जैमिनीयं ब्राह्मणम्/काण्डम् ३/०४१-०५०

विकिस्रोतः तः
Jump to navigation Jump to search

यद् यद् वै देवा यज्ञे ऽकुर्वत, तत् तद् व् एवासुरा अन्वकुर्वत। ते देवा अब्रुवन् - यद् यद् वाव वयं यज्ञे कुर्महे, तत् तन् नो ऽसुरा अनुकुर्वते। एतेमं त्रयं वेदं गाथया संसृजामेति। ते त्रयं वेदं गाथया संयुक्तं न्यास्यन्। तम् असुरा अब्रुवन् - न वा अयम् अभूद् यं गाथया समस्राक्षुः। एतेमं जहामेति। तम् अजहुः। तस्माद् धीनाद् देवा एतं गाथायै रसं प्रावृहन्त। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहन्त, तत् प्रगाथस्य प्रगाथत्वम्। स हैष रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते। अथ ह वा अग्र ऋक् च गाथा च सदृश्याव् एवासतुर्, तान्यान्याम् अति। ते आजिम् ऐताम्। सैतम् ऋग् गाथायै रसं प्रावृहत। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहत, तद् व् एव प्रगाथस्य प्रगाथत्वम्। स हैष् रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते॥3.41॥

तस्मिन्न् उ ह देवा विराजम् अन्नाद्यं ददृशुर् मिथुनं प्रजननम्। तद् यच् चतुष्पदा प्रथमा भवति त्रिपदे उत्तरे द्वे, तानि दश पदानि संपद्यन्ते। दशाक्षरा विराड्, अन्नं विराट्। एतां ह तद् ददृशुः। अथ यद् बृहतीति पूर्वाम् आचक्षते प्रगाथ इत्य् उत्तरे तद् उ मिथुनं प्रजननम्। तस्मिन्न् उ हैव वसिष्ठो विराजम् अन्नाद्यं ददर्शाचतुरं मिथुनं प्रजननम्। तद् यच् चतुष्पदा प्रथमा भवति द्विपद उत्तरास् तिस्रस् तानि दश पदानि संपद्यन्ते। दशाक्षरा विराड्, अन्नं विराट्। एतां ह तद् ददर्श। एकेति तद् एका, द्वे इति तत् तिस्रस्, तिस्र इति तत् षट्, चतस्र इति तद् दश। सो एव विराट्। एक इत्य एकेति, द्वाव् इति द्वे इति, त्रय इति तिस्र इति, चत्वार इति चतस्र इत्य्, एतद् वा आचतुरं मिथुनं प्रजननम्। प्र मिथुनेन जायते य एवं वेद॥3.42॥

तासु पौरुमुद्गम्। इळावान् पवमानः पौरुमुद्गेन क्रियते। पुरुमुद्ग आंगिरसः पशु - कामस् तपो ऽतप्यत। स एतत सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अब पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुमुद्ग आङ्गिरसो ऽपश्यत् तस्मात् पौरुमुद्गम् इत्य् आख्यायते। देवाश् च वा असुराश् चाधि समुद्रम् अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् समुद्रे मज्जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽमज्जयन्। तद् यत् पूर्वे ऽमज्जयंस् तद् व् एव पौरुमुद्गस्य पौरुमुद्गत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं मज्जयति य एवं वेद। तेषाम् उ यो य एवोदमज्जत् तस्यैतेनैव साम्ना प्राघ्नन्। तद् उ भ्रातृव्यहा। कस्माद् एतत् सामाहू रक्षोहेति। रक्षांसीव वा एतत् तान् अघ्नन्। हन्ति द्विषन्तं भ्रातृव्यम्, अव रक्षः पाप्मानं हते य एवं वेद॥3.43॥

अथ गौतमम्। उभौ वर्णौ समृद्धयै बार्हतं प्रस्तावेन राथन्तरम् ऊर्ध्वम्। गोतमो वै राहूगणो ऽकामयत सातसनि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सातसनिर् अभवत्। सातसनयो ऽसामेति सत्रम् आसते। सातसनय एव भवन्ति। तद् ये च ह वै गोतमाद् ऋषयः पराञ्चो ये चार्वाञ्चस् ते गोतमम् एवर्षिम् उभय उपासते। एतं हि स महिमानम् अपश्यत्। ये च हास्मात् पराञ्चः पितरो भवन्ति, ये चार्वाञ्चस् त एनम् उभय उपासते य एवं वेद। यद् उ गोतमो राहूगणो ऽपश्यत् तस्माद् गौतमम् इत्य् आख्यायते॥3.44॥

अथान्तरिक्षम्। देवान् वा अन्तरिक्षं परेतान् असुरा अविध्यन्। ते ऽकामयन्तान्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहन्। तद् एवान्तरिक्षस्यान्तरिक्षत्वम्। तद् एतद् विजिति स्वर्ग्यं साम। विजयते गच्छति स्वर्गं य एवं वेद। अन्तरिक्षं वा एतद् अहः। लेलेव वा अन्तरिक्षम् तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तस्योभयतः पदं परिष्टोभत्य् अन्तरिक्षस्य रूपम्। उभयत इव हीदम् अन्तरिक्षं परिष्टुब्धम् आभ्यां लोकाभ्याम्। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। अन्तरिक्षं वा एतद् अहर्, अन्तरिक्षम् एतत् साम। अहर् एवैतेन रोहति तुष्टुवानः। यद् उ देवा एतेन साम्नान्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहंस् तस्माद् अन्तरिक्षम् इत्य् आख्यायते॥3.45॥

अथ काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत - प्रति - तिष्ठेयम् इति। स एतत् सामापश्यत्। तस्य निधनं नापश्यत्। स वृषदंशस्य क्ष्वत उपाशृणोत्। तद् अपश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा - साम। प्रतितिष्ठति य एवं वेद। यद् उ कण्वो नार्षदो ऽपश्यत् तस्मात् काण्वम् इत्य् आख्यायते। तिस्रो वाच ईरयति प्र वह्निर् इति त्रिष्टुभो ऽन्त्या भवन्ति तृतीयस्याह्नो रूपम्। तेनै (व) त्रीण्य् अहानि कल्पन्ते।
ऋतस्य धीति ब्रह्मणो मनीषाम्।
गावो यन्ति गोपतिं पृष्छमानास् सोमं यन्ति मतयो वावशानाः॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः॥3.46॥

तासु संक्रोशः। संक्रोशेन वै देवास् संक्रोशमाना स्वर्गं लोकम् आयन्। यत् संक्रोशमाना स्वर्गं लोकम् आयंस् तत् संक्रोशस्य संक्रोशत्वम्। तद् एतत् स्वर्ग्यं साम। संक्रोशमान एवैतेन स्वर्गं लोकम् एति य एवं वेद। तद् व एवाचक्षते ऽङ्गिरसां संक्रोश इति। अंगिरसो वा अकामयन्त - संविदाना एव संक्रोशमाना स्वर्गं लोकम् इयामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते संविदाना एव संक्रोशमाना स्वर्गं लोकम् आयन्। यत् संक्रोशमाना स्वर्गं लोकम् आयंस् तद् व् एव संक्रोशस्य संकोशत्वम्। तद् एतत् स्वर्ग्यं साम। संविदान एवैतेन संक्रोशमान स्वर्गं लोकम् एति य एवं वेद। तच् छ्रीर् वै स्वर्गो लोकः। अश्नुते श्रियं, गच्छति स्वर्गं लोकं, य एवं वेद। यद् व् अङ्गिरसो ऽपश्यंस् तस्माद् अङ्गिरसां संक्रोश इत्य आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च हे ये हो वा हा हो इत्य् एवानेनाङ्गिरसो ऽह्वयन्। हा वा ओ वा इत्य् एतेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्यं, स्वर्गस्य लोकस्य समष्टयै॥3.47॥

यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः।
न त्वा वज्रिन् सहस्रं सूर्या अनु
इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। न जातम् अष्ट रोदसी इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अस्मे अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिर् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। तासु वैरूपम्। संवत्सरो वै विरूपो, विरूपा ऋतवो, विरूपा अर्धमासाः। तद् यत् पञ्चनिधनं पञ्च ह्य् ऋतवो, यद् द्वादशनिधनं द्वादश हि मासा, यद् दिग्वद् आक्रमणवत् तेन, यद् विश्ववद् वैश्वदेवं ह्य् एतद् अहः। प्रजननं वा एतद् वैरूपम्। तद् यत् तृतीये ऽहन् क्रियते चतुर्थस्याह्नः प्रजात्यै। यद् देवा अभवंस् तद् असुरा अभवन्। ते देवा अश्वा अभवंस्, तद् असुरा नान्ववायन्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥3.48॥

तद् यद् अश्ववद् भवति भ्रातृव्यस्यैवापनुत्त्यै। अध्यर्धेळा तृतीयस्याह्नो ऽध्यर्धेळा पञ्चमस्य। स यथा मण्डूक इट्कुर्याद् एवम् अत्रेट्कुर्यात्। तेनैव पञ्चमम् अहर् अयातयाम क्रियते। सर्वा वै वाक् तृतीये ऽहन्न् आप्यते। तद् यद् एते वृकणावा भवन्त्य् उभय्या एव वाच उपाप्त्यै, या च ग्राम्या या चारण्या। पञ्चनिधनं तु कार्यतरम्। भूयः प्रजननं, प्रजननस् संवत्सरः, प्रजनना ऋतवः, प्रजनना। अर्धमासा, अथेतरद् एकप्रजननं मासा एव। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। वयं घ त्वा सुतावन्त इति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय॥3.49॥

तासु वैष्टम्भम्। वैष्टम्भेन वै देवा असुरान् एभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रम् आसत। वैष्टम्भेनैव द्विषन्तं भ्रातृव्यम् एभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रम् आस्ते य एवं वेद। नैष्टम्भं ह वै नामैतत्। तद् वैष्टम्भम् इत्य् आख्यायते। उदरं वा एतद् अहः। अन्नम् एतद् यद् वैष्टम्भम्। तद् यद् अत्र वैष्टम्भं क्रियते मध्यत एवैतद् आत्मनो ऽन्नाद्यं दधते। तस्माद् उ हेदं पुरुषो ऽन्नेन विष्टब्ध इव। तरणिर् इत् सिषासतीति प्रज्ञाता स्तोत्रिया भवन्ति। तासु रौरवं त्रिरूपं त्रिपरिष्टोभं तृतीयस्याह्नो रूपम्। अग्निर् वै रुरू, रुद्रो ऽग्निः। यस्मात् पशवो ऽपक्रामन्त्य् अग्निर् एव तस्मात् पशून् अपक्रमयति। अथ यं पशव उपनमन्त्य् अग्निर् एव तस्मै पशून् उपनमयति। आग्नेयास् सत्रिण स्वैवैभ्यो देवता पशून् अवरुन्द्धे। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.50॥