरुषःपुरुषो निधनम् उपैति पुरुषःपुरुषो हि रक्षस्वी रक्षसाम् अपहत्यै । उरुꣳ हि राजा वरुणश् चकारेत्य् आह प्रतिष्ठित्यै शतं ते राजन् भिषजः सहस्रम् इत्य् आह भेषजम् एवास्मै करोति । अभिष्ठितो वरुणस्य पाश इत्य् आह वरुणपाशम् एवाभि तिष्ठति बर्हिर् अभि जुहोति । आहुतीनाम् प्रतिष्ठित्यै । अथो अग्निवत्य् एव जुहोति । अपबर्हिषः प्रयाजान्
3 यजति प्रजा वै बर्हिः प्रजा एव वरुणपाशान् मुञ्चति । आज्यभागौ यजति यज्ञस्यैव चक्षुषी नान्तर् एति वरुणं यजति वरुणपाशाद् एवैनम् मुञ्चति । अग्नीवरुणौ यजति साक्षाद् एवैनं वरुणपाशान् मुञ्चति । अपबर्हिषाव् अनूयाजौ यजति प्रजा वै बर्हिः प्रजा एव वरुणपाशान् मुञ्चति चतुरः प्रयाजान् यजति द्वाव् अनूयाजौ षट् सम् पद्यन्ते षड् वा ऋतवः
4 ऋतुष्व् एव प्रति तिष्ठति । अवभृथ निचङ्कुणेत्य् आह यथोदितम् एव वरुणम् अव यजते समुद्रे ते हृदयम् अप्स्व् अन्तर् इत्य् आह समुद्रेह्य् अन्तर् वरुणः सं त्वा विशन्त्व् ओषधीर् उताप इत्य् आह । अद्भिर् एवैनम् ओषधीभिः सम्यञ्चं दधाति देवीर् आप एष वो गर्भ इत्य् आह यथायजुर् एवैतत् पशवो वै
5 सोमः । यद् भिन्दूनाम् भक्षयेत् पशुमान्त् स्याद् वरुणस् त्व् एनं गृह्णीयात् । यन् न भक्षयेद् अपशुः स्यान् नैनं वरुणो गृह्णीयात् । उपस्पृश्यम् एव पशुमान् भवति नैनं वरुणो गृह्णाति प्रतियुतो वरुणस्य पाश इत्य् आह वरुणपाशाद् एव निर् मुच्यते । अप्रतीक्षम् आ यन्ति वरुणस्यान्तर्हित्यै । एधो ऽस्य् एधिषीमहीत्य् आह समिधैवाग्निं नमस्यन्त उपायन्ति तेजो ऽसि तेजो मयि धेहीत्य् आह तेज एवात्मन् धत्ते ॥

6.6.4 अनुवाक 4 यूपैकादशिनीकथनम्
1 स्फ्येन वेदिम् उद् धन्ति रथाक्षेण वि मिमीते यूपम् मिनोति त्रिवृतम् एव वज्रꣳ सम्भृत्य भ्रातृव्याय प्र हरति स्तृत्यै यद् अन्तर्वेदि मिनुयाद् देवलोकम् अभि जयेद् यद् बहिर्वेदि मनुष्यलोकं वेद्यन्तस्य संधौ मिनोत्य् उभयोर् लोकयोर् अभिजित्यै । उपरसम्मिताम् मिनुयात् पितृलोककामस्य रशनसम्मिताम् मनुष्यलोककामस्य चषालसम्मिताम् इन्द्रियकामस्य सर्वान्त् समान् प्रतिष्ठाकामस्य ये त्रयो मध्यमास् तान्त् समान् पशुकामस्यैतान् वै
2 अनु पशव उप तिष्ठन्ते पशुमान् एव भवति व्यतिषजेद् इतरान् प्रजयैवैनम् पशुभिर् व्यतिषजति यं कामयेत प्रमायुकः स्याद् इति गर्तमितं तस्य मिनुयाद् उत्तरार्ध्यं वर्षिष्ठम् अथ ह्रसीयाꣳसम् एषा वै गर्तमिद् यस्यैवम् मिनोति ताजक् प्र मीयते दक्षिणार्ध्यं वर्षिष्ठम् मिनुयात् सुवर्गकामस्याथ ह्रसीयाꣳसम् आक्रमणम् एव तत् सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै ॥
3 यद् एकस्मिन् यूपे द्वे रशने परिव्ययति तस्माद् एको द्वे जाये विन्दते यन् नैकाꣳ रशनां द्वयोर् यूपयोः परिव्ययति तस्मान् नैका द्वौ पती विन्दते यं कामयेत स्त्र्य् अस्य जायेतेत्य् उपान्ते तस्य व्यतिषजेत् स्त्र्य् एवास्य जायते यं कामयेत पुमान् अस्य जायेतेत्य् आन्तं तस्य प्र वेष्टयेत् पुमान् एवास्य
4 जायते । असुरा वै देवान् दक्षिणत उपानयन् तान् देवा उपशयेनैवापानुदन्त तद् उपशयस्योपशयत्वं यद् दक्षिणत उपशय उपशये भ्रातृव्यापनुत्त्यै सर्वे वा अन्ये यूपाः पशुमन्तो ऽथोपशय एवापशुस् तस्य यजमानः पशुर् यन् न निर्दिशेद् आर्तिम् आर्छेद् यजमानो ऽसौ ते पशुर् इति निर् दिशेद् यं द्विष्याद् यम् एव
5 द्वेष्टि तम् अस्मै पशुं निर् दिशति यदि न द्विष्याद् आखुस् ते पशुर् इति ब्रूयान् न ग्राम्यान् पशून् हिनस्ति नारण्यान् प्रजापतिः प्रजा असृजत सो ऽन्नाद्येन व्य् आर्ध्यत स एताम् एकादशिनीम् अपश्यत् तया वै सो ऽन्नाद्यम् अवारुन्द्ध यद् दश यूपा भवन्ति दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे ।
6 य एकादशः स्तन एवास्यै स दुह एवैनां तेन वज्रो वा एषा सम् मीयते यद् एकादशिनी सेश्वरा पुरस्तात् प्रत्यञ्चं यज्ञꣳ सम्मर्दितोर् यत् पात्नीवतम् मिनोति यज्ञस्य प्रत्य् उत्तब्ध्यै सयत्वाय ॥

6.6.5 अनुवाक 5 पश्वेकादशिनीकथनम्
1 प्रजापतिः प्रजा असृजत स रिरिचानो ऽमन्यत स एताम् एकादशिनीम् अपश्यत् तया वै स आयुर् इन्द्रियं वीर्यम् आत्मन्न् अधत्त प्रजा इव खलु वा एष सृजते यो यजते स एतर्हि रिरिचान इव यद् एषैकादशिनी भवत्य् आयुर् एव तयेन्द्रियं वीर्यं यजमान आत्मन् धत्ते प्रैवाग्नेयेन वापयति मिथुनꣳ सारस्वत्या करोति रेतः
2 सौम्येन दधाति प्र जनयति पौष्णेन बार्हस्पत्यो भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवास्मै प्रजाः प्र जनयति वैश्वदेवो भवति वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्र जनयतीन्द्रियम् एवैन्द्रेणावरुन्द्धे विशम् मारुतेनौजो बलम् ऐन्द्राग्नेन प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः । मध्यत ऐन्द्रम् आ लभते मध्यत एवेन्द्रियं यजमाने दधाति ।
3 पुरस्ताद् ऐन्द्रस्य वैश्वदेवम् आलभते वैश्वदेवं वा अन्नम् अन्नम् एव पुरस्ताद् धत्ते तस्मात् पुरस्ताद् अन्नम् अद्यत ऐन्द्रम् आलभ्य मारुतम् आ लभते विड् वै मरुतो विशम् एवास्मा अनु बध्नाति यदि कामयेत यो ऽवगतः सो ऽप रुध्यतां यो ऽपरुद्धः सो ऽव गच्छत्व् इत्य् ऐन्द्रस्य लोके वारुणम् आ लभेत वारुणस्य लोक ऐन्द्रम् ।
4 य एवावगतः सो ऽप रुध्यते यो ऽपरुद्धः सो ऽव गच्छति यदि कामयेत प्रजा मुह्येयुर् इति पशून् व्यतिषजेत् प्रजा एव मोहयति यद् अभिवाहतो ऽपां वारुणम् आलभेत प्रजा वरुणो गृह्णीयाद् दक्षिणत उदञ्चम् आ लभते ऽपवाहतो ऽपाम् प्रजानाम् अवरुणग्राहाय ॥
 
6.6.6 अनुवाक 6 ?
1 इन्द्रः पत्निया मनुम् अयाजयत् ताम् पर्यग्निकृताम् उद् असृजत् तया मनुर् आर्ध्नोद् यत् पर्यग्निकृतम् पात्नीवतम् उत्सृजति याम् एव मनुर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमान ऋध्नोति यज्ञस्य वा अप्रतिष्ठिताद् यज्ञः परा भवति यज्ञम् पराभवन्तं यजमानो ऽनु परा भवति यद् आज्येन पात्नीवतꣳ सꣳस्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञम् प्रतितिष्ठन्तं यजमानो ऽनु प्रति तिष्ठति । इष्टं वपया
2 भवति अनिष्टं वशयाथ पात्नीवतेन प्र चरति तीर्थ एव प्र चरत्य् अथो एतर्ह्य् एवास्य यामस् त्वाष्ट्रो भवति त्वष्टा वै रेतसः सिक्तस्य रूपाणि वि करोति तम् एव वृषाणम् पत्नीष्व् अपि सृजति सो ऽस्मै रूपाणि वि करोति ॥

6.6.7 अनुवाक 7 सौम्यचरुकथनम्
1 घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति यत् सौम्यो भवति यथा मृतायानुस्तरणीं घ्नन्ति तादृग् एव तत् । यद् उत्तरार्धे वा मध्ये वा जुहुयात् देवताभ्यः समदं दध्याद् दक्षिणार्धे जुहोत्य् एषा वै पितृणां दिक् स्वायाम् एव दिशि पितॄन् निरवदयते । उद्गातृभ्यो हरन्ति सामदेवत्यो वै सौम्यो यद् एव साम्नश् छम्बट्कुर्वन्ति तस्यैव स शान्तिः । अव
2 ईक्षन्ते पवित्रं वै सौम्य आत्मानम् एव पवयन्ते य आत्मानं न परिपश्येद् इतासुः स्याद् अभिददिं कृत्वाऽवेक्षेत तस्मिन् ह्य् आत्मानम् परिपश्यत्य् अथो आत्मानम् एव पवयते यो गतमनाः स्यात् सो ऽवेक्षेत यन् मे मनः परागतं यद् वा मे अपरागतम् । राज्ञा सोमेन तद् वयम् अस्मासु धारयामसीति मन एवात्मन् दाधार ।
3 न गतमना भवति । अप वै तृतीयसवने यज्ञः क्रामतीजानाद् अनीजानम् अभ्य् आग्नावैष्णव्यर्चा घृतस्य यजत्य् अग्निः सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं च दाधार । उपाꣳशु यजति मिथुनत्वाय ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्विष्टं युवते वरुणो दुरिष्टं क्व तर्हि यज्ञः क्व यजमानो भवतीति यन् मैत्रावरुणीं वशाम् आलभते मित्रेणैव
4 यज्ञस्य स्विष्टꣳ शमयति वरुणेन दुरिष्टं नार्तिम् आर्छति यजमानः । यथा वै लाङ्गलेनोर्वराम् प्रभिन्दन्त्य् एवम् ऋक्सामे यज्ञम् प्र भिन्त्तो यन् मैत्रावरुणीं वशाम् आलभते यज्ञायैव प्रभिन्नाय मत्यम् अन्ववास्यति शान्त्यै यातयामानि वा एतस्य छन्दाꣳसि य ईजानश् छन्दसाम् एष रसो यद् वशा यन् मैत्रावरुणीं वशाम् आलभते छन्दाꣳस्य् एव पुनर् आ प्रीणात्य् अयातयामत्वायाथो छन्दःस्व् एव रसं दधाति ॥

6.6.8 अनुवाक 8 अतिग्राह्यग्रहकथनम्
1 देवा वा इन्द्रियं वीर्यं व्यभजन्त ततो यद् अत्यशिष्यत तद् अतिग्राह्या अभवन् तद् अतिग्राह्याणाम् अतिग्राह्यत्वम् । यद् अतिग्राह्या गृह्यन्त इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते तेज आग्नेयेनेन्द्रियम् ऐन्द्रेण ब्रह्मवर्चसꣳ सौर्येण । उपस्तम्भनं वा एतद् यज्ञस्य यद् अतिग्राह्याश् चक्रे पृष्ठानि यत् पृष्ठ्ये न गृह्णीयात् प्राञ्चं यज्ञम् पृष्ठानि सꣳ शृणीयुः । यद् उक्थ्ये
2 गृह्णीयात् प्रत्यञ्चं यज्ञम् अतिग्राह्याः सꣳ शृणीयुः । विश्वजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वाय प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स प्रियास् तनूर् अप न्य् अधत्त तद् अतिग्राह्या अभवन् वितनुस् तस्य यज्ञ इत्य् आहुर् यस्यातिग्राह्या न गृह्यन्त इति । अप्य् अग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय देवता वै सर्वाः सदृशीर् आसन् ता न व्यावृतम् अगच्छन् ते देवाः
3 एत एतान् ग्रहान् अपश्यन् तान् अगृह्णत । आग्नेयम् अग्निर् ऐन्द्रम् इन्द्रः सौर्यꣳ सूर्यस् ततो वै ते ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छन् यस्यैवं विदुष एते ग्रहा गृह्यन्ते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति । इमे लोका ज्योतिष्मन्तः समावद्वीर्याः कार्या इत्य् आहुः । आग्नेयेनास्मिम्̐ लोके ज्योतिर् धत्त ऐन्द्रेणान्तरिक्षे । इन्द्रवायू हि सयुजौ सौर्येणामुष्मिम्̐ लोके
4 ज्योतिर् धत्ते ज्योतिष्मन्तो ऽस्मा इमे लोका भवन्ति समावद्वीर्यान् एनान् कुरुते । एतान् वै ग्रहान् बम्बाविश्ववयसाव् अवित्ताम् । ताभ्याम् इमे लोकाः पराञ्चश् चार्वाञ्चश् च प्राभुः । यस्यैवं विदुष एते ग्रहा गृह्यन्ते प्रास्मा इमे लोकाः पराञ्चश् चार्वाञ्चश् च भान्ति ॥


अदाभ्य-अंशुग्रहः.

6.6.9 अनुवाक 9 अदाभ्यग्रहकथनम्
1 देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा अदाभ्ये छन्दाꣳसि सवनानि सम् अस्थापयन् ततो देवा अभवन् परासुराः । यस्यैवं विदुषो ऽदाभ्यो गृह्यते भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै देवा असुरान् अदाभ्येनादभ्नुवन् तद् अदाभ्यस्यादाभ्यत्वम् । य एवं वेद दभ्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्यो दभ्नोति ॥
2 एषा वै प्रजापतेर् अतिमोक्षिणी नाम तनूर् यद् अदाभ्यः । उपनद्धस्य गृह्णात्य् अतिमुक्त्यै । अति पाप्मानम् भ्रातृव्यम् मुच्यते य एवं वेद घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति सोमे हन्यमाने यज्ञो हन्यते यज्ञे यजमानः । ब्रह्मवादिनो वदन्ति किं तद् यज्ञे यजमानः कुरुते येन जीवन्त् सुवर्गं लोकम् एतीति जीवग्रहो वा एष यद् अदाभ्यः । अनभिषुतस्य गृह्णाति जीवन्तम् एवैनꣳ सुवर्गं लोकं गमयति वि वा एतद् यज्ञं छिन्दन्ति यद् अदाभ्ये सꣳस्थापयन्ति । अꣳशून् अपि सृजति यज्ञस्य संतत्यै ॥

6.6.10 अनुवाक 10 अंशुग्रहकथनम्
1 देवा वै प्रबाहुग् ग्रहान् अगृह्णत स एतम् प्रजापतिर् अꣳशुम् अपश्यत् तम् अगृह्णीत तेन वै स आर्ध्नोत् । यस्यैवं विदुषो ऽꣳशुर् गृह्यत ऋध्नोत्य् एव सकृदभिषुतस्य गृह्णाति सकृद् धि स तेनार्ध्नोत् । मनसा गृह्णाति मन इव हि प्रजापतिः प्रजापतेर् आप्त्यै । औदुम्बरेण गृह्णाति । ऊर्ग् वा उदुम्बरः । ऊर्जम् एवाव रुन्द्धे चतुःस्रक्ति भवति दिक्षु
2 एव प्रति तिष्ठति यो वा अꣳशोर् आयतनं वेदायतनवान् भवति वामदेव्यम् इति साम तद् वा अस्यायतनम् मनसा गायमानो गृह्णाति । आयतनवान् एव भवति यद् अध्वर्युर् अꣳशुं गृह्णन् नार्धयेद् उभाभ्यां नर्ध्येताध्वर्यवे च यजमानाय च यद् अर्धयेद् उभाभ्याम् ऋध्येत । अनवानं गृह्णाति सैवास्यर्द्धिः । हिरण्यम् अभि व्यनिति । अमृतं वै हिरण्यम् आयुः प्राण आयुषैवामृतम् अभि धिनोति शतमानम् भवति शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठति ॥

टिप्पणी

अंशु उपरि टिप्पणी

अदाभ्यग्रहणम्
अग्निष्टोमे प्रातःसवने आधवनीयाऽब्ग्रहणानन्तरमदाभ्यपात्रमधस्तादुपरिष्टाद्रजत-सुवर्णरुक्माभ्यां क्रमेणावेष्ट्य तस्मिन्नंशून् निधाय होतृचमसीया अपो गृह्णाति- ' शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः । आऽस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत इति । तदेतददाभ्यग्रहणमुच्यते ।

अदाभ्यग्रहहोमः -- अग्निष्टोमे प्रातःसवने ककुहं रूपं वृषभस्य रोचते बृहत् इति ग्रहमादायोपोत्तिष्ठति । ' सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ' इति आहवनीयसकाशमेति । वषट्कारपथस्य दक्षिणतः प्राङ्मुखस्तिष्ठन् अन्वारब्धे यजमाने सर्वं जुहोति- यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा' इति । सोमायेदमिति यजमानः । अध्वर्युः प्रदक्षिणमावृत्य राजन्यंशून् प्रक्षिपति । ' उशिक् त्वं सोम गायत्रेण छन्दसाऽग्नेः प्रियं पाथो अपीहि ' इति प्रथममंशुं प्रक्षिपति । ' वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथो अपीहि ' इति द्वितीयम् । ' अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहि ' इति तृतीयम् । सोऽयमदाभ्यग्रहहोमः उच्यते । - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोशः
पण्डित पीताम्बरदत्त शास्त्री
(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)

पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः।
पवस्व धिषणाभ्यः॥ ९.०५९.०२
हे सोम त्वम् “अद्भ्यः वसतीवरीभ्यः “अदाभ्यः अंशुभ्यश्च “पवस्व क्षर । अपि च "ओषधीभ्यः “पवस्व क्षर। किंच “धिषणाभ्यः ग्रावभ्यः “पवस्व क्षर ॥- सा.भा.
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत।
अदाभ्यं गृहपतिम्॥ १०.११८.०६
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह।
गोपा ऋतस्य दीदिहि॥ १०.११८.०७

अदाभ्य (ग्रह)
१. तानसुरान् ( देवाः ) आदभ्नुवꣳस्तददाभ्यस्यादाभ्यत्वम् । मै ४, ७, ७
२. तेऽब्रुवन्नदभन्न इति तदस्यादाभ्यत्वमथो यदेनान् दब्धुं नाशक्नुवꣳस्तदस्यादाभ्यत्वम् । काठ ३०, ७॥
३. ते ( देवाः ) होचुः । अदभाम वाऽएनान् (असुरान् ) इति तस्माददाभ्यो न वै ( असुराः) नोऽदभन्निति तस्माददाभ्यो वाग्वाऽअदाभ्यः । माश ११, ५, ९, ५
४. प्राणाय त्वा। यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा। प्रागपागधरागुदगेतास्त्वा दिशा आधावन्तु ,। मै १, ३, ४
५. यद्वै देवा असुरान् अदाभ्येनादभ्नुवन् तदाभ्यस्यादाभ्यत्वम् । तैसं ६, ६, ९,१ ।
६. प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैव.... वागेवादाभ्यः । माश ११, ५, ९, १
अथ मनो ह वा अंशुः। वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै श ११.५.९.२


6.6.11 अनुवाक 11 षोडशिग्रहकथनम्
1 प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स रिरिचानो ऽमन्यत स यज्ञानाꣳ षोडशधेन्द्रियं वीर्यम् आत्मानम् अभि सम् अक्खिदत् तत् षोडश्य् अभवत् न वै षोडशी नाम यज्ञो ऽस्ति यद् वाव षोडशꣳ स्तोत्रꣳ षोडशꣳ शस्त्रं तेन षोडशी तत् षोडशिनः षोडशित्वम् । यत् षोडशी गृह्यत इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते देवेभ्यो वै सुवर्गो लोकः
2 न प्राभवत् त एतꣳ षोडशिनम् अपश्यन् तम् अगृह्णत ततो वै तेभ्यः सुवर्गो लोकः प्राभवत् । यत् षोडशी गृह्यते सुवर्गस्य लोकस्याभिजित्यै । इन्द्रो वै देवानाम् आनुजावर आसीत् स प्रजापतिम् उपाधावत् तस्मा एतꣳ षोडशिनम् प्रायच्छत् तम् अगृह्णीत ततो वै सो ऽग्रं देवतानाम् पर्य् ऐत् । यस्यैवं विदुषः षोडशी गृह्यते
3 अग्रम् एव समानानाम् पर्य् एति प्रातःसवने गृह्णाति वज्रो वै षोडशी वज्रः प्रातःसवनम् । स्वाद् एवैनं योनेर् नि गृह्णाति सवनेसवने ऽभि गृह्णाति सवनात्सवनाद् एवैनम् प्र जनयति तृतीयसवने पशुकामस्य गृह्णीयात् । वज्रो वै षोडशी पशवस् तृतीयसवनम् । वज्रेणैवास्मै तृतीयसवनात् पशून् अव रुन्द्धे नोक्थ्ये गृह्णीयात् प्रजा वै पशव उक्थानि यद् उक्थ्ये
4 गृह्णीयात् प्रजाम् पशून् अस्य निर् दहेत् । अतिरात्रे पशुकामस्य गृह्णीयात् । वज्रो वै षोडशी वज्रेणैवास्मै पशून् अवरुध्य रात्रियोपरिष्टाच् छमयति । अप्य् अग्निष्टोमे राजन्यस्य गृह्णीयात् । व्यावृत्कामो हि राजन्यो यजते साह्न एवास्मै वज्रं गृह्णाति स एनं वज्रो भूत्या इन्द्धे निर् वा दहति । एकविꣳशꣳ स्तोत्रम् भवति प्रतिष्ठित्यै हरिवच् छस्यते । इन्द्रस्य प्रियं धाम ॥
5 उपाप्नोति कनीयाꣳसि वै देवेषु छन्दाꣳस्य् आसञ् ज्यायाꣳस्य् असुरेषु ते देवाः कनीयसा छन्दसा ज्यायश् छन्दो ऽभि व्यशꣳसन् ततो वै ते ऽसुराणां लोकम् अवृञ्जत यत् कनीयसा छन्दसा ज्यायश् छन्दो ऽभि विशꣳसति भ्रातृव्यस्यैव तल् लोकं वृङ्क्ते षड् अक्षराण्य् अति रेचयन्ति षड् वा ऋतवः । ऋतून् एव प्रीणाति चत्वारि पूर्वाण्य् अव कल्पयन्ति ॥
6 चतुष्पद एव पशून् अव रुन्द्धे द्वे उत्तरे द्विपद एवाव रुन्द्धे । अनुष्टुभम् अभि सम् पादयन्ति वाग् वा अनुष्टुप् तस्मात् प्राणानां वाग् उत्तमा समयाविषिते सूर्ये षोडशिन स्तोत्रम् उपाकरोति । एतस्मिन् वै लोक इन्द्रो वृत्रम् अहन् । साक्षाद् एव वज्रम् भ्रातृव्याय प्र हरति । अरुणपिशंगो ऽश्वो दक्षिणा । तद् वै वज्रस्य रूपम् । समृद्ध्यै ॥


6.6.1 अनुवाक 1 दक्षिणाहोमकथनम्
1
    सुवर्गाय वा एतानि लोकाय हूयन्ते यद् दाक्षिणानि
    द्वाभ्यां गार्हपत्ये जुहोति
    द्विपाद् यजमानः
    प्रतिष्ठित्यै ।
    आग्नीध्रे जुहोति ।
    अन्तरिक्ष एवाऽऽक्रमते
    सदो ऽभ्य् ऐति
    सुवर्गम् एवैनं लोकं गमयति
    सौरीभ्याम् ऋग्भ्यां गार्हपत्ये जुहोति ।
    अमुम् एवैनं लोकꣳ समारोहयति
    नयवत्यर्चाग्नीध्रे जुहोति
    सुवर्गस्य लोकस्याभिनीत्यै
   दिवं गच्छ सुवः पतेति हिरण्यम्

2
    हुत्वोद् गृह्णाति
    सुवर्गम् एवैनं लोकम् गमयति
    रूपेण वो रूपम् अभ्य् ऐमीत्य् आह
    रूपेण ह्य् आसाꣳ रूपम् अभ्य् ऐति यद् धिरण्येन
    तुथो वो विश्ववेदा वि भजत्व् इत्य् आह
    तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा वि भजति
    तेनैवैना वि भजति ।
    एतत् ते अग्ने राधः

3
    ऐति सोमच्युतम् इत्य् आह
    सोमच्युतꣳ ह्य् अस्य राध ऐति
    तन् मित्रस्य पथा नयेत्य् आह
    शान्त्यै ।
    ऋतस्य पथा प्रेत चन्द्रदक्षिणा इत्य् आह
    सत्यं वा ऋतम् ।
    सत्येनैवैना ऋतेन वि भजति
    यज्ञस्य पथा सुविता नयन्तीर् इत्य् आह
    यज्ञस्य ह्य् एताः पथा यन्ति यद् दक्षिणाः ।
   ब्राह्मणम् अद्य राध्यासम्

4
    ऋषिम् आर्षेयम् इत्य् आह ।
    एष वै ब्राह्मण ऋषिर् आर्षेयो यः शुश्रुवान्
    तस्माद् एवम् आह
    वि सुवः पश्य व्यन्तरिक्षम् इत्य् आह
    सुवर्गम् एवैनं लोकं गमयति
    यतस्व सदस्यैर् इत्य् आह
    मित्रत्वाय ।
    अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्र दातारम् आ विशतेत्य् आह
    वयम् इह प्रदातारः स्मो ऽस्मान् अमुत्र मधुमतीर् आ विशतेति

5
    वावैतद् आह
    हिरण्यं ददाति
    ज्योतिर् वै हिरण्यम् ।
    ज्योतिर् एव पुरस्ताद् धत्ते
    सुवर्गस्य लोकस्यानुख्यात्यै ।
    अग्नीधे ददाति ।
    अग्निमुखान् एवर्तून् प्रीणाति
    ब्रह्मणे ददाति
    प्रसूत्यै
    होत्रे ददाति ।
    आत्मा वा एष यज्ञस्य यद् होता ।
    आत्मानम् एव यज्ञस्य दक्षिणाभिः सम् अर्धयति ॥

6.6.2 अनुवाक 2 समिष्टयजुर्होमकथनम्
1
    समिष्टयजूꣳषि जुहोति
    यज्ञस्य समिष्ट्यै
    यद् वै यज्ञस्य क्रूरं यद् विलिष्टं यद् अत्येति यन् नात्येति यद् अतिकरोति यन् नापि करोति तद् एव तैः प्रीणाति
    नव जुहोति
    नव वै पुरुषे प्राणाः
    पुरुषेण यज्ञः सम्मितः ।
    यावान् एव यज्ञस् तम् प्रीणाति
    षड् ऋग्मियाणि जुहोति
    षड् वा ऋतवः ।
    ऋतून् एव प्रीणाति
    त्रीणि यजूꣳषि

2
    त्रय इमे लोकाः ।
    इमान् एव लोकान् प्रीणाति
    यज्ञ यज्ञं गच्छ यज्ञपतिं गछेत्य् आह
    यज्ञपतिम् एवैनं गमयति
    स्वाम् योनिं गच्छेत्य् आह
    स्वाम् एवैनं योनिं गमयति ।
    एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीर इत्य् आह
    यजमान एव वीर्यं दधाति
    वासिष्ठो ह सात्यहव्यो देवभागम् पप्रच्छ
    यत् सृञ्जयान् बहुयाजिनो ऽयीयजो यज्ञे

3
    यज्ञम् प्रत्य् अतिष्ठिपा3 यज्ञपता3व् इति
    स होवाच
    यज्ञपताव् इति
    सत्याद् वै सृञ्जयाः परा बभूवुर् इति होवाच यज्ञे वाव यज्ञः प्रतिष्ठाप्य आसीद् यजमानस्यापराभावायेति
    देवा गातुविदो गातुं वित्त्वा गातुम् इतेत्य् आह
    यज्ञ एव यज्ञम् प्रति ष्ठापयति
    यजमानस्यापराभावाय ॥

6.6.3 अनुवाक 3 अवभृथयजुर्होमकथनम्
1
    अवभृथयजूꣳषि जुहोति
    यद् एवार्वाचीनम् एकहायनाद् एनः करोति तद् एव तैर् अव यजते ।
    अपो ऽवभृथम् अवैति ।
    अप्सु वै वरुणः
    साक्षाद् एव वरुणम् अव यजते
    वर्त्मना वा अन्वित्य यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति
    साम्ना प्रस्तोतान्ववैति
    साम वै रक्षोहा
    रक्षसाम् अपहत्यै
    त्रिर् निधनम् उपैति
    त्रय इमे लोकाः ।
    एभ्य एव लोकेभ्यो रक्षाꣳसि

2
    अप हन्ति
    पुरुषःपुरुषो निधनम् उपैति
    पुरुषःपुरुषो हि रक्षस्वी
    रक्षसाम् अपहत्यै ।
    उरुꣳ हि राजा वरुणश् चकारेत्य् आह
    प्रतिष्ठित्यै
    शतं ते राजन् भिषजः सहस्रम् इत्य् आह
    भेषजम् एवास्मै करोति ।
    अभिष्ठितो वरुणस्य पाश इत्य् आह
    वरुणपाशम् एवाभि तिष्ठति
    बर्हिर् अभि जुहोति ।
   आहुतीनाम् प्रतिष्ठित्यै ।
    अथो अग्निवत्य् एव जुहोति ।
    अपबर्हिषः प्रयाजान्

3
    यजति
    प्रजा वै बर्हिः
    प्रजा एव वरुणपाशान् मुञ्चति ।
    आज्यभागौ यजति
    यज्ञस्यैव चक्षुषी नान्तर् एति
    वरुणं यजति
    वरुणपाशाद् एवैनम् मुञ्चति ।
    अग्नीवरुणौ यजति
    साक्षाद् एवैनं वरुणपाशान् मुञ्चति ।
    अपबर्हिषाव् अनूयाजौ यजति
    प्रजा वै बर्हिः
    प्रजा एव वरुणपाशान् मुञ्चति
   चतुरः प्रयाजान् यजति द्वाव् अनूयाजौ
    षट् सम् पद्यन्ते
    षड् वा ऋतवः

4
    ऋतुष्व् एव प्रति तिष्ठति ।
    अवभृथ निचङ्कुणेत्य् आह
    यथोदितम् एव वरुणम् अव यजते
    समुद्रे ते हृदयम् अप्स्व् अन्तर् इत्य् आह
    समुद्रेह्य् अन्तर् वरुणः
    सं त्वा विशन्त्व् ओषधीर् उताप इत्य् आह ।
    अद्भिर् एवैनम् ओषधीभिः सम्यञ्चं दधाति
    देवीर् आप एष वो गर्भ इत्य् आह
    यथायजुर् एवैतत्
    पशवो वै

5
    सोमः ।
    यद् भिन्दूनाम् भक्षयेत् पशुमान्त् स्याद् वरुणस् त्व् एनं गृह्णीयात् ।
    यन् न भक्षयेद् अपशुः स्यान् नैनं वरुणो गृह्णीयात् ।
    उपस्पृश्यम् एव पशुमान् भवति नैनं वरुणो गृह्णाति
    प्रतियुतो वरुणस्य पाश इत्य् आह
    वरुणपाशाद् एव निर् मुच्यते ।
    अप्रतीक्षम् आ यन्ति वरुणस्यान्तर्हित्यै ।
    एधो ऽस्य् एधिषीमहीत्य् आह
    समिधैवाग्निं नमस्यन्त उपायन्ति
    तेजो ऽसि तेजो मयि धेहीत्य् आह
   तेज एवात्मन् धत्ते ॥

6.6.4 अनुवाक 4 यूपैकादशिनीकथनम्
1
    स्फ्येन वेदिम् उद् धन्ति रथाक्षेण वि मिमीते यूपम् मिनोति त्रिवृतम् एव वज्रꣳ सम्भृत्य भ्रातृव्याय प्र हरति स्तृत्यै
    यद् अन्तर्वेदि मिनुयाद् देवलोकम् अभि जयेद् यद् बहिर्वेदि मनुष्यलोकं वेद्यन्तस्य संधौ मिनोत्य् उभयोर् लोकयोर् अभिजित्यै ।
    उपरसम्मिताम् मिनुयात् पितृलोककामस्य रशनसम्मिताम् मनुष्यलोककामस्य चषालसम्मिताम् इन्द्रियकामस्य सर्वान्त् समान् प्रतिष्ठाकामस्य ये त्रयो मध्यमास् तान्त् समान् पशुकामस्यैतान् वै

2
    अनु पशव उप तिष्ठन्ते पशुमान् एव भवति
    व्यतिषजेद् इतरान् प्रजयैवैनम् पशुभिर् व्यतिषजति
    यं कामयेत प्रमायुकः स्याद् इति गर्तमितं तस्य मिनुयाद् उत्तरार्ध्यं वर्षिष्ठम् अथ ह्रसीयाꣳसम् एषा वै गर्तमिद् यस्यैवम् मिनोति ताजक् प्र मीयते
    दक्षिणार्ध्यं वर्षिष्ठम् मिनुयात् सुवर्गकामस्याथ ह्रसीयाꣳसम् आक्रमणम् एव तत् सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै ॥

3
    यद् एकस्मिन् यूपे द्वे रशने परिव्ययति तस्माद् एको द्वे जाये विन्दते यन् नैकाꣳ रशनां द्वयोर् यूपयोः परिव्ययति तस्मान् नैका द्वौ पती विन्दते
    यं कामयेत स्त्र्य् अस्य जायेतेत्य् उपान्ते तस्य व्यतिषजेत् स्त्र्य् एवास्य जायते
    यं कामयेत पुमान् अस्य जायेतेत्य् आन्तं तस्य प्र वेष्टयेत् पुमान् एवास्य

4
    जायते ।
    असुरा वै देवान् दक्षिणत उपानयन् तान् देवा उपशयेनैवापानुदन्त तद् उपशयस्योपशयत्वं यद् दक्षिणत उपशय उपशये भ्रातृव्यापनुत्त्यै
    सर्वे वा अन्ये यूपाः पशुमन्तो ऽथोपशय एवापशुस् तस्य यजमानः पशुर् यन् न निर्दिशेद् आर्तिम् आर्छेद् यजमानो ऽसौ ते पशुर् इति निर् दिशेद् यं द्विष्याद् यम् एव

5
    द्वेष्टि तम् अस्मै पशुं निर् दिशति
    यदि न द्विष्याद् आखुस् ते पशुर् इति ब्रूयान् न ग्राम्यान् पशून् हिनस्ति नारण्यान्
    प्रजापतिः प्रजा असृजत सो ऽन्नाद्येन व्य् आर्ध्यत स एताम् एकादशिनीम् अपश्यत् तया वै सो ऽन्नाद्यम् अवारुन्द्ध यद् दश यूपा भवन्ति दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे ।

6
    य एकादशः स्तन एवास्यै स दुह एवैनां तेन
    वज्रो वा एषा सम् मीयते यद् एकादशिनी सेश्वरा पुरस्तात् प्रत्यञ्चं यज्ञꣳ सम्मर्दितोर् यत् पात्नीवतम् मिनोति यज्ञस्य प्रत्य् उत्तब्ध्यै सयत्वाय ॥

6.6.5 अनुवाक 5 पश्वेकादशिनीकथनम्
1
    प्रजापतिः प्रजा असृजत स रिरिचानो ऽमन्यत स एताम् एकादशिनीम् अपश्यत् तया वै स आयुर् इन्द्रियं वीर्यम् आत्मन्न् अधत्त प्रजा इव खलु वा एष सृजते यो यजते स एतर्हि रिरिचान इव यद् एषैकादशिनी भवत्य् आयुर् एव तयेन्द्रियं वीर्यं यजमान आत्मन् धत्ते
    प्रैवाग्नेयेन वापयति मिथुनꣳ सारस्वत्या करोति रेतः

2
    सौम्येन दधाति प्र जनयति पौष्णेन बार्हस्पत्यो भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवास्मै प्रजाः प्र जनयति वैश्वदेवो भवति वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्र जनयतीन्द्रियम् एवैन्द्रेणावरुन्द्धे विशम् मारुतेनौजो बलम् ऐन्द्राग्नेन प्रसवाय सावित्रो निर्वरुणत्वाय वारुणः ।
    मध्यत ऐन्द्रम् आ लभते मध्यत एवेन्द्रियं यजमाने दधाति ।

3
    पुरस्ताद् ऐन्द्रस्य वैश्वदेवम् आलभते वैश्वदेवं वा अन्नम् अन्नम् एव पुरस्ताद् धत्ते तस्मात् पुरस्ताद् अन्नम् अद्यत ऐन्द्रम् आलभ्य मारुतम् आ लभते विड् वै मरुतो विशम् एवास्मा अनु बध्नाति
    यदि कामयेत यो ऽवगतः सो ऽप रुध्यतां यो ऽपरुद्धः सो ऽव गच्छत्व् इत्य् ऐन्द्रस्य लोके वारुणम् आ लभेत वारुणस्य लोक ऐन्द्रम् ।

4
    य एवावगतः सो ऽप रुध्यते यो ऽपरुद्धः सो ऽव गच्छति
    यदि कामयेत प्रजा मुह्येयुर् इति पशून् व्यतिषजेत् प्रजा एव मोहयति
    यद् अभिवाहतो ऽपां वारुणम् आलभेत प्रजा वरुणो गृह्णीयाद् दक्षिणत उदञ्चम् आ लभते ऽपवाहतो ऽपाम् प्रजानाम् अवरुणग्राहाय ॥

6.6.6 अनुवाक 6 ?
1
    इन्द्रः पत्निया मनुम् अयाजयत् ताम् पर्यग्निकृताम् उद् असृजत् तया मनुर् आर्ध्नोद् यत् पर्यग्निकृतम् पात्नीवतम् उत्सृजति याम् एव मनुर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमान ऋध्नोति
    यज्ञस्य वा अप्रतिष्ठिताद् यज्ञः परा भवति यज्ञम् पराभवन्तं यजमानो ऽनु परा भवति यद् आज्येन पात्नीवतꣳ सꣳस्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञम् प्रतितिष्ठन्तं यजमानो ऽनु प्रति तिष्ठति ।
    इष्टं वपया

2
    भवति अनिष्टं वशयाथ पात्नीवतेन प्र चरति तीर्थ एव प्र चरत्य् अथो एतर्ह्य् एवास्य यामस्
    त्वाष्ट्रो भवति त्वष्टा वै रेतसः सिक्तस्य रूपाणि वि करोति तम् एव वृषाणम् पत्नीष्व् अपि सृजति सो ऽस्मै रूपाणि वि करोति ॥

6.6.7 अनुवाक 7 सौम्यचरुकथनम्
1
    घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति
    यत् सौम्यो भवति यथा मृतायानुस्तरणीं घ्नन्ति तादृग् एव तत् ।
    यद् उत्तरार्धे वा मध्ये वा जुहुयात् देवताभ्यः समदं दध्याद् दक्षिणार्धे जुहोत्य् एषा वै पितृणां दिक् स्वायाम् एव दिशि पितॄन् निरवदयते ।
    उद्गातृभ्यो हरन्ति सामदेवत्यो वै सौम्यो यद् एव साम्नश् छम्बट्कुर्वन्ति तस्यैव स शान्तिः ।
    अव

2
    ईक्षन्ते पवित्रं वै सौम्य आत्मानम् एव पवयन्ते
    य आत्मानं न परिपश्येद् इतासुः स्याद् अभिददिं कृत्वाऽवेक्षेत तस्मिन् ह्य् आत्मानम् परिपश्यत्य् अथो आत्मानम् एव पवयते
    यो गतमनाः स्यात् सो ऽवेक्षेत यन् मे मनः परागतं यद् वा मे अपरागतम् । राज्ञा सोमेन तद् वयम् अस्मासु धारयामसीति मन एवात्मन् दाधार ।

3
    न गतमना भवति ।
    अप वै तृतीयसवने यज्ञः क्रामतीजानाद् अनीजानम् अभ्य् आग्नावैष्णव्यर्चा घृतस्य यजत्य् अग्निः सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं च दाधार ।
    उपाꣳशु यजति मिथुनत्वाय
    ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्विष्टं युवते वरुणो दुरिष्टं क्व तर्हि यज्ञः क्व यजमानो भवतीति यन् मैत्रावरुणीं वशाम् आलभते मित्रेणैव

4
    यज्ञस्य स्विष्टꣳ शमयति वरुणेन दुरिष्टं नार्तिम् आर्छति यजमानः ।
    यथा वै लाङ्गलेनोर्वराम् प्रभिन्दन्त्य् एवम् ऋक्सामे यज्ञम् प्र भिन्त्तो यन् मैत्रावरुणीं वशाम् आलभते यज्ञायैव प्रभिन्नाय मत्यम् अन्ववास्यति शान्त्यै
    यातयामानि वा एतस्य छन्दाꣳसि य ईजानश् छन्दसाम् एष रसो यद् वशा यन् मैत्रावरुणीं वशाम् आलभते छन्दाꣳस्य् एव पुनर् आ प्रीणात्य् अयातयामत्वायाथो छन्दःस्व् एव रसं दधाति ॥

6.6.8 अनुवाक 8 अतिग्राह्यग्रहकथनम्
1
    देवा वा इन्द्रियं वीर्यं व्यभजन्त
    ततो यद् अत्यशिष्यत तद् अतिग्राह्या अभवन्
    तद् अतिग्राह्याणाम् अतिग्राह्यत्वम् ।
    यद् अतिग्राह्या गृह्यन्त इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते
    तेज आग्नेयेनेन्द्रियम् ऐन्द्रेण ब्रह्मवर्चसꣳ सौर्येण ।
    उपस्तम्भनं वा एतद् यज्ञस्य यद् अतिग्राह्याश् चक्रे पृष्ठानि
    यत् पृष्ठ्ये न गृह्णीयात् प्राञ्चं यज्ञम् पृष्ठानि सꣳ शृणीयुः ।
    यद् उक्थ्ये

2
    गृह्णीयात् प्रत्यञ्चं यज्ञम् अतिग्राह्याः सꣳ शृणीयुः ।
    विश्वजिति सर्वपृष्ठे ग्रहीतव्या यज्ञस्य सवीर्यत्वाय
    प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत्
    स प्रियास् तनूर् अप न्य् अधत्त
    तद् अतिग्राह्या अभवन्
    वितनुस् तस्य यज्ञ इत्य् आहुर् यस्यातिग्राह्या न गृह्यन्त इति ।
    अप्य् अग्निष्टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय
    देवता वै सर्वाः सदृशीर् आसन्
    ता न व्यावृतम् अगच्छन्
    ते देवाः

3
    एत एतान् ग्रहान् अपश्यन्
    तान् अगृह्णत ।
    आग्नेयम् अग्निर् ऐन्द्रम् इन्द्रः सौर्यꣳ सूर्यस्
    ततो वै ते ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छन्
    यस्यैवं विदुष एते ग्रहा गृह्यन्ते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति ।
    इमे लोका ज्योतिष्मन्तः समावद्वीर्याः कार्या इत्य् आहुः ।
    आग्नेयेनास्मिम्̐ लोके ज्योतिर् धत्त ऐन्द्रेणान्तरिक्षे ।
    इन्द्रवायू हि सयुजौ
    सौर्येणामुष्मिम्̐ लोके

4
    ज्योतिर् धत्ते
    ज्योतिष्मन्तो ऽस्मा इमे लोका भवन्ति समावद्वीर्यान् एनान् कुरुते ।
    एतान् वै ग्रहान् बम्बाविश्ववयसाव् अवित्ताम् ।
    ताभ्याम् इमे लोकाः पराञ्चश् चार्वाञ्चश् च प्राभुः ।
    यस्यैवं विदुष एते ग्रहा गृह्यन्ते प्रास्मा इमे लोकाः पराञ्चश् चार्वाञ्चश् च भान्ति ॥

6.6.9 अनुवाक 9 अदाभ्यग्रहकथनम्
1
    देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
    ते देवा अदाभ्ये छन्दाꣳसि सवनानि सम् अस्थापयन्
    ततो देवा अभवन् परासुराः ।
    यस्यैवं विदुषो ऽदाभ्यो गृह्यते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
    यद् वै देवा असुरान् अदाभ्येनादभ्नुवन् तद् अदाभ्यस्यादाभ्यत्वम् ।
    य एवं वेद दभ्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्यो दभ्नोति ॥

2
    एषा वै प्रजापतेर् अतिमोक्षिणी नाम तनूर् यद् अदाभ्यः ।
    उपनद्धस्य गृह्णात्य् अतिमुक्त्यै ।
    अति पाप्मानम् भ्रातृव्यम् मुच्यते य एवं वेद
    घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति
    सोमे हन्यमाने यज्ञो हन्यते यज्ञे यजमानः ।
    ब्रह्मवादिनो वदन्ति
    किं तद् यज्ञे यजमानः कुरुते येन जीवन्त् सुवर्गं लोकम् एतीति
    जीवग्रहो वा एष यद् अदाभ्यः ।
    अनभिषुतस्य गृह्णाति
    जीवन्तम् एवैनꣳ सुवर्गं लोकं गमयति
    वि वा एतद् यज्ञं छिन्दन्ति यद् अदाभ्ये सꣳस्थापयन्ति ।
   अꣳशून् अपि सृजति यज्ञस्य संतत्यै ॥

6.6.10 अनुवाक 10 अंशुग्रहकथनम्
1
    देवा वै प्रबाहुग् ग्रहान् अगृह्णत
    स एतम् प्रजापतिर् अꣳशुम् अपश्यत्
    तम् अगृह्णीत
    तेन वै स आर्ध्नोत् ।
    यस्यैवं विदुषो ऽꣳशुर् गृह्यत ऋध्नोत्य् एव
    सकृदभिषुतस्य गृह्णाति
    सकृद् धि स तेनार्ध्नोत् ।
    मनसा गृह्णाति
    मन इव हि प्रजापतिः
    प्रजापतेर् आप्त्यै ।
   औदुम्बरेण गृह्णाति ।
    ऊर्ग् वा उदुम्बरः ।
    ऊर्जम् एवाव रुन्द्धे
    चतुःस्रक्ति भवति
    दिक्षु

2
    एव प्रति तिष्ठति
    यो वा अꣳशोर् आयतनं वेदायतनवान् भवति
    वामदेव्यम् इति साम तद् वा अस्यायतनम् मनसा गायमानो गृह्णाति ।
    आयतनवान् एव भवति
    यद् अध्वर्युर् अꣳशुं गृह्णन् नार्धयेद् उभाभ्यां नर्ध्येताध्वर्यवे च यजमानाय च
    यद् अर्धयेद् उभाभ्याम् ऋध्येत ।
    अनवानं गृह्णाति सैवास्यर्द्धिः ।
    हिरण्यम् अभि व्यनिति ।
    अमृतं वै हिरण्यम् आयुः प्राण आयुषैवामृतम् अभि धिनोति
   शतमानम् भवति
    शतायुः पुरुषः शतेन्द्रियः ।
    आयुष्य् एवेन्द्रिये प्रति तिष्ठति ॥

6.6.11 अनुवाक 11 षोडशिग्रहकथनम्
1
    प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत्
    स रिरिचानो ऽमन्यत
    स यज्ञानाꣳ षोडशधेन्द्रियं वीर्यम् आत्मानम् अभि सम् अक्खिदत्
    तत् षोडश्य् अभवत्
    न वै षोडशी नाम यज्ञो ऽस्ति
    यद् वाव षोडशꣳ स्तोत्रꣳ षोडशꣳ शस्त्रं तेन षोडशी
    तत् षोडशिनः षोडशित्वम् ।
    यत् षोडशी गृह्यत इन्द्रियम् एव तद् वीर्यं यजमान आत्मन् धत्ते
    देवेभ्यो वै सुवर्गो लोकः

2
    न प्राभवत्
    त एतꣳ षोडशिनम् अपश्यन्
    तम् अगृह्णत
    ततो वै तेभ्यः सुवर्गो लोकः प्राभवत् ।
    यत् षोडशी गृह्यते सुवर्गस्य लोकस्याभिजित्यै ।
    इन्द्रो वै देवानाम् आनुजावर आसीत्
    स प्रजापतिम् उपाधावत्
    तस्मा एतꣳ षोडशिनम् प्रायच्छत्
    तम् अगृह्णीत
    ततो वै सो ऽग्रं देवतानाम् पर्य् ऐत् ।
    यस्यैवं विदुषः षोडशी गृह्यते

3
    अग्रम् एव समानानाम् पर्य् एति
    प्रातःसवने गृह्णाति
    वज्रो वै षोडशी
    वज्रः प्रातःसवनम् ।
    स्वाद् एवैनं योनेर् नि गृह्णाति
    सवनेसवने ऽभि गृह्णाति
    सवनात्सवनाद् एवैनम् प्र जनयति
    तृतीयसवने पशुकामस्य गृह्णीयात् ।
    वज्रो वै षोडशी पशवस् तृतीयसवनम् ।
    वज्रेणैवास्मै तृतीयसवनात् पशून् अव रुन्द्धे
    नोक्थ्ये गृह्णीयात्
    प्रजा वै पशव उक्थानि
    यद् उक्थ्ये

4
    गृह्णीयात् प्रजाम् पशून् अस्य निर् दहेत् ।
    अतिरात्रे पशुकामस्य गृह्णीयात् ।
    वज्रो वै षोडशी
    वज्रेणैवास्मै पशून् अवरुध्य रात्रियोपरिष्टाच् छमयति ।
    अप्य् अग्निष्टोमे राजन्यस्य गृह्णीयात् ।
    व्यावृत्कामो हि राजन्यो यजते
    साह्न एवास्मै वज्रं गृह्णाति
    स एनं वज्रो भूत्या इन्द्धे निर् वा दहति ।
    एकविꣳशꣳ स्तोत्रम् भवति प्रतिष्ठित्यै
    हरिवच् छस्यते ।
   इन्द्रस्य प्रियं धाम ॥

5
    उपाप्नोति
    कनीयाꣳसि वै देवेषु छन्दाꣳस्य् आसञ् ज्यायाꣳस्य् असुरेषु
    ते देवाः कनीयसा छन्दसा ज्यायश् छन्दो ऽभि व्यशꣳसन्
    ततो वै ते ऽसुराणां लोकम् अवृञ्जत
    यत् कनीयसा छन्दसा ज्यायश् छन्दो ऽभि विशꣳसति भ्रातृव्यस्यैव तल् लोकं वृङ्क्ते
    षड् अक्षराण्य् अति रेचयन्ति
    षड् वा ऋतवः ।
    ऋतून् एव प्रीणाति
    चत्वारि पूर्वाण्य् अव कल्पयन्ति ॥

6
    चतुष्पद एव पशून् अव रुन्द्धे द्वे उत्तरे द्विपद एवाव रुन्द्धे ।
    अनुष्टुभम् अभि सम् पादयन्ति
    वाग् वा अनुष्टुप्
    तस्मात् प्राणानां वाग् उत्तमा
    समयाविषिते सूर्ये षोडशिन स्तोत्रम् उपाकरोति ।
    एतस्मिन् वै लोक इन्द्रो वृत्रम् अहन् ।
    साक्षाद् एव वज्रम् भ्रातृव्याय प्र हरति ।
    अरुणपिशंगो ऽश्वो दक्षिणा ।
    तद् वै वज्रस्य रूपम् ।
   समृद्ध्यै ॥