सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् २/३७१-३८०

विकिस्रोतः तः
← कण्डिका ३६१-३७० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ३७१-३८०
[[लेखकः :|]]
कण्डिका ३८१-३९० →

गवामयनशेषः

सावित्रं पूर्वेद्युः पशुम् आलभन्ते। सविता वै देवानां प्रसविता। सवितृप्रसूता एवैतत् संवत्सरम् आरभन्ते। को ह्य् एतम् अर्हत्य् अप्रसूत आरभम्। प्राजापत्यं श्वो भूत आलभन्ते। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतद् देवताः प्रीणन्ति। यो वै श्रेष्ठम् अराधयित्वाथान्यान् ईप्सति, सर्वे वाव स्य ते ऽराधिता भवन्ति। अथ य श्रेष्ठं राधयित्वाथाप्य् अन्यान् नाद्रियते, सर्वे वाव तस्य त इष्टाः प्रीता भवन्ति। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतत् सर्वा देवताः प्रीणन्ति। श्वेतो लोमशस् तूपरो लप्सुग्य् अन्यतोदञ् चतुष्पाद। यच् श्वेतो लोमशस्, तद् अवीनां रूपम्। यत् तूपरस् तद् अश्वानाम्। यल् लप्सुगी, तत् पुरुषाणाम्। यद् अन्यतोदंस्, तद् गवाम्। यद् अजस, तद् अजानाम्। सर्वेषां वा एष पशूनां मेधः। सर्वेषाम् एवैतत् पशूनां मेधेन संवत्सरं पितरं प्रजापतिं प्रीणयन्ति। स एनान् प्रीतः प्रीणाति।

देवा वा ऋद्धिकामास् तपो ऽतप्यन्त॥2.371॥


स इन्द्र एताम् अष्टकाम् अपश्यत्। तस्याम् अदीक्षत। स एकयाश्नुत। यद् एकयाश्नुत तद् एकाष्टकाया एकाष्टकात्वम्। ते य एवं विद्वांसो दीक्षन्ते सर्व एवाश्नुवते, सर्वे विषुवन्तो भवन्ति। विषुवान् ह्य् एषो ऽभवत्। ते यत् पुरस्ताद् दीक्षेरन् पितृलोके दीक्षेरन्। प्रमायुका स्युर् यद् उपरिष्टाद् दीक्षेरन्। यथापूर्वं पलायितम् ईप्सेत् तं वाप्नुयात् तं वा न तादृक् तत्। त एतस्याम् एवाष्टकायां दीक्षेरन्। तद् यथा रथम् उपस्थितम् आतिष्ठेद् धस्तिनं वा निषादितं तथा। तद्रियञ्च सत्रिण इति वै पृच्छन्ति। नार्वाञ्चो न पराञ्चः। तिर्यञ्चो ह वा एते। नो ह वा असाव् आदित्यो ऽर्वाङ् न पराङ्, तिर्यङ् उ ह वा एष। षड् वा एष मासो दक्षिणैति, षड् उदङ्। यान् दक्षिणैति ते पितृदेवत्या, यान् उदङ् ते देवदेवत्याः॥2.372॥


एतं वा एत आरभ्य यन्तीन्द्रं प्रजापतिं विप्रं पदम् ऋतुपात्रं विश्वान् देवान् स्वर्गं लोकम्। एतस्य वा एत आवृतम् अन्वावर्तन्त। त एतस्य विमुक्तिम् अनु विमुच्यन्ते। तस्यैषा परिचक्षा यद् अपक्षीयमाणे सुत्यां गच्छन्त्य् अपक्षीयमाण उदृचम् अश्नुवते। द्वादश दीक्षाः कुर्वीरंस् तिस्र उपसदः। तेनैतद् उभयम् उपाप्नुवन्ति। तद् उ वा आहुर् उपा हैवैतेनैतद् उभयम् आप्नुवन्ति। सेव तु परिचक्षा यद् अपो ऽनभिनन्दन्तश् शिशिरे ऽवभृथम् अभ्यवयस्ति(?)। सम् इव कोपयति हिमः। स य एनांस् तथा चक्रुषो ऽनुव्याहरेद् इति वेति वा भविष्यन्तीति तथा हैव स्युः। यैवासौ फाल्गुनस्यामावास्या तस्या उपरिष्टात् पञ्चाह - षडहे दीक्षेरन्। यो वै श्रेयसो नियानेनैतीदम् अयासीद् इदम् अयासीद् इति न वै स रिष्यति, श्रेयसो वा एते नियानेन यन्ति य आदित्यस्य, ते स्वस्त्य् अरिष्टा उदृचम् अश्नुवते, ते तद् गच्छन्ति यत्रैष आदित्यो गच्छति, तत् ते तद् गत्वैतस्यैवायनेन पुनर् आयन्ति॥2.373॥


गावो वा एतद् अग्रे सत्रम् आसतान्नाद्यम् अवरुरुत्समानाः। ता दशमे मास्य् उदतिष्ठन् सर्वम् अन्नाद्यम् अवारुत्स्महीति मन्यमानाः। त एता शृंगिणीः। तासां त्वा इवाब्रुवन् - सर्वान् एवैतान् द्वादश मासः समापयामेति। ता अतिप्रायुञ्जत। तासां द्वादशे मासि शृंगाणि प्रावर्तन्त। ता एतास् तूपराः। तस्मात् सत्रिणो द्वादशे मास्य् अपि शिखाः प्रवपन्ते। गवां हि तर्ह्य् अनुरूपा भवन्ति। ता उदतिष्ठन्न् अरात्स्मेत्य् आप्त्वा सत्रम् आप्त्वा सर्वम् अन्नाद्यम्। तस्माद् एतास् सर्वान् द्वादश मास उत्तिष्ठन्ति प्रर्त्वापि वार्षिकाव् अपि शैशिरौ। सत्राभिजितं ह्य् आसाम् अवरुद्धं ह्य् आसाम्। ते य एवं विद्वांसो द्वादश मासः समापयन्ति, सर्वम् एवान्नाद्यम् अवरुध्योत्तिष्ठन्ति। आत्मदक्षिणं ह खलु वै सत्रम्। लोमैव प्रथमाभ्याम् उपसद्भ्याम् स्पृण्वते, त्वचं द्वितीयाभ्यां, मांसं तृतीयाभ्याम्, अस्थि चतुर्थीभ्यां, मज्जानं पञ्चमीभ्याम्। यद् एवैषां तत्र किं चास्पृतं भवति, तद् एव षष्ठीभ्यां स्पृण्वते। ते शुद्धाः पूता मेध्याश् शुचयो भूत्वा देवलोकम् अपियन्ति॥2.374॥


प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तस्माद् अहोरात्रे प्राजनयत्। अहोरात्रयोः प्रत्यतिष्ठत्। तद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रो भवत्य् अहोरात्रे एवैतस्मात् प्रजनयन्त्य्, अहोरात्रयोः प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतस्माद् एव वैश्वानरात् प्रायणीयाद् अतिरात्रात् त्र्यहं निरमिमीत, अग्निष्टोमाद् एव ज्योतिर् निरमिमीत, उक्थ्येभ्यो गां, रात्र्या आयुः। तस्मात् त्र्यहात् त्रीन् ऋतून् प्राजनयत्, त्रिष्व् ऋतुषु प्रत्यतिष्ठत्। तद् यद् एष त्र्यहो भवति त्रीन् एवैतस्माद् ऋतून् प्रजनयन्ति, त्रिष्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतम् एव त्रयहं परस्तात् पर्यौहत्। स षडहो ऽभवत्। तस्मात् षडहात् षड् ऋतून् प्रजनयत्। षट्स्व् ऋतुषु प्रत्यतिष्ठन्। तद् यद् एष षडहो भवति षड् एवैतस्माद् ऋतून् प्रजनयन्ति, षट्स्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एतम् एव षडहं परस्तात् पर्यौहत्। तौ द्वौ षडहाव् अभवताम्। ताभ्यां द्वाभ्यां षडहाभ्यां द्वादश मासः प्रजनयद्, द्वादशषु मासेषु प्रत्यतिष्ठत्। तद् यद् एतौ द्वौ षडहौ भवतो द्वादशैवैताभ्यां मासः प्रजनयन्ति, द्वादशसु मासेषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एताव् एव षडहौ परस्तात् पर्यौहत्। ते चत्वारष् षडहा अभवन्। तेभ्यश् चतुर्भ्यष् षडहेभ्यश् चतुर्विंशतिम् अर्धमासान् प्राजनयच्, चतुर्विंशत्याम् अर्धमासेषु प्रत्यतिष्ठत्। तद् यद् एते चत्वारष् षडहा भवन्ति, चतुर्विंशतिम् एवैतेभ्यो ऽर्धमासान् प्रजनयन्ति, चतुर्विंशत्याम् अर्धमासेषु प्रतितिष्ठन्ति॥2.375॥


स इदं सर्वं भुवनं प्रजनय्य् पृष्ठ्येन षहेनात्मन्न् अधत्त। तद् यद् एष पृष्ठ्यष् षडहो भवति सर्वम् एवैतेन भुवनं प्रजनय्यात्मसु दधते। वर्ष्म वै पृष्ठानि। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्ति। श्रीर् वै पृष्ठानि। श्रियाम् एवैतत् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वै पृष्ठानि। ज्यैष्ठ्य एवैतत् प्रतितिष्ठन्ति। तेजो वै पृष्ठानि। तेजस्य् एवैतत् प्रतितिष्ठन्ति। पशवो ह खलु वा अभिप्लवष् षडह, आत्मा पृष्ठ्यः। यद् अभिप्लवं षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति पुरुषम् एवैतत् पशुष्व् अध्यूहन्ति। तस्मात् पुरुष उपरिष्टात् पशून् अधीव तिष्ठति। मूलं ह खलु वा अभिप्लवष् षडहो ऽग्रं पृष्ठ्यः। यत् अभिप्लव षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति तस्माद् ओषधयो मूलतो जायन्ते, ऽग्रत पच्यन्ते। पञ्चैते षडहा भवन्ति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा तस्याम् एवैतत् प्रतितिष्ठन्ति। स मासस् संपद्यते। संवत्सरो वै मासः। मासश एव तत् संवत्सरम् आप्नुवन्ति। तस्य त्रिंशद् रात्रयो भवन्ति - त्रिंशदक्षरा विराड्, अन्नं विराड् - विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति॥2.376॥


प्रायणीयम् अहर् भवति। प्रायणीयेन वा अह्ना देवा स्वर्गं लोकं प्रायन्। यत् प्रायंस् तत् प्रायणीयस्य प्रायणीयत्वम्। तद् यत् प्रायणीयम् अहर् भवति स्वर्गस्यैव लोकस्य समष्ट्यै। तस्माद् उ हैतस्याह्न ऋत्विजा बुभूषितव्यं, स्वर्गस्य ह्य् एतल् लोकस्य नेदिष्ठम्। तच् चतुर्विंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एतद् उ ह एके सत्रिणो ऽहर् उपेत्योत्तस्थुर् आपाम संवत्सरम् इति वदन्तः। ते ये कामसमारेफाणा इव स्युस् त एतद् एवाहर् उपेत्योत्तिष्ठेयुः। आप्तो हैषां संवत्सरो भवति। तस्य त्रीणि च शतानि स्तोत्रिया भवन्ति षष्ठिश् च तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुर् यत् संवत्सरसदस् संवत्सरस्याहानि सुन्वन्त आसते ऽथ केन रात्रीर् आप्नुवन्तीति। स ब्रूयाद् यावतीः प्रायणीयस्याह्न स्तोत्र्यास् तावतीस् संवत्सरस्य रात्रयः। प्रायणीयस्याह्न एव स्तोत्र्याभी रात्रीर् आप्त्वा अहानि सुन्वन्त आसत इति। तद् उक्थ्यं भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। त्रिंश(त्) स्तुतशस्त्राणि भवन्ति। त्रिंशन् मासस्य रात्रयः। मासश एव तत् संवत्सरम् आप्नुवन्ति॥2.377॥


तद् आहुर् ईर्म इव वा एषा होत्राणां यद् अच्छावाको, यद् अच्छावाकम् अनुसंतिष्ठेतेर्म इव तुष्टुवाना स्युर् इति। तस्य त्रैककुभं ब्रह्मसाम भवत्य्, उद्वंशीयम् अच्छावाकसाम। इन्द्रियं वै वीर्यं त्रैककुभं, सर्वं पृष्ठरूपम् उद्वंशीयम्। इन्द्रिये चैव तद् वीर्ये सर्वस्मिंश् च पृष्ठरूपे ऽन्ततः प्रतितिष्ठन्ति। तद् वा एनत् तत् प्राशंसत्। तद् आहुर् - अग्निष्टोम एव कार्य इति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। एतद् उ ह वै संवत्सरस्य ज्यैष्ठ्यं पर्व यन् मासः। तद् यत् संवत्सरस्य ज्यैष्ठ्यं पर्व तेन नस् संवत्सर आरब्धो ऽसद् इति। ईश्वरा ह त्व् अपशवो भवितोः। - पशवो वा उक्थानि - तेभ्यो हि यन्ति। तस्य त्रीणि स्तोत्राण्य् अष्टाचत्वारिंशानि कुर्युर् उभौ पवमानौ ब्रह्मसाम। तावतीर् उक्थ्यस्य स्तोत्र्याः। आप्नुवन्ति तं कामं य उक्थ्ये, नो वा अग्निष्टोमाद् यन्ति। वर्ष्म वा अग्निष्टोमो, वर्ष्म होता, वर्ष्मणैव तद् वर्ष्म संदधति, वर्ष्मणा वर्ष्मन् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वा अग्निष्टोमो, ज्यैष्ठ्यं होता, ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधति, ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति॥2.378॥


तद् आहुः प्लवम् इव वा एतच् छन्दो यज् जगती, न प्रायणाय। तत्स्थानं षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष् षट् चतुर्विंशानीति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। बृहत्य् उ ह वा इमान् सर्वान् लोकान् अक्षरैर् व्याप्नोति - दशभिर् एवाक्षरैर् व्याप्नोति, दशभिर् एवाक्षरैर् इमं लोकं व्याप्नोति, दशभिर् अन्तरिक्षं, दशभिर् अमुं, चतुर्भिर् दिशो, द्वाभ्याम् अहोरात्रे। सा येमान् लोकान् प्राप्नोति तयेमान् लोकान् व्याप्नवामेति। तस्मात् षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष षट् चतुर्विंशानीति। अथो चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एते असृग्रम् इन्दव इति बहुरूपां प्रतिपदं कुर्वीरन्। बहवो ह्य् एते दीक्षन्ते। तद् उ वा आहुः पवस्व वाचो अग्रिय इत्य् एव प्रतिपत् कार्या। एषा वै बहुरूपा। एतस्यां वै सर्वाणि रूपाणि। उभे प्रतिपदौ भवत, उभे ह्य् अत्र सामनी क्रियेते। तर्ह्य् अथौजिष्ठौ बलिष्ठौ वहिष्ठौ संपादयिष महान्तम् अध्वानं संयुज्योपप्रेयात् तादृक् तत्। सर्वं पृष्ठरूपम् अनु समावर्तयन्ति यथा पित्रे च मात्रे च वत्सान् अनु समावर्तयेत् तादृक् तथा। तद् अग्ने युंक्ष्वा हि ये तवेत्य एतास्व् अग्निष्टोमसाम कार्यम् आहुः। अग्निर् वा एष वैश्वानरो यत् संवत्सरः। तस्यैव युक्त्या अश्वासो देव साधव इति सिद्ध्यै, अरं वहन्त्य् आशव इति समष्ट्यै। तद् आहुर् यज्ञेन वा एते यज्ञान् अभियन्ति ये यज्ञायज्ञीयस्यर्ग्भ्यो ऽधि यज्ञायज्ञीयं च्यवयन्ति। अथैते यज्ञेन यज्ञे प्रतितिष्ठन्ति ये यज्ञायज्ञीयस्यर्क्षु यज्ञायज्ञीयं च्यावयन्ति। तस्माद् यज्ञायज्ञीयं स्वास्व् एव कार्यम् इति॥2.379॥


अभीवर्तो ब्रहमसाम भवति। अभीवर्तेन वै देवा इमान् लोकान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अभीवर्तो ब्रह्मसाम भवत्य् एषाम् एव लोकानाम् अभिवृत्यै। प्रजापतिर् वा अभीवर्तः, प्रजाश् छन्दांसि। स एष प्रजापतिः प्रजासु गर्भं दधद् एति। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। रेत एव तत् सिञ्चन्ति। तस्माद् समानो बह्वीषु रेतो दधाति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। रेत एव तत् सिक्तम्। तत् सिक्तं प्रजनयन्ति। तस्मात् समाना बहून् सूते। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। अन्यद् अन्यद् धि यन्तः पश्यन्ति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। यान् एवेतो लोकान् प्रगाथैर् अभ्यारोहन्तो यन्ति तान् अमुतस् सामभिः प्रत्यवरोहन्त आयन्ति। ऋग् वा अयं लोकस्, सामासौ। यद् इतो यन्तस् सामारभ्य यन्त्य्, अमुं तल् लोकम् आरभ्य यन्ति। ते यत् पुरस्ताद् विषुवत उत्सृजेरन्न् अवामुष्माल् लोकाच् छिद्येरन्। यद् अमुत आयन्त ऋचम् आरभ्यारभ्यायन्तीमं तल् लोकम् आरभ्यायन्ति। ते यत् पुरस्ताद् द्वादशाहीयेभ्यो ऽहोभ्य उत्सृजेरन्न् अवास्माल् लोकाच् छिद्येरन्॥2.380॥