जैमिनीयं ब्राह्मणम्/काण्डम् २/२६१-२७०

विकिस्रोतः तः
Jump to navigation Jump to search

प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽक्रामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। सो ऽशोचत्। सो ऽतप्यत। तं शोचन्तं तप्यमानं प्राणा अभ्यवदन् - वयं वा इमं यज्ञम् अदृशम् तेन त्वा याजयामेति। सो ऽब्रवीत् - तं कथम् अद्राष्ट, कतमम् अद्राष्टेति। ते ऽब्रुवन्न् - आश्रावयास्तु श्रौषट्। यज ये यजामहे। वौषड् इत्य् एतम् अदृश्मेति। सो ऽवेद् - अदृशन् वा इति। यत् पञ्चासन्, पांक्तो यज्ञः। तेनावेद - अदृशन् वा इति। तेषाम् उ यत् पञ्चानां सतां सप्तदशाक्षराण्य् आसन् - सप्त - दशः प्रजापतिः - प्राजापत्यो यज्ञः। तेनो एवावेद् अदृशन् वावेति। सो ऽब्रवीत् - ते केन होष्यामः, कस्मिन् होष्याम इति। ते ऽब्रुवंस् - तवैव वपाम् उत्खिद्य तां तवैव हृदये ऽग्नौ सर्वहुतां होष्याम इति। ते प्रजापतेर् एव वपाम् उदखिदन्। वाचम् एव तेषां प्राण एवाश्रावयद्, अपानः प्रत्याश्रावयत्। मन एव होतासीत्। प्रजापतिर् एव चतुर्थो ब्रह्मा दक्षिणत आस्त। तां प्रजापतेर् एव हृदये ऽग्नौ सर्वहुताम् अजुहवुः। तां यद् अवपंस् तद् वपायै वपात्वम्। यद् वो एनां तद् अजुहवुस् तद् एनाम् अवपन्। तस्माद् उ ह वप्तव्यम् एव। उप्ताद् ध्य् एवेदं सर्वं जायते। तस्यै हुताया अजः - ॥2.261॥


- श्वेतो लोमशस्तूपरो लप्सुद्य् अन्यतोदंश् चतुष्पाद् अजायत् तस्मिन् सर्वांणि रूपाणि पर्यपश्यन्। ते ऽब्रुवन्न् - इमानि वा अस्मिन् सर्वाणि रूपाणि। एतेमम् एवालभामहा इति। ते तम् आलभन्त। तेषां प्राण एवाश्रावयद् अपानः प्रत्याश्रावयत्। मन एव होतासीत्। प्रजापतिर् एव चतुर्थो ब्रह्मा दक्षिणत आस्त। तं प्रजापतेर् एव हृदये ऽग्नौ सर्वहुतम् अजुहवुः। तस्माद् धुताद् अग्निर् देवताजायत। तद् ऋचो वेदः। अनु वायुर् देवताजायत। तद् यजूंषि वेदः। अन्व् आदित्यो देवताजायत्। तत् सामानि वेदः। अन्व् एते च त्रयो देवानां श्रेष्ठा अजायन्तैताश् च तिस्रो विद्याः। शश्वद् धैतावद् एव प्रजापतिना सृष्टम्। अथैताभिर् एव देवताभिर् इदम् इतरत् सर्वम्। ते ऽब्रुवन् - येन नः पिता प्रजापतिर् यज्ञेनेष्ट्वारात्सीत् तेन यजामहा इति। ते तम् आहरन्त। तेषां वायुर् एवाश्रावयद्, आदित्यः प्रत्याश्रावयत्। अग्निर् एव होतासीत्। प्रजापतिर् एव चन्द्रमाश् चतुर्थो ब्रह्मा दक्षिणत आस्त॥2.262॥


त एव चतुर्होतारम् आसत। एते ह वाव चतुर्होतारो यान् इमान् आहुश् चतुर्होतॄन्। तेषां सहस्रतम्याम् आहुत्यां गौर् आजायत। तस्यां सर्वान् भोगान् पर्यपश्यन्, ये के च गवि भोगास् तान्। ते ऽबुवन्न् - इमे वा अस्यां सर्वे भोगाः। एतेमाम् एव प्राणो जनयति ब्रवामेति। ताम् अब्रुवन् - प्राणो जनयति। सा त्रयस्त्रिंशतं च त्रीणि च शतान्य् अग्नये प्राजनयत्। त्रयस्त्रिंशतं च त्रीणि च शतानि वायवे प्राजनयत्। त्रयस्त्रिंशतं च त्रीणि च शतानि आदित्याय प्राजनयत्। तत् सहस्रम् अभवत्। सैव सहस्रतमी। तां पुनराजत। स यो हैवं विद्वान् गा रक्षते, प्र हैवास्य सहस्रम् आप्नुवन्ति। तस्माद् उ वैवंविदा रक्षितव्या एव गावः। ते ऽब्रुवन्न् - अलं वै तस्मै स्मो यन् नानाशो विपरेत्य यजमाना आसीमं ह्य् एत, नानाशो विपरेत्य यजमाना आसामहा इति। ते नानाशो विपरेत्य यजमाना आसत। तेनैव श्रेयांसो ऽभवन्न् अपापीयांसः। ते ऽब्रुवन् - न वै श्रेयांसो ऽभूम न पापीयांसः। एत, सहस्रेण यजामहा इति॥2.263॥


तत् सार्धं सहस्रं सामाकुर्वन्। तद् एषां सहस्रसंख्यानः। एकस्यै गोर् नोदभवत्। ते ऽब्रुवन् - प्रजापतिम् एवेमां सहस्रतमीं याचामहा इति। ते प्रजापतिम् एव तां सहस्रतमीम् अयाचन्त। स प्रजापतिर् ऐक्षत यद्य् एभ्यः प्रदास्यामि रेक्ष्ये, एभ्यो न प्रदास्याम्य् ऊनम् एषां सहस्रं भविष्यति हन्तैनान् सहैवानयाभ्युपयानीति। तान् अब्रवीत् - सहैव वो ऽहम् अनयाभ्युपयानीति। तथेति। तांस् तयैव सहाभ्युपैत्। त एतत् त्रिरात्रं यज्ञम् अपश्यन्। तम् आहरन्त। सो ऽब्रवीत् - समेना3नेन यज्ञेन यक्ष्यामहा असमेना3 इति। समेनेत्य् अब्रुवन्। यत् समेनेत्य् अब्रुवन् सम एव तद् वर्षम् अकुर्वत, समै राष्ट्रं संज्ञाम् एव तद् अकुर्वत। अथ यद् अवक्ष्यन्न् असमेनेत्य् असम एव वर्षम् अभविष्यद् असमै राष्ट्रम् असंज्ञाभविष्यत्। ते केन समेष्याम इति। यज्ञायज्ञीयेनेति। तस्माद् यज्ञायज्ञीयेनैव संयन्ति। वाग् वै यज्ञायज्ञीयम्। वाग् इमे लोकाः। वाचैव तद् वाचम् आरोहन्। ते त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमे ऽहन्न् अददुः। तेनास्मिन् लोके ऽग्निर् अरार्ध्नोत्। त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीये ऽहन्न् अददुः। तेनास्मिन्न् अन्तरिक्षलोके वायुर् अरार्ध्नोत्। त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीये ऽहन्न् अददुः। तेनामुष्मिन् लोके आदित्यो ऽरार्ध्नोत। स यो हैवं विद्वान् एतेन यज्ञक्रतुना यजत एतासु चैव देवतास्व् ऋध्नोत्य् एतांश् च लोकान् आप्नोति॥264॥


सा या सहस्रतम्य आस विद्युद् धैव सा भूत्वा प्रजापतिं विवेश। तद् एषाभ्यनूच्यते -
अयं स शिंक्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता।
सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत॥
इति। इमां हैव गां रूपं प्रत्युह्य विद्युद् एव भूत्वा पुनः प्रजापतिं प्रविवेश। सैषा विद्युत् सा यद् एतत् स्तनयति ददददददेति। ददानि ददानीति हैव तत् प्रजाभ्यो वृष्टिम् अन्नाद्यं प्रयच्छति। प्रास्मा एषा देवता वृष्टिम् अन्नाद्यं यच्छति य एवं वेद॥2.265॥


अथैषो ऽश्वमेधः। प्रजननकामो हेतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, वीमान् लोकान् आप्नुयाम्, अवेन्द्रियं वीर्यं रुन्धीयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत, वीमान् लोकान् आप्नोद्, अवेन्द्रियं वीर्यम् अरुन्ध। स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय, वीमान् लोकान् आप्नुयाम्, अवेन्द्रियं वीर्यं रुन्धीयेति स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, वीमान् लोकान् आप्नोत्य्, अवेन्द्रियं वीर्यं रुन्धे। स वा एष वीर्यम् एव यज्ञः। यर्हि वा एतेन पुरेजिरे, सर्वम् एव वीर्यवद् आस - ऋषिर् ह स्म मन्त्रकृद् ब्राह्मण आजायते, ऽतिव्याधी राजन्यश् शूरः, पोषयिष्णुर् वैश्यो रयिमान्, उत्थाता शूद्रो दक्षः कर्मकर्ता, कल्याण्य स्त्रियः पतिव्रताः। अकृष्टपच्यं ह स्म धान्यं पच्येत। अपि ह स्मैको व्रीहिपात्रः पक्कः कुलायालं भवति। तथा पयस्वद् ध तर्हि सर्वम् एवास। अपि ह स्मारण्ये वीर्याण्य् उपाजायन्ते - अघलास् सिंहा, अघलाश् शार्दूला, अघला ऋक्षा ऋक्षीका, अघला अहयो ऽजगराः। पुरुषव्याघ्रा ह स्मारण्येष्व् आददानास् तिष्ठन्ति। अपि ह स्मैकः शिंशुमारो बहूनि तीर्थानि गोपायति। वीर्येण ह वाव ते तत् तथासुः॥2.266॥


तस्य वा एतस्य ललाटाद् एव सिंहो ऽजायतोरसो ऽधि शार्दूल, उदराद् द्वीपी, अक्षिभ्याम् अपाष्ठिहौ, कर्णाभ्याम् अश्वकर्णौ, केसरेभ्य ऋक्षा ऋक्षीका, लोमभ्यो दूर्वा, अनूकाच् छिंशुमारो, वालेभ्यो ऽश्ववालाः, सक्थिभ्यां क्रौञ्चचाव्, आण्डाभ्यां वराहौ, वक्त्राभ्यां चक्रवाकौ, वनिष्ठोर् उद्रो, गुदाभ्यो ऽहयो ऽजगराः, कुष्ठिकाभ्यो वर्तकाः, शफेभ्यः शल्यकाः, शकृत्पिण्डेभ्यः कूश्मा, ऊवध्याद् उर्वारु तंतिसन्तदूलः श्यामाको लोहितकम् इत्य् एतत् क्षुद्रम् अन्नाद्यम् उपजज्ञे॥2.267॥


तद् आहुर् यः कथं स आलभ्य इति। य एव दूरे श्रुतस् स आलभ्य इत्य् आहुः। वीर्येण वै स श्रुतः। वीर्यम् एष यज्ञ इति। अथो आहुर् य एव युग्योर् वहीयान् स आलभ्य इति। वीर्येण ह वै स तयोर् वहीयान्। वीर्यम् एष यज्ञ इति। तस्मिन् ह शौनकश् च कापेयो ऽभिप्रतारणश् च समूदाते - यःकथंरूपस् स आलभ्य इति। तौ ह कृष्णपिशंगे संपादयांचक्रतुः। यस्य श्वेतस्य सतः कृष्णम् अस्ति, कृष्णस्य वा सत श्वेतं, स एव सः प्रजापतिन्यंगः। प्रजापतेर् अक्ष्य् अश्वयत् तस्माद् अश्वः। यच् छ्वेथो (स्) समभवत् तस्मात् पूतिर्, यद् अपः प्राविशत् तस्माच् छ्वेतनः। श्वेतस्य वा वै सतो ऽक्ष्णः कृष्णम् अस्ति, कृष्णस्य वा सत श्वेतम्। स एव स प्रजापतिन्यंगः। तम् एतद् आलभन्ते॥2.268॥


तेन हैतेन मौण्डिभ उदन्युर् ईज उदन्यूनां राजा। तद् ध यवक्रीः सौमस्तम्बिर् आस्तावं प्रति निषसाद। तस्य हायं पूषा रयिर् भग इत्य् एताः प्रतिपदश् चक्रुः। स होवाच - छंवट् मासा मौण्डिभाप प्राणान् अरात्सीर् इति। एष ह तर्ह्य् अनुव्याहार आस। अथ ह मौण्डिभ उदन्युस् त्रय्यै विद्यायै कस्सवित आस। स होवाच - संवृहत मे सदोहविर्धाने, मृदा मे ग्रहान् संदिह्य निधत्त। यर्ह्य अयं ब्राह्मणो ऽनुव्याहारी मर्ता, तर्हि यष्टास इति। तस्य ह मृदा ग्रहान् संदिह्य निदधुः। अथ ह यवक्रीः सौमस्तंबिस् तेजस्वी ब्रह्मवर्चस्य् आस। स ह स्म याम् अच्छाब्रूते या ह स्मैनं कामयते, म्रियते ह स्म। यो ह स्मैनं न कामयते, म्रियत उ एव। स ह यज्ञवचसो राजस्तंबायनस्य जायाम् अच्छोचे। सा हेक्षांचक्रे - यदि वा एनं कामयिष्ये यदि च न, मरिष्यत्य् एव स्या। हन्तैनं कामयै। ब्राह्मणस्य चित् स्या प्रियं कृत्वा म्रियताद् इति। तं होवाचादस् तिष्ठ। अथ त्वाभ्येष्याम इति॥2.269॥


तां हालंकुर्वाणां रुदतीं पतिर् आजगाम। तां होवाच - किम् अलंकुरुषे किं रोदिषीति। सा होवाच - मरिष्यसि हीत्य् आत्मानम् एवतैत् कृपये। यवक्रीर् चेत्याम् अच्छावोचतेति। स होवाचाज्यम् अत आहरतेति। तद् ध पवित्राभ्याम् उत्पूय जुहवांचकार -
या नो अद्य त्रायाति भारद्वाजस्य संस्कृता
प्रेणीम् अग्निप्रियाम् अग्ने तां मह्यम् आ वह॥ स्वाहा।
इति। तस्यै ह तद्रूपाम् एवाप्सरसम् उत्थापयांचकार। तां होवाचासौ यवक्रीस्, तद् इहीति। द्वितीयं ह जुहवांचकार -
गन्धर्वम् उग्रं बलिनम् अश्मघातिनम् अंसलम्
भारद्वाजस्य हन्तारं विश्वज्योतिषम् आ वह॥ स्वाहा।
इति। तस्यै हायः कूटहस्तं गन्धर्वम् ईर्ष्युम् उत्थापयांचकार। तं होवाचासौ ते जाया यवक्रीयम् अभ्यगात्। तद् इहीति। तस्यै हायत्या उपतस्तार। सा ह सिष्मिये। स होवाच - नाह किल ते स्त्रिके रमेतव्यम्। अथ स्मयस इति। कथा हेति। मरिष्यसि हीति। सा ह पादं प्रगृह्णत्य् उवाच - न खलु त्वं पुरुषेत्थंपदीं स्त्रियं पेचिष इति। लोमशौ हास्या अधस्तात् पादाव् आसतुः। संनिपन्नौ वा हासंनिपन्नौ वासतुः। अथ हेदम् एवायः कूटहस्तो गन्धर्वो ऽभिविचक्रमे। स होवाच - नमस् ते ऽस्तु। कास्य प्रायश्चित्तिर् इति॥2.270॥