जैमिनीयं ब्राह्मणम्/काण्डम् १/३०१-३१०

विकिस्रोतः तः
← कण्डिका २९१-३०० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ३०१-३१०
[[लेखकः :|]]
कण्डिका ३११-३२० →

तान्य् एतानि निधनानि न समर्पयेत्। न स्वारे सह कुर्यात्। प्राणस् स्वरः। प्राणेन तत् प्राणं समर्पयेत्। प्रमायुको यजमानस् स्यात्॥

यन् निधने सह कुर्यात् - वज्रो वै निधनम् - वज्रेण तद् वज्रं समर्पयेन् महासंग्रामस् तस्मिन्न् अर्धे संनिधीयेत दण्ड उद्गातारम् ऋच्छेद् इषुर् यजमानम्॥

यद् ऐळे सह कुर्यात् -- पशवो वा इळा -- पशुभिस् तत् पशून् समर्पयेन् महादेवस् तस्यार्धस्य पशून् शमयेत् सर्वज्यानिम् उद्गाता जीयेतावृत्तिं यजमानो नीयात्॥

यद् ऋक्समे सह कुर्यात् पत्नी वास्य प्रमायुका स्याद् अन्त्यो वा मृत्युर् यजमानं हन्यात्। एष ह वा अन्त्यो मृत्युर् यद् अहन् नंष्ट्रः--॥1.301॥


--शार्दूलस् तस्करः। तस्माद् एतानि निधनानि न समर्पयेन् नेद् असानीति॥

एतान्य् उ ह वै चत्वारि सामानि चतुरार्षेयाणि। तद् उ वा आहुः को हाप्रमादस्येश उत वै प्रैव माद्यतीति। स यदि स्वारे सह कुर्यात् - - प्राणस् स्वरः -- प्राण एवैतत् प्राणं भूयांसम् अकृषि ज्योग् जीविष्यामीत्य् एव तत्राध्यायेत्॥

(तत्) सह कुर्यात् - प्रजा वै तत् -- प्रजायाम् एवैतत् प्रजां प्रत्यतिष्ठिपं प्रजावान् एतेन भविष्यामीत्य् एव तत्राध्यायेत्॥

अथ वज्रो वै निधनम्। वज्रम् एवैतद् द्विषते भ्रातृव्याय प्राहर्षम् इति॥

यद् एवैळे सह कुर्यात् -- पशवो वा इळा -- पशुष्व् एवैतत् पशून् भूयसो ऽकृषि बहुपशुर् भविष्यामीत्य् एव तत्राध्यायेत्॥

ऋक्समे सह कुर्यात्। प्रजननं वा ऋक्समम्। प्रजनन एवैतत् प्रजननं भूयो ऽकृषि जायां जायायाम् अभ्यावक्ष्ये बहुर् भविष्यामि प्रजनिष्य इत्य् एव तत्राध्यायेत्। तथा हैनं तन् नात्येति॥

स य एनम् एवं चकृवांसम् उपमीमांसेत तं ब्रूयात् साध्व् एवाहम् एतद् वेद नासाधु। स यत् त्वम् अत्रासाधु वेत्थ तुभ्यम् एव तद् भविष्यति। यद्य उ वै पुरा साम्नार्त्विज्यं चकर्थ जाम्य् उ एव त्वया तत् कृतम् इति। स एवार्तिम् आर्छति य एवं विद्वांसम् उपवदति॥1.302॥

अथैतेभ्यस् त्रिभ्यो रूपेभ्यो मध्यंदिनान् नेयाद् अन्धस्वतो मरुत्वतः प्रत्नवतः। अन्नं वा अन्धो वीर्यं मरुतस् स्वर्गो लोकः प्रत्नः। यद् अन्धस्वत इयाद् अन्नाद्यात् तद् इयात्। यन् मरुत्वत इयाद् वीर्यात् तद् इयात्। यत् प्रत्नवत इयात् स्वर्गात् तल् लोकाद् इयात्। स यद्य् एतेषां सर्वेषाम् अवकाशं न विन्देन् मरुत्वत एव नेयात्। वीर्यं वै मरुत्वतः। वीर्येण वै कर्म क्रियते वीर्येण सर्वम् अभ्यश्नुते। तस्मान् मरुत्वत एव नेयाद् इति॥

अथैतां स्वरेण गायत्रीम् अभ्यारोहति। प्राणस् स्वरः। प्राणेनैवैतत् प्राणम् अभ्यारोहति। न वै प्राणः प्राणं हिनस्ति। स यत् स्वरेण गायत्रीम् अभ्यारोहति प्राणम् एव तत् प्रथमतो यज्ञस्य दधाति। तस्माद् अयं प्राणः प्रथमतो हितः॥

अथो आग्नेयम् एतद् देवतया यत् स्वारम् । आग्नेयम् एतच् छन्दो यद् गायत्री। अग्निनैव तद् अग्निम् अभ्यारोहति। अग्निर् वै पथिकृद् देवतानाम्। येन वै केन चाग्निर् एति पन्थानम् एव कुर्वन्न् एति। स यत् स्वरेण गायत्रीम् अभ्यारोहत्य् अग्निम् एव तत् पथिकृतं प्रथमतो यज्ञस्य युनक्ति। सो ऽग्निनैव कृतं पन्थानम् अन्वेति। स यथा पथा यन्न् एवम् एव स्वस्त्य् अरिष्ट उदृचं समश्नुते य एवं विद्वान्स्वरेण गायत्रीम् अभ्यारोहति॥1.303॥


निधनेन द्वितीयेनाभ्यारोहति। इन्द्रो वै निधनम्। इन्द्रो वै श्रेष्ठी देवतानाम्। यत्र वै श्रेष्ठी ग्रामाग्रं प्रतिपद्यते न वै तत्र रिष्टिर् अस्ति। सो ऽरिष्टस् स्वस्त्य् उदृचं समश्नुते य एवं विद्वान् निधनेन द्वितीयेनाभ्यारोहति॥

अथो एतौ ह वा आशिष्ठौ देवतानां यद् इन्द्राग्नी। स यथाशिष्ठौ वहिष्ठौ वृत्वोपयुञ्जीत तादृक् तत्॥

अथैताम् इळया बृहतीम् अभ्यारोहति। पशव इळा पशवो बृहती। पशुभिस् तत् पशून् समाकरोति। भूयो वै पशवः पशुभिस् समाकृताश् शोभन्त इति॥

स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् - वज्रं पशुषु विवर्तयेत्। स यद् इळाया अवकाशान् न विन्देत् स्वरेणाभ्यारोहेत्। प्राणस् स्वरः पशवो बृहती। प्राणम् एव तत् पशुषु दधाति॥

अथैनत् त्रिणिधनं द्वितीयं भवति। त्रयो वा इमे लोका वज्रा एते। यन् निधनान्य् एभ्यो लोकेभ्य एतैर् वज्रैस् सर्वं पाप्मानम् अपहते। अथो हास्यैत एव वज्रा एषु लोकेषु सर्वं पाप्मानम् अपसेधन्तस् तिष्ठन्ति। अथो त्रीणि यज्ञस्य छिद्राणि। तद् द्वे अपि यत् तस्य आयतन एकं भवति॥1.304॥


अथैतां स्वरेण त्रिष्टुभम् अभ्यारोहति। प्राणस् स्वरः। पुरुषसंमित एष यत् पवमानः। स्वारं पुरस्ताद् भवति स्वारम् उपरिष्टात्। ताव् इमौ पुरुषस्य प्राणापानौ विपर्यूढौ। ताभ्यां विष्वञ्चि स्वरति॥

अथ रथन्तरम्। रेतस्सिक्तिर् एव सा॥
अथ वामदेव्यं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥
अथ नौधसं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥
अथ कालेयम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥
अथार्भवस्य पवमानस्य गायत्र्य् उक्तब्राह्मणा॥
अथैता स्वरेण ककुभम् अभ्यारोहति। प्राणस् स्वरो विवृहः ककुप्। विवृह एव तत् प्राणं दधाति। स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् -- यथोपतापिनं दण्डेन हन्यात् तादृक् तत्। अथ यत् स्वरेणाभ्यारोहति प्राणम् एवास्याम् एतद् दधाति। भिषज्यत्य् एवैनाम् एतेन॥

अथैतां निधनेनोष्णिहम् अभ्यारोहति। वज्रो वै निधनं पशव उष्णिक्। जीर्णा इवैतर्हि तृतीयसवने पशवो भवन्ति। तस्माज् जीर्णं पशुम् आहुर् अर्थम् एनेन क्रमिंतति। अथो वज्रेणाभिपत्य शासने विकारं भुञ्जसे॥

अथ यन् निधनेन बृहतीं परिचक्षते युवान इवैतर्हि पशवो भवन्त्य् अजीर्णा इव। तस्माद् युवानं पशुम् आहुर्जीववरणी न इति॥1.305॥


अथ तां स्वरेणानुष्टुभम् अभ्यारोहति। प्राणस् स्वरो वाग् अनुष्टुप्। तद् वै दैव्यं मिथुनं यद् वाक् च प्राणश् च। दैव्यम् एव तन् मिथुनं दधाति। स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् - वज्रेण दैव्यं मिथुनं वीयात्। स यदि स्वरस्यावकाशं न विन्देद् वाङ् निधनेनाभ्यारोहेत्। वाग् अनुष्टुब् वाङ् निधनम्। न वै वाग् वाचं हिनस्ति॥

अथैतन् मध्येनिधनं द्वितीयं भवति। वाग् वा अनुष्टुप्। तद् वाचो ऽनुष्टुभो मध्ये निधनं भवति। रेतस्सिक्तिर् एव सा। तत् सहिंकारं भवति। नाभिर् वै हिंकारः। नाभ्यो ह वै धृता गर्भा अवाचीनबिलेभ्यो नावपद्यन्ते। नाभिधृता ह वै गर्भाः॥

तस्यैतद् दशाक्षरं मध्येनिधनं भवति। दशाक्षरा विराड् अन्नं विराट्। एतद् ध वै तद् गर्भा अन्नम् अनश्नन्त उपजीवन्ति॥

अथैतां स्वरेण जगतीम् अभ्यारोहति। प्राणस् स्वरः। पुरुषसंमित एष यत् पवमानः। स्वारं पुरस्ताद् भवति स्वारम् उपरिष्टात्। ताव् इमौ पुरुषस्य प्राणापानौ विपर्यूढौ। ताभ्यां विष्वञ्चि स्वरति॥

अथ यज्ञायज्ञीयम्। रेतस्सिक्तिर् एव सा॥

अथ साकमश्वं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥

अथ सौभरं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥

अथ नार्मेधम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥

एवं प्रथमः पर्याय एवं द्वितीय एवं तृतीयः॥1.306॥


त्रीणि ह वै निधनानीळा स्वरो निधनम् एव निधनम्। अथ यद् ऋक्समं स्वारं वाव तन् मन्यन्ते। समाना ह्य् ऋक्समस्य च (स्वारस्य च) जाम्यजामिता। अयं वै लोक इळा पशव इळा पशवो ऽयं लोकः। इदम् एवान्तरिक्षं स्वरः प्राणस् स्वरः। प्राणो वा अन्तरिक्षम्। असाव् एव लोको निधनं गतिः प्रतिष्ठा। तान्य् उ ह वै यो जामि यथापूर्वं कल्पयेत्। ऐळम् एव प्रथमं कुर्यात्। अथ स्वारम् अथ निधनवत्। एवं हीमे लोका यथापूर्वम्। आत्मा ह खलु वै निधनम्। प्राणस् स्वरः। पशव इळा। तद् यद् ऐळं च निधनवच् चान्तरेण स्वारं क्रियते तथा हास्यैतानि सर्वाणि प्राणसंततानि भवन्ति। मध्यतो ह्य् अयं प्राणः प्रजाः पशून् भुवनानि विवस्ते॥

अथ ह वै यद् बृहद्रथन्तरे सामानि व्यभजेताम् -- ॥1.307॥


-- तानि राथन्तराण्य् एवान्यान्य् आसन् बार्हतान्य् अन्यानि। अथ येषु समपादयेतां तानि राथन्तरबार्हतानि चाभवन् बार्हतराथन्तराणि च॥

तद् यद् ऋचा प्रस्तावम् अन्तर्निधनं तद् राथन्तरम्। अथ यत् पुरस्तात् स्तोभं बहिर्निधनं तद् बार्हतम्। अथ यद् ऋचा प्रस्तावं बहिर्निधनं तद् राथन्तरबार्हतम्। अथ यत् पुरस्तात् स्तोभम् अन्तर्निधनं तद् बार्हतराथन्तरम्॥

तद् आहुः कति सामानीति। चत्वारीति ब्रूयात्। चत्वार्य् अह वैव सामानि राथन्तरं बार्हतं राथन्तरबार्हतं बार्हतराथन्तरम्। तान्य् उ ह वै यो जामि यथापूर्वं कल्पयेद् राथन्तरम् एव प्रथमं कुर्याद् अथ बार्हतम् अथ राथन्तरबार्हतम् अथ बार्हतराथन्तरम्। तद् उ चतुर्णां साम्नां षड् रूपाणि व्यतिषजति। सर्वे ह खलु वै निधना जामि कल्पयति यो वै रूपा जामि कल्पयेत्॥1.308॥


तत् सुक्लृप्तिः। निधनवता गायत्रीम् आरभेत वीर्यं निधनं वीर्यं गायत्री। वीर्येण तद् वीर्यं समृद्धयति॥

ऐळेन बृहतीम् आरभेत। पशव इळा पशवो बृहती। पशुभिस् तत् पशून् समृद्धयति॥

स्वारम् अन्त्यं भवति। प्राणस् स्वरः प्राणो ऽन्त्यम्। सर्वम् आयुर् एति य एवं वेद॥

निधनवद् रथन्तरं वा बृहद् वा पृष्ठं क्रियते। वीर्यं निधनं वीर्यं पृष्ठम्। वीर्येण तद् वीर्यं समृद्धयति॥

स्वारं मैत्रावरुणसाम। प्राणस् स्वरः प्राणो मैत्रावरुणसाम॥

द्व्यक्षरणिधनं ब्रह्मसाम। द्वन्द्वं प्रतिष्ठा प्रतिष्ठा ब्रह्मसाम॥

ऐळम् अच्छावाकसाम। पशव इळा पशवो ऽच्छावाकसाम॥

अन्तर्निधनेन रथन्तरसाम्नार्भवस्य गायत्रीम् आरभेत। बहिर्निधनेन बृहत्साम्ना॥

स्वरेण ककुभम् आरभेत। प्राणस् स्वरः। विवृह एव ककुप्। विवृह एव तत् प्राणं दधाति॥

ऐळेन वा निधनवता वोष्णिहम् आरभेत। वीर्यं निधनं वीर्यम् उष्णिक् । पशव इळा पशव उष्णिक्। येनैव कामयेत तेन ताम् उपेयात्॥

स्वरेणानुष्टुभम् आरभेत। प्राणस् स्वरो वाग् अनुष्टुप्। प्राणेनैवैतद् वाचम् अनुसंतनोति प्राणेन वाचम् आरभते॥

स्वारम् अन्त्यं भवति। प्राणस् स्वरः प्राणो ऽन्त्यम्। सर्वम् आयुर् एति य एवं वेद॥1.309॥


वाङ्निधनं यज्ञायज्ञीयम् अन्ततः क्रियते। तद् एतत् सर्वं यज्ञं समिष्टं वाच्य् एव संनिधत्ते न हास्येष्टापूर्तं प्रमीयते य एवं वेद। नो हि वाचः प्रमयो ऽस्ति॥

मरुत्वन् मध्यंदिनान् नान्तर्यात्। तेन हि स रूपी तेन वीर्यवान्। गायत्रीषु रथन्तरसाम्नः कुर्यात् त्रिष्टुप्सु बृहत्साम्नस् त्रिणिधनं बृहत्याम् उत्तमं करोति। यद् एवात्र यज्ञस्य विधुरं भवति तद् एव तेन शमयन्ति॥

महद् अन्धस्वद् आर्भवान् नान्तर्यात्। तेन हि स रूपी तेन वीर्यवान्। गायत्रीषु रथन्तरसाम्नः कुर्याद् अनुष्टुप्सु बृहत्साम्न ऐळं मध्येनिधनम् अनुष्टुभ्य् उत्तमं करोति। यद् एवात्र यज्ञस्य विधुरं भवति तद् एव तेन शमयति॥

तद् यन् मरुत्वच् च त्रिणिधनं च मध्यंदिनान् नान्तरेति यदि च मद्वद् अन्धस्वद् यदि चैळं मध्येनिधनम् आर्भवान् नान्तरेति तथा हास्यैतानि सर्वाण्य् अनन्तरितानि भवन्ति॥

अथ है वै नैकर्चे गायत्रं कुर्यात्। ऐळं मध्येनिधनम् अनुष्टुभ्य अकाम एवैते त्रिवृति स्तोम एकर्चयोः कुर्यात्। ये एवैते उष्णिक्ककुभोस् सामनी ते वैव तृचयोः कुर्यात् ते वैकर्चयोः। नो तु तृचैकर्चं नाम। न वा ऋक्तो न सामतो ऽन्त्यम् एकर्चाय तत्स्थानं नार्भवस्य गायत्री नाग्निष्टोमसाम॥1.310॥