जैमिनीयं ब्राह्मणम्/काण्डम् २/२५१-२६०

विकिस्रोतः तः
Jump to navigation Jump to search

तद् आहुर् नामुष्मिन् लोके सहस्रस्यावकाशो ऽस्ति। आत्मन् एवैव न वात्मने च। नेति। तद् आहुः कियद् इत स्वर्गो लोक इति। यावत् सहस्रं गौर् गव्य् अधि प्रतिष्ठिता तावद् इति ब्रूयात्। अथो यावत् सहस्रं प्राणैस् सं प्राणन्तीत्य्, अथो यावत् सहस्रम् आश्वीनानीत्य्, अथो यावत् सहस्रं प्राणैस् सं प्राणन्तीत्य्, अथो यावत् सहस्रम् आश्वीनानीत्य्, अथो यावत् सहस्रं योजनानीत्य्, अथो यावत् सहस्रम् अह्नयानीति। तद् गवा गवैवाप्नोति। सा यैषा शबली पष्ठौह्य् उपन्नम् एषामुष्मिन् लोके कामदुघा भूत्वा तिष्ठते। य एवं वेद तार्प्यम् प्रत्यस्य दक्षिणा नयति, सहस्रस्य सयोनितायै। सहस्रं वै यद् असृज्यत। तस्य तार्प्यम् एव योनिर् आसीत्। तद् यत् तार्प्यं प्रत्यस्य स दक्षिणा नयति सयोन्य् एव तत् सहस्रं करोति। उप हैनं सहस्रं ददिवांसं योनिसहस्रं तिष्ठते य एवं वेद। सा या सहस्रतमी स्यात् तस्यै कर्णम् आजपेद् इळे रन्ते महि विश्रुति शुक्रे चन्द्रे हव्ये काम्ये ऽदिते सरस्वत्य् एतानि ते ऽघ्न्ये नामानि, देवेषु नस् सुकृतो ब्रूताद् इति। सुकृतं ह वा एनं देवेष्व् आह। ताम् कलशम् अपघ्रापयत्य् अपजिघ्र कलशं, मह्या त्वा विशन्त्व् इन्दवस्, सा नो धुक्षस् सहस्रम् उरुधारा पयस्वतीति। उप हैनं सहस्रं ददिवांसं सहस्रं तिष्ठते य एवं वेद॥2.251॥


प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स वाचम् असृजत्। वाचो गां निरमिमीत। स ऐक्षतालं वै तस्मा अस्मि यत् सृजेयेत्। तद् अन्नं लभेत यत् सृजेय, हन्त सृजा इति। स वसून् असृजत, स रुद्रान्, स आदित्यान्। तं वसव उपासीदन्न् अस्तु न स्वम् इति। तेभ्य एतां गां प्रायच्छत्। तां संवत्सरम् अरक्षन्त। सैभ्यस् संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत्। तां पुनर् आजायत्। तं रुद्रा उपासीदन्न् अस्तु न स्वम् इति। तेभ्य एतां गां प्रायच्छत्। तां संवत्सरम् अरक्षन्त। सैभ्यस् संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत्। तां पुनर् आजायत। तम् आदित्या उपासीदन्न् अस्तु न स्वम् इति। तेभ्य एतां गां प्रायच्छत्। तां संवत्सरम् अरक्षन्त। सैभ्यस् संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत्। तत् सहस्रम् अभवत्। सैव सहस्रतमी। तां पुनर् आजायत। स यो हैवं विद्वान् गा रक्षते प्र हैवास्य सहस्रम् आप्नुवन्ति। तस्माद् उ हैवंविदा रक्षितव्या एव। गावस् ते ऽब्रुवन्न् - अलं वै तस्मै स्मो यत् सहस्रेण यजेमहि। एत सहस्रेण यजामहा इति॥2.252॥


तत् सार्धे सहस्रसामाकुर्वन्। तद् एषां सहस्रं संख्यान एकैकस्यै गोर् नोदभवत्। ते ऽब्रुवन् प्रजापतिम् एवेमां सहस्रतमीं याचामहा इति। ते प्रजापतिम् एव तां सहस्रतमीम् अयाचन्त। स प्रजापतिर् ऐक्षत यद्य् एभ्यः प्रदास्यामि रेक्ष्ये, यद्य् एभ्यो न प्रदास्याम्य् ऊनम् एषां सहस्रं भविष्यति। हन्तैनान् सहैवानयाभ्युपयानीति। तान् अब्रवीत् सहैव वो ऽहम् अनयाभ्युपयानीति। तथेति। तांस् तयैव सहाभ्युपैत्। त एतं त्रिरात्रं यज्ञम् अपश्यन्। तम् आहरन्त। सो ऽब्रवीत् - समेनानेन यज्ञेन यक्षामहा3 असमेना3 इति। समेनेत्य् अब्रुवन्। यत् समेनेत्य् अब्रुवन् सम एव तद् वर्षम् अकुर्वत समे राष्ट्रं संज्ञाम् एव तद् अकुर्वत। अथ यद् अवक्ष्यन्न् असमेनेत्य् असम एव वर्षम् अभविष्यद् असमै राष्ट्रम् असंज्ञाभविष्यत्। ते केन समेष्याम इति। यज्ञायज्ञीयेनेति। तस्माद् यज्ञायज्ञीयेनैव संयन्ति। वाग् वै यज्ञायज्ञीयम्। वाग् इमे लोकाः। वाचैव तद् वाचम् अरोहन्। ते त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमे ऽहन् न ददुः। तेनास्मिन् लोके वसुभिर् अराध्नोत्। त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीये ऽहन् न ददुः। तेनास्मिन्न् अन्तरिक्षे लोके रुद्रैर् अराध्नुः। त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीये ऽहन् न ददुः। तेनामुष्मिन् लोक आदित्यैर् अराध्नोत्। स यो हैवं विद्वान् एतेन यज्ञक्रतुना यजत, एतासु चैव देवतास्व् ऋध्नोत्य् एतांश् च लोकान् आप्नोति॥2.253॥


प्रजापतिर् यद् अग्रे सहस्रम् असृजत तत् प्रजाभ्यः प्रायच्छद् - एतद् वस् सहेति। यत् सहेत्य् अब्रवीत् तत् सहस्रस्य सहस्रत्वम्। तस्माद् उ ह सहस्रीव सतिर् एव स्यात्। सहेति ह्य् अब्रवीत्। सा यो हैनस् तत्रावास्यमानो ब्रूयाद् आ ते सहस्रस्य पयो दद इति तथा हैव स्यात्। ते देवा ईशानं देवम् अब्रुवंस् त्वं वै न श्रेष्ठो ऽसि। तम् उद्धारम् उद्धरस्वेति। स एतानि त्रीणि सामानि सहस्रस्य रसं प्रावहतर्त्तनिधनम् ईनिधनं त्रिणिधनम् इति। तानि वा एतानि सामानि सहस्रत्रिरात्रेण कार्याणीशानस्य देवस्योद्धार उद्धृतानि। उद् उद्धारं हरत् उद्धार्यो भवति य एवं वेद। तस्माद् एतानि सामानि सहस्रत्रिरात्रेण कार्याणीशानस्य देवस्याखलस्य सामानीश्वरो यजमानस्य पशून् अभिमन्तोर् इति। अपरसम् इव तु हास्य सहस्रं दत्तं स्यात्। कार्याण्य् एव सहस्रस्य धरतायै। प्रजापतिर् यद् देवेभ्यस् सहस्रं दत्तं स्यात्। कार्याण्य् एव सहस्रस्य धरतायै। प्रजापतिर् यद् देवेभ्यस् सहस्रं प्रायच्छत् तद् अप्रतीक्षमाणा एवादन्। तद् एभ्यो ऽद्यमानं तिरो ऽभवत्। तं न्व् अमन्त्रयन्त। तद् अब्रवीत् - क्षयाद् वै बिभेमीति। नेत्य् अब्रुवन्। तथा वै त्वात्स्यामो यथा नो ऽद्यमानं पीयमानं न क्षेष्यस इति। तस्मै वै म ऋतं कुरुतेति। तस्या ऋतनिधनेनैवर्तम् अकुर्वन्, ईनिधनेनापायन्, प्र चैवैनं त्रिणिधनेनाजायन्न्, अक्षितिं चास्मा अकुर्वन्। अद्यमानम् अस्य पीयमानं सहस्रं न क्षीयते य एवं वेद॥2.254॥


अन्वहम् आजिदोहानि भवन्ति। प्राणा वा आजिदोहानि। यद् अन्वहम् आजिदोहानि भवन्ति प्राणेष्व् एव तत् प्रतितिष्ठति। अन्वहम् आजिदोहानि भवन्ति। पशवो वा आजिदोहानि। यद् अन्वहम् आजिदोहानि भवन्ति पशुष्व् एव तत् प्रतितिष्ठति। अन्वहम् आजिदोहानि भवन्ति। इमे वै लोका आजिदोहानि। यद् अन्वहम् आजिदोहानि भवन्त्य् एष्व् एव तल् लोकेषु प्रतितिष्ठति। अग्निर् आजिदोहं वायुर् आजिदोहम् असाव् आदित्य आजिदोहम्। यद् अन्वहम् आजिदोहानि भवन्त्य् एतास्व् एव तद् देवतासु प्रतितिष्ठति। इमे वै लोका आजयो नाम। एतेषाम् एते दोहाः। दुह इमान् लोकान् य एवं वेद। अन्वहम् अर्का भवन्त्य् - अन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्धयै। स्वाशिराम् अर्कः प्रथमे ऽहनि भवति। आपो वै स्वाशिरः। अन्नम् उ वा आपः। नो वा अनवसो ऽध्वानं समश्नुते। अग्नेर् अर्को द्वितीये ऽहनि भवति। अन्तरिक्षायतनं वै द्वितीयम् अहः। अस्तम् एवान्तरिक्षं तमस्सहचयानि रक्षांसि - अग्निर् वै रक्षसाम् अपहन्ता - रक्षसाम् एवापहत्यै। दीर्घतमसो ऽर्कस् तृतीये ऽहनि भवति। जागतो वै दीर्घतमसो ऽर्कः। जागतं तृतीयम् अहः। अहर् एव तद्रूपेण समृद्धयन्ति॥2.255॥


अन्वहं सौपर्णानि भवन्ति स्वर्ग्याणि, स्वर्गस्य लोकस्य समष्टयै। तद् आहुः - क्षिप्राणि सामानीश्वरो यजमानं पुरायुषः प्रमथितोः। द्वे एव कार्ये पतनायैवेति। सं वा एनं तत् साधयन्तीत्य् आहुः। एकम् एव कार्यं, समष्टया एवेति। किम् उ य एनं प्रथमध्नुर् अपि सर्वाण्य् एव कार्याणि। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेनैवोदस्तभ्नुवन्, संतनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधु, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। तद् यद् एतानि सामानि भवन्ति त्रिरात्रस्यैवोत्तब्ध्यै, त्रिरात्रस्य सन्तत्यै, त्रिरात्रस्य संकृत्यै, त्रिरात्रस्य संहित्यै, त्रिरात्रस्य संश्रित्यै, त्रिरात्रस्यारिष्टायै। ऐळं ककुभि, स्वारम् उष्णिहि। त्रिरात्रम् एवैतन् मध्यतो व्यतिषजन्त्य् अवस्रंसाय॥2.256॥


षट् च वै गायत्रीः प्रथमम् अहस् संपद्यते दश च स्तोत्र्याः। षट् च वै त्रिष्टुभो द्वितीयम् अहस् संपद्यत एकां च स्तोत्र्याम्। अथ यत् तृतीयम् अहस् तस्य द्वे सवने जगतीस् संपद्यते ऽनुष्टुभः। तृतीयसवनम् एकविंशष् षोडशी। षोडशी वै पूर्वयोर् अह्नोर् अपित्वम् ऐच्छत। षोडशिनि पूर्वे ऽहनी अपित्वम् ऐच्छेताम्। तम् एताभिर् एकादशभि स्तोत्र्याभिर् उसंपरैताम्। स आनुष्टुभष् षोडशी समपद्यत। स यो वै षोडशिनं पूर्वयोर् अह्नोर अपित्विनं वेद षोडशिनि पूर्वे ऽहनी अपित्विनी, अपित्वी ह तत्र भवति यत्र कामयते ऽपित्वी ह स्याम् इति। तद् आहु - स्तोमैर् एव पृष्ठयं षडहम् आप्नोति, संपदा छन्दोमान्, रात्र्या दशमम् अहर् इति। स यवद्वादशाहेन दक्षिणावतावरुन्द्धे य एवं वेद। अथैषा सहस्रतमी, तां यद् दद्याद् रिच्येतानु गर्भाश् शुष्येयुर्, यन् न दद्याद् ऊनम् अस्य सहस्रं दत्तं स्यात्। कलां चादेयं च न दद्यात्। तन् मिथुनम्। तद् अनु प्रजायते। तद् आहुर् अदत्तं वै तथा भवत्य्, उत वै कलाम् एवान्व् अवजयति। तत् तत् कलां वानु सहस्रम् इयात्। कलावानु सहस्रं तत् तद् अविज्ञानं दत्वैवैनाम् अद्यया गवा निष्क्रीणीयाद् इति। तद् उ वा आहुर् दत्तं वै तथा भवति। गौर् इतरा गौर् इतरोर्णास् त्रयस्यैवैनाम् आविकस्य यावद् अर्हन्तीम् मन्येत तावता निष्क्रीणीयाद् इति। ऊर्णासूत्रम् उ वै गोः किञ्चचिद् इव दत्तम् अस्य सहस्रं भवति, नात्मना रिच्यते। स यथा वागरया वा रज्ज्वा वा वज्रं परितनुयाद् एवम् एवैतत् पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥2.257॥


शबलि समुद्रो ऽस्य् अक्षितिर् ब्रह्मदेवी प्रथमजा ऋतस्यैकम् अक्षरं क्षरसि विभावर्य् अभीमान् लोकान् अमृतं दुहाना तां त्वा विद्म सरमे दीद्यनाम् अक्षितिं देवेभ्यो भासा तपन्तीम्। तेजो ऽसि, शुक्रम् अस्य, अमृतम् अस्य्, अन्नम् असि, महद् अस्य् एषासि महि, तां त्वा तथा वेद। तस्यां त्वय्य् एतां दक्षिणां निदधे ऽक्षितिम् अक्षीयमाणां श्रियं देवानां बृहज् ज्योतिर् वसानां प्रजानां शचिष्ठाम् आ व्रतम् अनुगेषम् इति। एषा ह वै शचिष्ठावृद् यद् असाव् आदित्यः। तस्या एते द्वे पदे अहश् चैव रात्रिश् च, सत्यं चानृतं च। तद् धास्या एतत् सत्यं पदं यद् अहः। तद् एतद् अत्यायु नाम। स यो हास्य एतद् अत्यायु नाम पदं वेदात्य् एवान्यान् प्रजया पशुभि श्रिया कीर्त्यायुषा भवति॥2.258॥


अथास्या एतत् पृश्नि शबलं पदं यद् रात्रिः। स यो हास्या एतत् पृश्नि शबलं पदं वेद पृश्निर् एव प्रजया पशुभि श्रिया कीर्त्यायुषा भवति। तद् यथाग्निं दीप्यमानम् उपवाजिनेनोपवाजयेद् एवम् एवैतद् ब्राह्मण आत्मानं संश्यते सत्यं वदन्। स सत्यम् एव वदेत्, सत्यं चरेत्, सत्यं चिकिर्षेत्, सत्यम् एव भवति। उत त्वैनम् अमृतस्य कामो विन्देज्, जीवनकाम्या वा, स्त्रीकाम्या वा, नर्मकाम्या वा, सख्यकाम्या वा। रात्र्यां वा हैनं छायायां वा वदेत्। तथा हैनं तन् न दृणोते। स्वे ह्य् एनद् आयतने वदति पृथ्वी बेकुर इति। हेति हेसिनी परिमन्थादित्ये मनस् ते भुवो युवस् ते यज्ञस्याज्यम् असि धीष्णस् त्व् ऋतुस्था मनस्था मनसो ग्रामस्यामाविशनाभृत् ते ऽस्मि रन्तिर् असि रमतिर् असीमे स्वर्गस्य ऊर्जस्वती पयस्वती शबल्य् एह्य् अराभुर् अस्मि सिकताः पुरोमि वत्सा बिभर्मि सहस्रमातरं विद्म त्वा पुरुष तल्लक स न इदं ब्रूहि यथेदं भविष्यति॥2.259॥


अग्ने देवानां होतस् त्वं, देवानां होतास्य्, अहं मनुष्याणां, स न इदं ब्रूहि यथेदं भविष्यति - न साम समेति, न स्तोत्र्या, नो मे लोकास् संक्रामन्ति, वरीयान् यजमानस्य लोको भवति। यत् साम समेयाद्, यत् स्तोत्र्यो, यद् इमे लोकास् संक्रामेयुर् अंहीयाद् यजमानस्य लोक स्यात्। गायत्रं समेति। प्राणो वै गायत्रम्। सर्वत्र ह्य् एव प्राणः समेति॥ यज्ञायज्ञीयं समेति। वाग् वै यज्ञायज्ञीयम्। सर्वम् ह्य् एव वाक् च प्राणश् च समेतः। द्वे सामनी समेतः - द्विपाद् यजमानः - प्रतिष्ठित्यै। प्रतितिष्ठति। य एवं वेद॥2.260॥