जैमिनीयं ब्राह्मणम्/काण्डम् २/३६१-३७०
← कण्डिका ३५१-३६० | जैमिनीयं ब्राह्मणम्/काण्डम् २ कण्डिका ३६१-३७० [[लेखकः :|]] |
कण्डिका ३७१-३८० → |
त्रिमात्रं वा एतत् सत्रं, तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। अथ यस् तृतीयो मासस् त्रयोदशस्य स मास ऋद्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यद् एकोनपञ्चाशच्, चतुर्विंशतिः परस्ताद् अहानि चतुर्विंशतिर् अवस्तात्। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर एवैष उभयतः पर्यूढः। तस्य यन् मध्ये ऽहस् तत् स्वाराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते जगतीम् एव । पशवो वै जगती। तेनैतत् सत्रं पशव्यम्, उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। एकोना विराड्, ऊनं तत् स्त्रियै यतस् सा प्रजायते, तेनो प्रजननम्। गायत्रीम् उ दीक्षोपसद्भिश्च सुत्याभिश् च संपद्यते। प्राणो वै गायत्री। तेनैतत् सत्रम् आयुष्यम्। तेजो वै गायत्री। तत् तेजस्विनो ब्रह्मवर्चसिनो भवन्ति। ज्यैष्ठ्यं वै गायत्री। तद् उ भ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठन्ति॥2.361॥
आदित्याश् च वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त। त आदित्या अकामयन्त - वयं पूर्वे स्वर्गं लोकं गच्छेमेति। त एतद् अयनम् अपश्यंस् तद् उपायन्। ततो वा आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न्, अहीयन्तांगिरसः। सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यम् एतेनादित्या अगच्छन्। सा या श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यम् एतेनादित्या अगच्छंस् तं गच्छामेति, तस्माद् एता रात्रीर् उपयन्ति। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥2.362॥
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एते ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवाश् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इदि। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। बृहद्रथन्तरे सामनी भवतः। सा ह्य् ऋद्धिस् स पन्थाः। श्यैतनौधसे ब्रह्मसामनी भवतः, प्र स्पष्टम् आजिम् अनुशूकरवामेति। अथैते षड् अतिरात्रा भवन्ति। षड् वै पुरुषे पाप्मानस् षड् विषुवन्त स्वप्नश् च तन्द्री च मन्युश् चानशनया चाक्षकाम्या च स्त्रीकाम्या च। तान् एवैतैर् अपघ्नते तान् अतितरन्ति। अथैते त्रयस् त्र्यहा भवन्ति। नवाहानि। नव वै पुरुषे प्राणाः। प्राणानाम् एवैषा सं मा प्राणानाम् ऋद्धिः। अथैतद् वैराजपृष्ठं दशमम् अहर् भवति। नाभिर् ह सा, तद् वा अतद् आक्षित्सद् अहर् एतेष्व् अहस्सु नियुक्तम्। यस्माद् एतद् आक्षित्सद् अहर् एतेष्व् अहस्सु नियुक्तं, तस्माद् आक्षित्सती नाभिः प्राणेषु नियुक्ता। प्राणतो ह्य् एनाम् अनूदनित्य् अपानतो ऽन्वपानिति। तद् एतेषाम् अह्नां दशमं भवति - दशाक्षरा विराट्। अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै॥2.363॥
तद् वैराजपृष्ठं भवत्य् - अन्नं वै वैराजम् - अन्नाद्यस्यैवावरुद्ध्यै। तद् उक्थ्यं भवति - पशवो वा उक्थ्यान्य् अन्नं पशवो - ऽभिपूर्वस्यैवान्नाद्यस्यावरुद्ध्यै। तत् षोडशिमद् भवति - वज्रो वै षोडश्य्, अन्नं विराड् - वज्रेणैवान्नाद्यं परिगृह्णन्ति। तद् एकविंशं भवति - द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतद् वै दैव्यं क्षत्रम्। क्षत्रिय उ वा अन्नाद्यस्य प्रदाता। स यो ऽन्नाद्यस्य प्रदाता स नो ऽन्नाद्यं प्रयच्छाद् इति। अथैते चत्वारस् त्रियहा भवन्ति द्वादशाहानि। द्वादश वै संवत्सरस्य पौर्णमास्यः। पौर्णमासीनाम् एवैषा संमा पौर्णमासीनाम् ऋद्धिः। अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि। वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति, तद् उ सत्रिणो भवन्ति। अथैते चत्वार उत्तरे त्र्यहा भवन्ति द्वादशो एवाहानि। द्वादश वै संवत्सरस्यामावास्याः। अमावास्यानाम् एवैषा संमामावास्यानाम् ऋद्धिः। द्वादशैतानि परस्तात् पृष्ठ्यस्य षडहस्याहानि भवन्ति, द्वादशावस्तात्। तस्मात् समावतीस् संवत्सरस्य पौर्णमास्यश् चामावास्याश् च। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.364॥
आदित्याश् च वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त। ते आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्। ते ऽङ्गिरसो ऽकामयन्त - वयम् अपि तं लोकं गच्छेम यम् आदित्या अग्मन्न् इति । ते येन येनैवायनेनायंस् ततस्तत एनान् प्रत्य् अपानुदन्त। तान् ह परश् चत्वारिंशानि वर्षाणि प्रत्य् एव नुनुदिरे। त एतद् अयनम् अपश्यन्। तद् एव सदन् यथाविधम् इव तद् उपायन्। ततो वा अंगिरसस् तं लोकम् अगच्छन् यम् आदित्याः। सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यम् एतेनांगिरसो ऽगच्छन्। स यो श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यम् एतेनांगिरसो ऽगच्छंस् तं गच्छामेति॥2.365॥
तद् ये ह वा एत आदित्यस्योदञ्चो रश्मयस् त आदित्या, ये दक्षिणास् ते ऽङ्गिरसः। ते हैत आदित्याश् चांगिरसश् च सलोकाः। सलोको ह वा आदित्यैश् चांगिरोभिश् च भवति, य एवं वेद। अथैतौ द्वौ त्र्यहौ भवतष् - षड् अहानि। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठन्ति। अथैतौ द्वाव् उत्तरौ त्र्यहौ भवतष् - षड् उ एवाहानि। अभिपूर्वम् एव तद् ऋतुषु प्रतितिष्ठन्ति। अथैते षड् अतिरात्रा भवन्त्य् उक्तब्राह्मणाः। अथैते त्रयस् त्र्यहा भवन्त्य् उक्तब्राह्मणाः। अथैते चत्वारस् त्र्यहा भवन्ति द्वादशाहानि। द्वादश मासास् संवत्सरः। मासा एव तद् भूत्वा मध्यतस् संवत्सरम् अतीत्य स्वर्गं लोकं रुरुहुः॥2.366॥
अथैता द्वादशाहवतीर् भवन्ति, यैवासौ द्वादशाहवतीनां प्रशंसा सा न उपाप्तासद् इति। अथैतानि चतुरुत्तराणि छन्दांस्य् उपयन्ति। चतुरुत्तरा वै वाचो रोहाः। वाचम् एवैते रोहन्ति। अथो चतुष्पदा वै पशवः। तद् यद् एतानि चतुरुत्तराणि छन्दांस्य उपयन्ति, चतुष्पदाम् एव पशूनाम् अवरुद्ध्यै। अथैतानि द्वियन्तराण्य् उपाहरन्ति। चतुरुत्तराणि द्वियन्तराणि। न ह वै तावच् छ्रियम् अश्नुते यावद् द्विपदां चतुष्पदां पशूनाम् ऐश्वर्यम् आधिपत्यं न गच्छति। तद् यद् एतानि द्वियन्तराण्य् उपाहरन्ति चतुरुत्तरद्वियन्तराणि द्विपदां चतुष्पदां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छामेति। अथैतान्य् अष्टान्तराण्य् उपाहरन्ति चतुरुत्तरद्वियन्तराणि सर्वाणि, चतस्रो दिशश् चत्वारो ऽवान्तरदेशा, दिशां स उपरिष्टाल् लोको यः पुण्यस्, सर्वासु दिक्षु प्रतिष्ठाय स्वर्गं लोकं गच्छामेति। अतैतानि पञ्च सन्धिषामानि भवन्ति - रथन्तरं जराबोधीयं श्रुधीयं नानदगौरिवीते इति। एतद् ध वा एकं प्रज्ञातं सन्धिषाम यद् रथन्तरम्। तद् यद् एकं प्रज्ञातम् -- ॥2.367॥
--सन्धिषाम तेन न स्तुतम् असद् इति। अथो वाग् वै रथन्तरं, वाग् आश्विनं, वाग् वै वाचं प्रति विभवितुम् अर्हति, इयं वाग् वाचं प्रति विभाद् इति। एतद् उ ह वै द्वितीयं प्रज्ञातं सन्धिषाम यज् जराबोधीयम्। तद् यद् द्वितीयं प्रज्ञातं सन्धिषाम तेन न स्तुतम् असद् इति। अथ श्रुधीयं कीर्तिमत्। सामवृक्तिर् उ सन्धिषामनी। तद् यद् आभ्यां सन्धिषामभ्याम् अवृक्ष्महि तन् नो ऽस्य लोकवतस् साम्नः पशवो लोकम् अनूपतिष्ठान्ता इति। अथ नानदगौरिवीते लोकवती सामनी भूयासं नो लोकम् अनूपतिष्ठाता इति। तद् आहुस् त्रिर् एवाश्विनं शस्तव्यं, त्रिषत्या वै वाक्। त्रय इमे लोकाः। यद् अतिरात्रे ऽतिरात्र आश्विनं शंसेद् विकर्षस् स वाचः। होतारं ब्रूयाद् आश्विनक्रतून् एवान्येष्व् अतिरात्रेषु शंसस् त्रिर् एवाश्विनं शस्तव्यम् इति, प्रायणतो मध्यत उदयनतः। एतद् ध वै समृद्धम् आश्विनं यद् रथन्तरेण संपद्यते। यद्य् एकेन संपद्येत रथन्तरम् एव प्रायणतो मध्यत उदयनतो, यदि द्वाभ्यां रथन्तरम् एव प्रायणतो मध्यत उदयनतो, यदि त्रिभी रथन्तरम् एव प्रायणतो मध्यत उदयनतो, न चतुर्भिस् संपद्यते, नो एव पञ्चभिः॥2.368॥
अथैता एण्य एककृष्णाः। एण्यो ह वै नामैता रात्रयः। तासु कृष्णो ऽपि मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। तं वा त्वै पुरस्ताद् उपेयुस् तं वोपरिष्टात्। यदि पुरस्ताद् उपेयुः, पुंस्पृणेत्रा असन्न् इति, यद्य् उपरिष्टात् - पश्चाद् वै पुमान् योषायां रेतो दधाति - रेतोधेयाय। प्रजापतिर् वावेदम् अग्र एको ऽसृज्यत नान्यं द्वितीयं पश्यमानः। स ऐक्षताहं वाव प्रथमो ऽजनिष्य, अहं श्रेष्ठो ऽस्म्य्, अस्ति स्विन् मद् इहान्या3 इति। स व्यैक्षत। सो ऽन्यद् आत्मनो ऽध्य् उत्तरतो ज्यायस् तिष्ठद् अपश्यत्। तद् अपृच्छत् किम् इदम् असि, यद् इदम् असीति। ब्रह्म वा अस्मीत्य् अब्रवीत्। तद् अब्रवीद् - आवं वाव प्रथमाव् अजनिष्वह्य् , आवं श्रेष्ठौ स्वस्, संसृज्यावहै, सहासावेति। नेत्य् अब्रवीत्। पाप्मगृहीतो वा असीति। स मे क्व स पाप्मेति। एष ते शीर्षन्न् इति। तं वै मे ऽवजहीति। तथेति। तम् अवाहन्। तं ग्रीवास्व् असिनात्। तं समपीडयत्। तद् एतत् परिगृहीतकम् इवावजहीति। तम् अवाहन्। तं नीव्याम् असिनात्। तं समपीडयत्। तद् एतत् परिगृहीतकम् इवावजहीति। तम् अवाहन्। तं कुल्फयोर् असिनात्। तं समपीडयत्। तद् एतत् परिगृहीतकम् इवावैव जहीति। तम् अवाहन् - पदाभितिष्ठेति। तं पदाभ्यतिष्ठत्॥2.369॥
स एवैष पदोर् उच्छंखः। त्रेधा विच्छिंद्धीति। तं त्रेधा व्यच्छिनत्। सैवास्य श्रीर् अभवद् - गौस् तृतीयं स्वप्नस् तृतीयं छाया तृतीयम्। तस्माद् एतानि श्रेष्ठस्य भूयिष्ठानि। भूयिष्ठाः पशवो, ज्येष्ठा छाया, स्वपिति। स ऐक्षत -- यं म इमं पाप्मानम् अवोचद् धन्तेमम् अपैव छिनदा इति। स एतद् एव ब्रह्माष्टधा व्यौहत्। अष्टाक्षरा गायत्री। ब्रह्म गायत्री। ब्रह्मैव तद् अष्टधा व्यौहत्। तम् अष्टाभिस् त्रिवृद्भिः पराञ्चम् अपौहत्। तम् अष्टाभिः पञ्चदशैः पराञ्चम् अपौहत्। तम् अष्टाभिः सप्तदशैः पराञ्चम् अपौहत्। तम् अष्टाभिर् एकविंशैः पराञ्चम् अपौहत्। तम् अष्टाभिस् त्रिणवैः परार्धम् अगमयत्। तम् अष्टाभिस् त्रयस्त्रिंशैर् अपैवाछिन्दत्। स एवैष उपरिष्टाद् अतिरात्रः। पाप्मा हास्यैषो ऽपोढः। अथो एष वै प्रजापतिर् यो ऽसौ तपति। स एषो ऽपहतपाप्मा तपति। तस्य छाया नास्ति। तस्माद् उ छायाम् अभि च ष्ठीवेद् अभि च मेहेत्। पाप्मानम् एव तद् धते। सुप्त्वोदकम् आचामेत्। पाप्मानम् एव तद् धते। गाम् उपाष्टां हनीत। पाप्मानम् एव तद् धते। ते य एवं विद्वांस एता रात्रीर् उपयन्ति, सर्वम् एव पाप्मानम् अपहत्योत्तिष्ठन्ति। ईश्वरा ह त्व् अपशवो भवितोः - पशवो वा उक्थानि - पशून् हि स तत्राप्य् अपौहत्। ते ये श्रीकामा स्युस् त एता रात्रीर् उपेयुः। एता ह स्म वै तत् पुरा कुरुपञ्चालानां ब्राह्मणा श्रीकामा उपयन्ति। ते हागावो ऽभद्रा आसुः। सजातेषु हैवैषां पशव आसुः। ततो ह स्मैव गोरुहायागताय गाम् उपाञ्जन्ति। ततो देयाय ददुः। तद् उ होवाच शाट्यायनिर् न तां वदेद् या परिचक्षा। यदाकामीना वै श्रियां पशवो, यदाकामीनं वित्तं , पशुमन्तश् च भविष्याम, श्रेष्ठाश् च रात्स्यामश् चेत्य् एवं मन्यमाना एता रात्रीर् उपेयुर् इति। तथा हैव भवति। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.370॥