जैमिनीयं ब्राह्मणम्/काण्डम् २/२७१-२८०

विकिस्रोतः तः
Jump to navigation Jump to search

अस्ति वा न वेति होवाच। यद् एव ते किं च पितु स्वं, तस्य सर्वस्य पुरा सूर्यस्योदेतोश् शिरश् छिन्द्धि। सा वैव सा वा नेति। स ह तथा छेत्तुम् उपचक्रमे। ते होचुर् - अदृपद् यवक्रीर्, विबध्नामेति। नेति ह पितोवाच। देवेषितो वै मे पुत्रः करोति। एष एव तद् वेद यद् अत्र श्रेय इति। तद् ध बधिरो ग्रामे तक्षा प्रतिषिध्यमानं न शुश्राव। तस्य ह घ्नन् परेयाय। स ह - को नु नो जनस् तृणेढीति। स एवास्य प्रजघानेत्य् एके। घ्नन्तम् एवैनं सूर्यो ऽभ्युदियाय। तस्योदिते स एव गन्धर्वः प्रजघानेत्य् एके। यथा ह तु ममार तथास। शश्वद् धास्य स एव गन्धर्वः प्रजघान॥2.271॥


तद् उ ह मौण्डिभो ऽनुबुध्योवाच - संमिनुत मे सदोहविर्धाने, याजयत मा ब्राह्मणाः। अमृत ह वै स ब्राह्मणो ऽअनुव्याहारीति। तस्य ह तथा चक्रुः। तद् उ ह सौमस्तंबिर् अनुबुध्याजगाम। स ह तथैवास्तावं प्रतिनिषसाद। तस्य हायं पूषा रयिर् भग इत्य् एता एव प्रतिपदश् चक्रुः। स होवाच - न वै किलायं राजन्यबन्धुर् इमं यज्ञक्रतुं विदांचकार। न वै किल मे ऽनेनोक्तेन पुत्रम् अवधीत्। एतावद् वाव किल त्यस्य पुत्रस्यायुर् अभूद् इति। तं ह तच् छशाप - मरिष्यत्य् अहायं राजन्यबन्धुः, परो इमे मौण्डिभा भविष्यन्तीति। त एते पराभूता गोतमा ब्रुवाणाश् चरन्ति। तस्य वा एतस्य तरत् स मन्दी धावतीत्य् एव प्रतिपदो भवन्ति तरद्वतीः। तस्माद् अश्वो ऽध्वानं तरिष्टः। धावद्वतीर् भवन्ति। तस्माद् अश्वो ऽध्वानं धावन् समुश्नते। समय्य् एकं पदं भवति। तस्माद् अश्व एकैकं पादम् उदंकन् तिष्ठति॥2.272॥


तस्य चतसृषु बहिष्पवमानं भवति। चतुष्पादा वा अश्वा सन्तश् चतुश्शफाः। ते ये चतुष्पादाः पशवश् चतुश्शफास् तान् एवैतेनावरुन्द्धे। अष्टास्व् - अष्टास्व् आज्यानि। अष्टाशफा वै पशवः। ते ऽष्टाशफाः पशवश् तान् एवैतेनावरुन्द्धे। द्वादशो माध्यंदिनः। द्वादशाक्षरा वै जगती। पशवो जगती। यत् क्षुद्रं पशूनां तज् जागतम्। तद् एवैतेनावरुन्द्धे। सविंश आर्भवः पवमानः। द्वे वा एते दशदशिन्यौ विराजौ यद् विंशतिः। विंशतिप्रतिष्ठाना वै पशवो वैराजाः। ते ये विंशतिप्रतिष्ठानाः पशवो वैराजास् तान् एवैतेनावरुन्द्धे। चतुर्विंशम् अग्निष्टोमसाम। चतुष्पादा वै पशवो वैराजाः। ते ये चतुष्पादाः पशवो वैराजास् तान् एवैतेनावरुन्द्धे। अथो चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरेणैवैनत् - ॥2.273॥


- तत् परिगृह्यैतस्मिन् द्वितीये ऽहन्न् आलभन्ते। तद् एतद् एकविंशं द्वितीयम् अहर् भवत्य् एकस्तोमम्। द्वादश मासाः, पञ्चचर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। यथा ह वै दृढा मेधी निहतैवम् एकविंश स्तोमानाम्। तस्मिन्न् एतान् पशून् आलभन्ते - हस्तिनं परमं प्लुषिम् अवमम्। तान् पर्यग्निकृत्वैकान् लभन्त, उद् एकान् सृजन्ते। ब्रह्म वा अग्निः। ब्रह्मणैवैनांस् तत् पर्यग्निकृत्वैकान् लभन्त, उद् एकान् सृजन्ते। तस्य महानाम्न्यः पृष्ठं भवन्ति। नो ह्य् एतान् अन्यन् महानाम्नीभ्यः पृष्ठं पशून् उद्यन्तुम् अर्हति। तास् सप्तपदा भवन्ति - सप्त वै ग्राम्याः पशवो - ग्राम्याणाम् एवं पशूनाम् अवरुद्धयै। अति सप्तमं पदं भवत्य् आरण्यानाम् एव पशूनाम् अवरुद्धयै। तस्य पार्थुरश्मं ब्रह्मसाम भवत्य् अथकारेण समृद्धम्। अथग् अथग् इतीव ह्य अश्वो धावति। अथो पुथुर् वाव रश्मिर् अश्वं यन्तुम् अर्हति। तद् उ पांक्तं भवति। पांक्तं हि महानाम्नीनां ब्रह्मसाम। तस्यैकविंशतिर् यूपा भवन्य् एकविंशत्यरत्नयः। नो ह्य् एतान् अनेकविंशतिर् यूपाः पशून् उद्यन्तुम् अर्हन्ति। षड् बैल्वा द्वादश खादिराः पौतुद्रवाव् अभितो - ऽग्नेर् वा एतच् छरीरं यत् पूतुद्रु - राज्जुदाल एकविंशतिः। सो ऽग्निष्ठः। प्रजापतिर् वा एष वृक्षाणां यद् राज्जुदालः। तस्य यानि फलानि शिश्नान्य् एव तानि। अथ य श्लेष्मा रेत एव तत्। प्रजापतिर् वै पिता, आदित्यः पुत्रः। सर्वस्तोमो ऽतिरात्रो भवति, सर्वेषां लोकानाम् अभिजित्या अभिक्रान्त्यै। सर्वं हीदं स्तोमा एव। अथो यान् इमान् नानेकैकान् स्तोमान् उपागाम तान् सार्धम् ऋद्ध्वा तेषु प्रतिष्ठायोदृचम् अश्नवामहा इति॥2.274॥


अथैष गोविनतश् छन्दोमपवमानः। पशुक्रामो हैतेन यजेत। तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् च। तद् ये ह वा अयुज स्तोमास् तान् म्राम्याः पशवो ऽन्व्, अथ ये युग्मन्तस् तान् आरण्याः। पशवो वै छन्दोमाः। स यो हैवं विद्वाञ् छन्दोमपवमानेन यजेत उभयान् एव पशून् अवरुन्द्धे ये च ग्राम्या ये चारण्याः। अथैतद् एकविंशपृष्ठं द्वितीयम् अहर् भवति। यैवासाव् एकविंशस्य प्रशंसा न उपाप्तासद् इति। तद् एवैतस्य ब्राह्मणम्। तस्मिन्न् एतम् अश्वं मेध्यम् आलभन्ते। यद् व् एवैतद् एकविंशपृष्ठं तस्माद् गोविनतः। त्रयस्त्रिंशं पुनरभ्यावर्ति तृतीयस्याह्नो भवति। त्रयस्त्रिंशद् वै देवतास्, त्रयस्त्रिंशद् देवलोकाः। तान् एवैतद् अन्तत आप्त्वाभ्यारोहन्ति। अथ यस्यैतस्य पञ्चदशो ऽग्निष्टोमः, पञ्चदश उक्थ्यः, पञ्चदशो ऽतिरात्र इति। क्षत्रकामो हैतेन यजेत। क्षत्रम् अश्वः, क्षत्रं पञ्चदशः, क्षत्रं यज्ञः। एष तत् तत्सलक्ष्म क्रियते। तेन हैतेनर्षभो याज्ञतुर ईजे श्वैत्नो राजैकराट्कामः। स हेष्ट्वैकराड् आस श्वित्नानाम्। स य श्रीकाम स्यात् स एतेन यजेत। क्षत्रं श्रीः। क्षत्रयज्ञ एषः। अश्नुते श्रियम्॥2.275॥


अथ यस्यैतस्य त्रिवृद् अहः पञ्चदशी रात्रिस्, त्रिवृद् अहः पञ्चदशी रात्रिस्, त्रिवृद् अहः पञ्चदशी रात्रि, स्वर्गकामो हैतेन यजेत। दत्वश् च ह सौतेमनसो मित्रविच् च दंष्ट्रद्युम्नस्, तौ ह प्रतिदर्शस्य वैभावतस्य श्वैत्नस्य राज्ञो ब्रह्मचारिणाव् आसतुः। तयोर् ह मित्रविद् दंष्ट्रद्युम्न आचार्यकर्म चकार। गा ह स्म रक्षति। अथ हेतरो ऽध्यायम् एव चचार। तौ ह स्म सायं समागत्यान्योन्यम् आहतुर् - आहर सोम्यानूक्ते हस्तं निधास्याव; आहर सोम्य सुचरिते हस्तं निधास्याव इति। अथ ह दत्वं सौतेमनसम् आचार्यो ऽनुशशास। तौ ह सायं समागत्यान्योन्यम् आहतुर् - आहर सोम्यानूक्ते हस्तं निधारयाव; आहर सोम्य सुचरिते हस्तं निधास्याव इति। नेति होवाच। अति वा अहं त्वद् अमुख्य, आचार्यप्रशिष्टो वा अहम् अस्मीति। स ह तां रात्रिम् अप्रियविद्ध उवास। श्वोह भूते गा अन्वियाय। तं ह गौर् ईक्षित्वैव विजज्ञाव् - अप्रियं वा अस्येति॥2.276॥


सा होवाच - वेद वै यत् ते ऽप्रियम्। मा ते ऽप्रियं भूत्। एह्य् अहं तुभ्यं देवयानं पन्थानं वक्ष्यामीति। तथेति। तं हास्मा उवाच। तौ ह सायं समाजग्मतुः। स होवाच - दत्वेहीदम्, आचार्यप्रशिष्टो ब्रूषे। पश्यसि त्वं देवयानं पन्थानम् इति। नेति होवाच। अथ वा अहं पश्यामीति। तं वै मे ब्रूहीति। तथेति। तं हास्मा उवाच। तस्माद् उ ह राजन्यबन्धुर् एव ब्राह्मणात् सुहृदयतरः। स ह दत्वः सौतेमनस उवाच - पश्यसि वै त्वं देवयानं पन्थानम्, एहि स्वर्गं लोकम् अयावेति॥2.277॥


नेति होवाच। दानेन वा वै श्रमेण वैतं प्रजानन्न् एति। हन्त नु ददाव वा श्राम्याव वेति। स ह मित्रविद् दंष्ट्रद्युम्नो गोआयुर्भ्याम् एव संवत्सरम् इयाय। स होपरिष्टाद् एव संवत्सरस्य स्वर्गं लोकम् इयाय। अथ ह दत्वस् सौतेमनस एतेनैव त्रिरात्रेणेष्ट्वा स्वर्गं लोकम् इयाय। तेन हैतेनेष्ट्वैव स्वर्गं लोकम् एति। एतेनो एव हिरण्यदन् वेद ईजे द्वन्द्वकामः। यद् इदम् गो अश्वं हस्तिहिरण्यम् अजाविकं व्रीहियवास् तिलमाषा इति, तद् धास्य बह्व आस। स यो हैवं विद्वान् एतेन द्वन्द्वकामो यजते, बहु हैवास्यैतद् भवति॥2.278॥


अथैषो ऽन्तर्वसुः। खण्डिकश् च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते। स ह खण्डिकः केशिनम् अभिबभूव। स ह केशी खण्डिकेन निबाढ उच्चैःश्रवसं कौवयेयं जगाम कौरव्यं राजानां मातुर् भ्रातरम्। तं होवाच - यज्ञं मे विधेहीति। तथेति होवाच। कथं ते विधास्यामि। यथास्मिन् लोक ऋध्नोती3, यथा हो अमुष्मी3न् इति। यथास्मिन्न् इति होवाच। स होवाचोत नु स यज्ञं पृच्छति यो यज्ञस्सहयं न वेदेति। कथा हेति। अमुष्मै ह्य् एव लोकाय यज्ञो नास्मा इति। नेति होवाच। खण्डिको वै त्यम् औद्भारिर् अभ्यभूत्। स यथा तम् अभिभवाम्य् एवं मे विधेहीति। तस्मा एतम् अन्तर्वसुं विदधौ। सर्वस्तोमो ऽग्निष्टोमः। इत - ऊर्ध्व - छन्दोमविधं मध्यमम् अहश् - चतुर्विंशं प्रातस्सवनं, चतुश्चत्वारिंशं माध्यंदिनं सवनम्, अष्टाचत्वारिंशं तृतीयसवनम्। सर्वस्तोमो ऽतिरात्रः परस्तात् प्रत्यङ्। ब्रह्म वै चतुर्विंश, क्षत्रं चतुश्चत्वारिंशो, विड् अष्टाचत्वारिंशः। संवत्सरो वै सर्वस्तोमः। तम् एताभ्याम् एव सर्वस्तोमाभ्याम् एतां त्रयीं विशं परिगृह्यात्मन् दधे। तस्यै ह श्रियं जगाम॥2.279॥


ततो वै स खण्डिकं निस्सारयांचकार। ततो वै केशी दार्भ्यो ऽभवत्, परा खण्डिकः। भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद। स य श्रीकाम स्यात्, स एतेन यजेत। एताभ्याम् एव सर्वस्तोमाभ्याम् एतां त्रयीं विशं परिगृह्यात्मन् धत्ते। तस्यै ह श्रियं गच्छति।

अथैष पराकः। स्वर्गकामो हैतेन यजेत। तस्य पराञ्च्य् एव स्तोत्राणि भवन्ति, पराञ्चि शस्त्राणि, पराञ्चि पृष्ठानि, पराचीर् विष्टुतयः, पराङ् एव सर्वो भवति। तेन हैतेनोच्चैःश्रवाः कौवेयाय ईजे स्थविरो राजा कौरव्यः। स हेष्ट्वैव स्वर्गं लोकम् इयाय। तेन हैतेनेष्ट्वैव स्वर्गं लोकम् एति। अथ यस्यैतस्य ज्योतिर् अग्निष्टोमो ज्योतिर् उक्थ्यो ज्योतिर् अतिरात्र इति ब्रह्मवर्चसकामो हैतेन यजेत। ज्योतिर् इव ह वै स भाति यो ब्रह्मवर्चसम् ऋध्नोति। ऋध्नोति हैनेन ब्रह्मवर्चसं, ब्रह्मवर्चसी भवति। अथ यस्यैतस्य सप्तदशो ऽग्निष्टोमस्, सप्तदश उक्थ्यस्, सप्तदशो ऽतिरात्र इति प्रजापतेर् अश्वमेधः। प्रजननकामो हैतेन यजेत। अथ यस्यैतस्यैकविंशो ऽग्निष्टोम, एकविंश उक्थ्य, एकविंशो ऽतिरात्र इत्य् आदित्यस्याश्वमेधः। स्वर्गकामो हैतेन यजेत॥2.280॥