जैमिनीयं ब्राह्मणम्/काण्डम् २/३४१-३५०

विकिस्रोतः तः
Jump to navigation Jump to search

द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यद् एकविंशतिर् - दश परस्ताद् अहानि दशावस्तात्। अथ यन् मध्ये ऽहस् तत् स्वराट्। स् स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। ता वै एता रात्रयस् संपद्यन्ते विराजम् एव। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति पञ्च च विराट् च। ता याः पञ्च दैवीर् आच्छदस् तासाम् एषर्द्धिर् यः पांक्तो यज्ञो ये पांक्ताः पशवो यत् पांक्तम् अन्नाद्यं ये पञ्चर्तवः। यत् किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस् तस्योपाप्तिः॥2.341॥


दशैतानि परस्ताद् अहानि भवन्ति दशावस्ताद् विषुवान् एकविंशः। दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्या, आत्मैकविंशः। पुरुषो ह वा एष विराज्य् अध्यूढो ऽनिष्पादाय। न ह वै गौर् नाश्वो नाश्वतरो विराजम् अधितिष्ठति। पुरुषो ह वाव विराजम् अधितिष्ठति। तस्मात् पुरुषः पशूनाम् अत्ता। अत्ता पशूनां भवत्य् अधि विराजं तिष्ठति , य एवं वेद। ता हैता रात्रीर् नैदाघीये मास्य् उपेयुः। नैदाघीये वै मासि प्रजापतिर् आदित्याय रुचं प्रायच्छत्। तस्माद् एष नैदाघीये मासि बलिष्ठं तपत्य्, अपि द्विगुणाश् छाया उपसर्पन्ति। ता होग्रदेवो राजनिर् ब्रह्मवर्चसकाम उपेयाय। तम् उ ह ब्राह्मणम् उवाच - यावद् ब्रह्मवर्चसम् अवारुध्याभि श्वेतो भविष्यसीति। स यथाश्व श्वेत एवम् आस। तावत् तेजस्विनीस् तावद् ब्रह्मवर्चसिनीस् तावद् वीर्यवतीर् एता रात्रयः। ते य एवं विद्वांस एता रात्रीर् उपयन्ति सर्व एवर्ध्नुवते, सर्वे ब्रह्मवर्चसिनो भवन्ति। तासु वायव्यं पशुम् आलभेरन् - वायुर् वै शान्तिश्, शान्त्या एवानिर्दाहाय। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥2.342॥


अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि, वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति। तद् उ सत्रिणो भवन्ति। एते सप्तदशा स्वरसामानो भवन्ति प्राजापत्यान्य् अहानि - त्रयः परस्तात् त्रयो ऽवस्तात्। प्रजापतिर् वा एषद्व धा व्यूढ आदित्याय रुचं प्रयच्छति। त(द्) यो रुचः प्रदाता येन रुक् प्रत्ता स नो रुचं प्रयच्छाद् इति। अथैष एकविंशो विषुवान् भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्त्य्, एतम् अभ्यारोहन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतम् आदित्यम् इति। तद् यत् परस्तात् प्रत्यङ् पृष्ठ्यष् षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.343॥


अथ यस्यैतस्य पृष्ठ्यस्यैव षडहस्य यन् मध्ये सप्तदशम् अहस् तद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहन्ति। प्रजननकामा हैतद् उपेयुः। प्रजननं वै पृष्ठ्यष् षडहः। षडुत्तरेण वै स्तोमाः प्रजनयन्ति, चतुरुत्तरेण छन्दांसि। अथैष षडुत्तरै स्तोमस् सप्तदशो मध्ये व्यवहितः। प्रजननम् अन्तर्धायेव तिष्ठति। तं यद् उपरिष्टात् त्रयस्त्रिंशस्य पर्यूहन्त्य् अनन्तर्हितात् प्रजननात् प्रजायामहा इति। द्वयो रुचै सप्तदशयोस् तृतीयतायै। अथैतौ विश्वजिदभिजिताव् अभित स्तोमानां वीर्यम्। वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः। यज्ञस्य ह खलु वै एते मेध्यौ यद् विश्वजिदभिजितौ। एताभ्यां वै यज्ञो धृतः। देवतल्पो ह खलु वा एष यद् विश्वजिदभिजितौ, क्षत्रम् असाव् आदित्यः। देवतल्प एव तत् क्षत्रम् अध्यूहन्ति। तस्मात् क्षत्रियो विश्य् अध्यूढः। अथैष एकविंशो विषुवान् भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्त्य् एतम् अध्यारोहन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एतम् आदित्यम् इति। तद् यत् परस्तात् प्रत्यङ्ङ् एवंविधष् षडहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रः। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.344॥


अथैतत् पञ्चाहविधं भवति। न ह खलु वै स एकविंशतिरात्रयो विषुवान्। को नु स विषुवान् यस्मिन् न विश्वजिदभिजितौ भवतः। तद् यद् विश्वजिदभिजितौ भवतः कृत्स्नं विषुवन्तम् ऋध्नवाम, कृत्स्नो नो विषुवान् उपेतो ऽसद् इति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति , य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यङ् पञ्चाहो भवति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.345॥


द्विमास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। यौ ह खलु वै द्वौ मासाव् ऋतोस् सर्द्धिः। ऋतुर् उ प्रत्यक्षं संवत्सरस्यर्द्धिः। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यच् चतुर्विंशतिर् - द्वादश परस्ताद् अहानि द्वादशावस्तात्। अथ यो मध्ये लोकस् स् स्वराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तद् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते जगतीम् एव। पशवो वै जगती। तेनैतत् सत्रं पशव्यम् उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। द्व्यूना विराट्, द्वे ते स्त्रिया ऊने यतस् सा प्रजायते, तेनो प्रजननम्। गायत्रीम् उ दीक्षोपसद्भिश् च सुत्याभिश् च संपद्यते। प्राणो वै गायत्री, तेनैतत् सत्रम् आयुष्यम्। तेजो वै गायत्री, तत् तेजस्विनो ब्रह्मवर्चसिनो भवन्ति। ज्यैष्ठ्यं वै गायत्री, तद् उ भ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठति॥2.346॥


अथैते सप्ताहा भवन्ति - सप्त वै छन्दांसि। छन्दांसि वै स्वाराज्यो लोकस् - तद् यावान् स्वाराज्यो लोकस् तावन्तं स्वाराज्यं लोकम् ऋध्नवामेति। सप्त वै प्राणाः। प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते। तद् यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते तैर् नः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ता इति। प्राणैर् वै देवा स्वर्गं लोकम् आयन्। तद् यैः प्राणैर् देवा स्वर्गं लोकम् आयंस् तैः प्राणै स्वर्गं लोकम् आयामेति। सप्त वै मुख्याः प्राणाः। एते वा अपहतपाप्मानः प्राणा ये मुख्याः। ते ये ऽपहतपाप्मानः प्राणास् तेषां मात्रया यज्ञं तनवामहा इति। अग्निष्टोमा भूयांस उक्थ्येभ्यो भवन्ति। ब्रह्म वा अग्निष्टोमः। तद् ब्रह्मवर्चसम् ऋध्नुवन्ति। तद् उ ब्रह्मवर्चसिनो भवन्ति। अग्निष्टोमाः परस्ताद् भवन्त्य्, अग्निष्टोमा अवस्ताद्, उक्थ्या मध्ये। ब्रह्म वा अग्निष्टोमः, पशव उक्थ्यानि। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णन्त्य् अपरावापाय, नास्य वित्तं परोप्यते य एवं वेद। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति, वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥2.347॥


अथैते पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति। श्रीर् वै पृष्ठानि, वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति, तद् उ सत्रिणो भवन्ति। अथैतत् त्रयस्त्रिंशम् अहर् भवति। त्रयस्त्रिंशाद् एवाधि त्रयस्त्रिंशं सह्यन्तः कुतो ह्य् अन्यद् आहरेयुः। तस्य चतुस्त्रिंशं बहिष्पवमानं भवति त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। षष्ठायतनो वै प्रजापतिर् देवतानाम्। अथ यस् सप्तमम् अह स्वाराज्यस् स लोकः। स्वाराज्यम् उ चतुस्त्रिंशी। तद् यत् सप्तमस्याह्नश् चतुस्त्रिंशं बहिष्पवमानं भवति, यावान् स्वाराज्यो लोकस् तद् यावान् स्वाराज्यो लोकस् तावन्तं स्वाराज्यं लोकम् ऋध्नवामेति। त्रयाणाम् उ चैव त्रयस्त्रिंशानाम् अननूचीनतायै । प्रोष्ठस्य ह खलु वा एता रूपं रात्रयः। ऊर्ध्वो वा अयम् इतष् षडहस् तिर्यङ् मध्ये ऽर्वाङ् असाव् अमुतः। उपरिषद्यस्यो वा एता रूपं रात्रयः। उपरिषद्यं वै सो ऽश्नुते य श्रियम् अश्नुते। उपरिषद्यं ज्यैष्ठ्यं श्रैष्ठ्यं श्रियम् अश्नवामहा इति। तस्माद् एता रात्रीर् उपयन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ्चः पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। ज्योतिषो ऽध्य् अह्न उत्तिष्ठन्त्य् उक्तब्राह्मणात्। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.348॥


अथ यस्यैतस्य सर्वम् एव चतुस्त्रिंशम् अहर् भवति सर्वेणैवाह्ना स्वाराज्यं लोकम् ऋध्नवामेति। त्रयाणाम् उ चैव त्रयस्त्रिंशानाम् अननूचीनतायै। अथ ह स्माह भाल्लवेयो - न पुरा संवत्सरान् महाव्रतम् उपेत्यम्। उपो चेद् ईयुश् चतुर्विंशत्याम् एवैनद् रात्रीषूपेयुर् इति। संवत्सरो वा एता रात्रयो यच् चतुर्विंशतिः। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सर एवैष उभयतः पर्यूढः। तस्य यन् मध्ये सप्तदशम् अहस् तस्मिन्न् एवोपेत्यम् इति। सप्तदशो वै प्रजापतिः। प्राजापत्यं महाव्रतम्। मध्यायतनो वै प्रजापतिर् देवतानाम्। तद् यत्रायतनः प्रजापतिर् देवतानां तत् प्रजापतिम् ऋध्नवामेति। मध्यतो वा अन्नम् अशितं धुनोति। तद् यद् एवम् उपयन्ति मध्यत एवैतद् अशनयाम् अपहत्योत्तिष्ठन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति य एता रात्रीर् उपयन्तीति। तद् यत् परस्तात् प्रत्यञ् च पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। ज्योतिषो ऽध्य् अह्न उत्तिष्ठन्त्य उक्तब्राह्मणाद् यद् इति ह खलु वा एतच् छन्दो यद् गायत्री। यद् गायत्र्या अध्य् उत्तिष्ठेयुर् ईश्वरा अप्रतिष्ठिताश् चरितोः। सविता यन्त्रैः पृथिवीम् अरम्णाद् इति सावित्रं वैश्वदेवे होतारम् अनुशंस्तवै ब्रूयात्। तद् उद्धृतात् प्रतिष्ठिताद् उत्तिष्ठन्ति। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.349॥


अथैतास् संसदो भवन्ति। एतद् ध वै संसदां संसत्त्वं यद् एते स्तोमाश् च छन्दांसि च मध्यतः संसन्नाः। स्तोमाश् च ह खलु वै छन्दांसि च सर्वा देवताः। देवा वै मृत्योर् अबिभयुः। यत् स्वर्गे लोके तस्मात् ते प्रजापतिम् एवोपाधावन् । तान् प्रजापतिर् अब्रवीत् - मा बिभीत। अहं वस् तं मत्युम् अतिनेष्यामि यत् स्वर्गे लोक इति। तान् पृष्ठ्ये षडहे समसादयत्। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरो मृत्युः। मृत्योर् वावैनांस् तत् पृष्ठे प्रतिष्ठितस् समसादयत्। तान् एतेनानिरुक्तेन त्रयस्त्रिंशेनात्यनयत्। स ऐक्षत - मानिरुक्ता भूवन्न् इति। ता निरुक्तेन निरब्रवीत्। ते स्तोमांश् च छन्दांसि चाक्रममाणा आयन्। मृ्त्योर् वाव ते तत् पदयोपनं कुर्वन्त ईयुस्, तद् यद् एते स्तोमाश् च छन्दांसि च मध्यतो विष्वञ्चो भवन्ति॥2.350॥