जैमिनीयं ब्राह्मणम्/काण्डम् २/३५१-३६०

विकिस्रोतः तः
Jump to navigation Jump to search

यथा विषूची पदे विनिहिते अनेनाग्रा3द् अनेना3 इत्य् अप्रजानंस् तिष्ठेद्, एवम् एवैतन् मृ्त्योः पदयोपनं कृतं भवति पाप्मनो ऽनन्ववायाय। न ह वा एनं पुनर् मृत्युर् अन्वेत्य्, अप पाप्मानं हते, गच्छति स्वर्गं लोकम्। ते परमं तम् इत्वा पुनर् एवाबिभयुः। तान् एतेनैवानिरुक्तेन त्रयस्त्रिंशेनात्यनयन् निरुक्तेन निरब्रवीत्। ततो वै ते तं मृत्युम् अपाजयन् यत् स्वर्गे लोके। अप ह वै तं मृत्युं जयति यत् स्वर्गे लोके, य एवं वेद। संवत्सरो वा एता रात्रयस्, संवत्सरस्य गर्भः। संवत्सरस्य वै गर्भं प्रजाः पशव उपजीवन्ति। गर्भिणीर् उ एता रात्रयः। यथा वा अजगरो गीर्णवान् एवम् एता रात्रयः। यद्य् उ वा अजगरो गीर्णवान् भवत्य् उभाव् अन्ताव् अर्णा स्थूलं मध्यम्। सुहित्यस्यो वा एता रूपं रात्रयः। सुहित्यं वै सो ऽश्नुते य श्रियम् अश्नुते। सुहित्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियम् अश्नवामहा इति तस्माद् एता रात्रीर् उपयन्ति॥2.351॥


अथ ह स्माहाषाढस् सावयसो यादोवश्यं यस्मिन्न् एव मे संवत्सरे सामाना दास्य् उदकं चौदनं चाहरत् तस्मिन्न् एव मे संवत्सरे चतुर्विंशतिः परिष्कन्दा निष्कग्रीवाः परिवेषणम् अन्वायन्। नो तान् संपश्यामो ये निष्का आसन्न् इति। तावत् तेजस्विनीस् तावद् ब्रह्मवर्चसिनीस् तावद् वीर्यावतीर् एता रात्रयः। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ् च पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। त्रिवृते ऽध्य् अह्न उत्तिष्ठन्ति। ब्रह्म वै त्रिवृत्। ब्रह्मण्य् एवैतत् प्रतिष्ठायोदृचम् अश्नुवते। त्रिवृत् त्रिवृतो ऽनुचरो भवति। तस्माद् ब्राह्मणो ब्राह्मणस्यानुचरो भवति। विन्दते ऽनुचरितॄन् बहवो ऽस्यानुचरा भवन्ति। न ह खलु वा एषाक्षमारमते यद् गायत्री। ऊर्ध्वा ह वा एष सह यजमानेन स्वर्गं लोकम् एति। ऊर्ध्वा हैवास्य कीर्तिर् ऊर्ध्वा श्रीर् ऊर्ध्वं स्वर्गं लोकम् एति य एवं वेद। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.352॥


द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यत् पञ्चविंशतिर् - द्वादश परस्ताद् अहानि द्वादशावस्तात्। अथ यन् मध्ये ऽहस् तत् स्वराट्। स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुनियाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते जगतीम् एव। पशवो वै जगती। तेनैव तत् सत्रं पशव्यम् उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। एकोना विराड् - ऊनं तत् स्त्रियै यतस् सा प्रजायते - तेनो प्रजननम्। गायत्रीम् उ दीक्षोपसद्भिश् च सुत्याभिश् च संपद्यते। प्राणो वै गायत्री। तेनैतत् सत्रम् आयुष्यम्। तेजो वै गायत्री। तत् तेजस्विनो ब्रह्मवर्चसिनो भवन्ति। ज्यैष्ठ्यं वै गायत्री। तद् उ भ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठन्ति॥2.353॥


संवत्सरस्य ह खलु वा एष रसः प्रवृढो यद् एष पञ्चविंशतिरात्रः। एतद् धि सर्वं संवत्सररूपं क्रियते। एताव् अतिरात्राव् एते आरम्भणीयमहाव्रतीये अहनी एतौ पृष्ठ्याव् एतौ विश्वजिदभिजिताव् एते स्वरसामान एष विषुवान् । ते ये कामकामसमारेफाणा इव मन्येरंस् त एतम् एव पञ्चविंशतिरात्रम् उपेयुः। आप्त्वा हैवैतत् सत्रम् उत्तिष्ठ। पुरुषसंमितं ह खलु वा एतत् सत्रं यद् एष पञ्चविंशतिरात्रः। दश वै पुरुषस्य हस्त्यांगुलयो, दश पद्याश्, चत्वारि प्रांगाण्य्, आत्मा पञ्चविंशः। द्वादशेमाः परिशवो, द्वादशेमा, आत्मैव पञ्चविंशः। पुरुषं वावैतेन संस्कुर्वन्ति, पुरुष वा प्रजनयन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं पञ्चविंशतिरात्रम् उपयन्तीति। तद् यत् परस्तात् प्रत्यङ् पृष्ठ्यष् षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। महाव्रतीयाद् अध्य् अह्न उत्तिष्ठन्त्य् - अन्नं वै महाव्रतम् - अन्नाद्य एवैतत् प्रतिष्ठायोदृचम् अश्नुवते। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.354॥


द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं च बहिस् संवत्सराद् अस्ति । स्वाराज्यं वा एता रात्रयो यत् त्रयस्त्रिंशत्, षोडश परस्ताद् अहानि, षोडशावस्तात्। अथ यन् मध्ये ऽहस् तत् स्वराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। तदा वा एता रात्रयस् संपद्यन्ते विराजम् एव। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। तिस्रश् च विराट् च। ता यास् तिस्रो दैवीर् आच्छदस् तासाम् एषर्द्धिर् यानि त्रीणि छन्दांसि, यानि त्रीणि सवनानि, ये त्रयः प्राणापानव्याना, ये त्रय इमे लोकाः। यत् किं च त्रिस्त्रिस् , तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। देवसत्रं ह खलु वा एतद् यद् एष त्रयस्त्रिंशद्रात्रः। त्रयस्त्रिंशद् वै देवताः। देवता वा ऋद्धिकामास् तपो ऽतप्यन्त। ता एतद् अयनम् अपश्यन्। तद् उपायन्। ततो वै तासाम् अह्नैवैकार्ध्नोद् अह्नैकाह्नैका । सा ह खलु वै श्रेष्ठर्द्धीनां, स लोकानां पुण्यतमो यम् एतेन देवता आर्ध्नुवन्। सा या श्रेष्ठर्द्धीनां, यो लोकानां पुण्यतमो, यम् एतेन देवता आर्ध्नुवंस्, तम् ऋध्नवामेति। तस्माद् एता रात्रीर् उपयन्ति॥2.355॥


अथैते पञ्चाहा भवन्ति - पञ्च वै जयाः। पञ्चभिर् वै व्याहृतिभिर् इदं देवा अजयंस् - तद् यावतेदं देवा अजयंस् तावता जयामेति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा ताम् आप्नवामेति। पांक्ताः पशवः। यावती पशूनां मात्रा तावता नः पशवो ऽवरुद्धा उपतिष्ठान्ता इति। पांक्तम् अन्नाद्यं, यावत्य् अन्नाद्यस्य मात्रा तावता नो ऽन्नाद्यम् अवरुद्धम् उपतिष्ठाता इति। अथ स्माहुः कापेया - अनृतौ वा एष प्रतिष्ठितो यत् षडहः। पञ्चाहो वा ऋतौ प्रतिष्ठित इति। वसन्तो वै प्रथम ऋतूनां, ग्रीष्मो द्वितीयो, वर्षास् तृतीयाश, शरच् चतुर्थी, हेमन्तः पञ्चमश्, शिशिरष् षष्ठः। स एष श्रेष्ठ ऋतूनां यद् धेमन्तः पीवगुः पीवत्सः। तम् अनु पञ्चाहः प्रतितिष्ठन्न् एति। अथैष परिचक्ष्यैव यच् छिशिरः कृशगुः कृशपुरुषः। तम् अनु षडहः प्रतितिष्ठति। स य श्रेष्ठ ऋतूनां हेमन्तस् तस्य प्रतिष्ठाम् अनु प्रतितिष्ठन्तो ऽयामेति। तस्माद् एतत् पञ्चाहविधम् उपयन्ति। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥2.356॥


अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एत ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवाश् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इति। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। ताम् आन्तं नावसृजेयुः। बृहद्रथन्तरे सामनी भवतः। सं ह्य् ऋद्धिस्, सं पन्थाः। श्यैतनौधसे ब्रह्मसामनी भवतः प्र स्पष्टम् आजिम् अनुशूकरवामेति। तद् यत् तृतीये ऽहनि रथन्तरं संपद्येत तद् वैरूपम् उपेयुः। इदं वै रथन्तरम्, अदो बृहद्, इदम् एवान्तरिक्षं वैरूपम्। एतयोर् एव साम्नो रसम् एते। अथ ह वै निष्करणीया इति ब्राह्मणाः पूर्विणस् सत्रं निषेदुः। तेषां ह स्म वासिष्ठस् सात्यहव्य आसद्य सोमं भक्षयित्वा प्रधावति। ते हाभिशस्तिं चक्रिरे - कथं नु नो दीक्षितानाम् अदीक्षितास् सोमं भक्षयेयुर् इति। ते हैतद् एकम् अहर् वैरूपम् उपेयुः। स ह पुनर् आसद्य तूष्णीम् एवेक्षमाणो निषसाद। तं होचुः कथं नु सर्पसि कथं नु भक्षयसीति। स होवाच सत्रिणो वा अभूत दीर्घसोमो वाव वः पुराभूद् इति। तद् यत् तृतीये ऽहनि वैरूपम् उपयन्ति, सत्रिताया एव। ते वा एते सामनी अन्यदन्यद् अहर् उपपद्यमाने इतः। यत्र गवि रथन्तरं संपद्येत -- ॥2.357॥


-- तद् धोतारं ब्रूयाद् उभे रूपे शंस यच् च राथन्तरं यच् च बार्हतम् इति। यत्रायुषि बृहत् संपद्यत तद् धोतारं ब्रूयाद् उभे रूपं शंस यच् च बार्हतं यच् च राथन्तरम् इति। यद् उभे राथन्तरे अहनी संपद्येयाताम्। पूर्वस्याह्नस् सौभरम् उक्थेषु ब्रह्मसामं कुर्युर् यद्य् उभे बार्हते अहनी संपद्येयाताम्। उत्तरस्याह्नः कण्वरथन्तरं माध्यन्दिने पवमाने प्रोहेयुः। प्रजा वा एषा बृहद्रथन्तरयोर् यद् एत सामनी। तद् यद् एवम् उपयन्त्य् अजामिताया एव। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् -- अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम, कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति। प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चस् त्रयः पञ्चाहा भवन्ति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.358॥


अथैता द्वादशाहवतीर् भवन्ति, यैवासौ द्वादशाहवतीनां प्रशंसा सा न उपाप्तासद् इति। इदम् इव त्व् अत्रोपाधीयते। ता वा त्वै पुरस्ताद् उपेयुस् ता वोपरिष्टात्। यदि पुरस्ताद् उपेयुः प्रायणीयस्यैवाह्नो ऽछंबट्काराय। तद् इव त्व् अत्र परिचक्षते यद् वाचम् ओहिषीं दशमेनाह्ना संपाद्य तस्यै विकृष्टायै वाचो ऽप्रतिष्ठिताया उदृचम् अश्नुवते। यद् एव तत्र प्रायणीयरूपं मन्येरंस् तद् एव तत्र कुर्युः। प्रत्नवत् प्रेतिवत् संपन्नायै वाचो विकृष्टायै प्रतिष्ठाया उदृचम् अश्नवामहा इति। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् - अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति, प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् पुरस्तात् प्रत्यङ् पञ्चाहो भवति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.359॥


अथैतत् त्र्यहविधं भवति। त्रयो ह वा ऋतवो ऽनृतवो ऽन्ये। ग्रीष्मो वर्षा हेमन्त एते ह वा ऋद्धा ऋतव, उपाश्लेषगा इवान्ये। ते य ऋद्धा ऋतवस् ते न उपाप्ता असन्न् इति। त्रीणि वाव छन्दांसि, त्रीणि सवनानि, त्रयः प्राणापानव्यानास्, त्रय इमे लोकाः। यत् किं च त्रिस्त्रिस् तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः। पञ्चैते परस्तात् त्र्यहा भवन्ति, पञ्चावस्तात्। तेनो एव पञ्चाहविधतायै न यन्ति। अथैष विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति प्राजापत्यम् अहर् - अहोरात्रे वै कृत्स्नः प्रजापतिः - कृत्स्नं प्रजापतिम् ऋध्नवाम, कृत्स्नो नः प्रजापतिर् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतं विश्वजितम् अतिरात्रम् उपयन्ति, प्रजापतिं ह्य् एव प्रत्यक्षम् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चः पञ्च त्र्यहा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.360॥