सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/२९१-३००

विकिस्रोतः तः
← कण्डिका २८१-२९० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका २९१-३००
[[लेखकः :|]]
कण्डिका ३०१-३१० →

रथन्तरसाम्ना यष्टव्यां3 बृहत्साम्ना3 इति मीमांसन्ते। रथन्तरसाम्नेति हाहुस् सावयसाः। इदं रथन्तरम् इदं विद्म। को विदिताद् अविदितम् उपेयात्। यथा ह वै कूपस्य खातस्य गम्भीरस्य परस् तमिस्रम् अव ददृश एवं ह वै शश्वत् परस्ताद् अन्तरिक्षस्यासौ लोकः। तत् कस् तद् वेद यदि तत्रास्ति वा न वा। अद्य् उ ह वै शश्वद् अस्मिन्न् एव लोके ऽसौ लोक उपजीवति। स यो ऽपि दश कृत्वो यजेत रथन्तरसाम्नैव यजेतेति॥

बृहत्साम्ना यष्टव्यम् इत्य् आहुर् आरुणिसात्ययज्ञयो ऽदो बृहत्। तद् अद उत्क्रान्तम् अपहतपाप्मं श्वोवसीयसं नाधिष्ठीवन्ति नाधिचरन्ति नाध्यासते। बहुर् इमं लोकम् अपवदति बहुर् अवमोंसत उभाव् अस्मिन् जीवतः पुण्यकृच् च पापकृच् च। अथाह उत्क्रान्तम् अपहतपाप्मं श्वोवसीयसम्। नामुष्मिन् पापकृज् जीवति। अध्य् उ ह वै शश्वद् अमुष्मिन्न् एव लोके ऽयं लोकः। अमुतः प्रदानाद् ध्य् अयं लोको जीवति। य़ा ह्य् अमुतो वृष्टिः प्रदीयते ताम् अयं लोक उपजीवति। स यो ऽपि दश कृत्वोय जेत बृहत्साम्नैव यजेतेति॥

उभयसाम्ना यष्टव्यम् इति ह स्माह शाट्यायनिर् एतयोर् उभयोः कामयोर् उपाप्त्यै। तथेति ताव् उभौ कामाव् उपाप्नोतीति। तद् अस्यैतत् साम कृत्स्नं युक्तं यज्ञं वहति॥1.291॥


तस्य गायत्रम् एव हिंकारो रथन्तरं प्रस्तावो वामदेव्यम् उद्गीथो बृहत् प्रतिहारो यज्ञायज्ञीयं निधनम्। एकैकम् उ ह वा एतेषां स्वर्गस्य लोकस्येशे। अश्नुते स्वर्गं लोकं य एवं वेद॥

अथो हैतद् एवार्क्यम् एतन् महाव्रतम्। तस्य गायत्रम् एव शिरो बृहद्रथन्तरे पक्षौ वामदेव्यम् आत्मा यज्ञायज्ञीयं पुच्छम्। स यावद् अर्क्यवता महाव्रतवतावरुन्द्धे तावद् अवरुन्द्धे य एवं वेद॥

अथो हैषायुष्यैव क्लृप्तिः। आयुर् वै गायत्रं विश्वायू रथन्तरं समायुर् वामदेव्यं सर्वायुर् बृहद् अत्यायुर् यज्ञायज्ञीयम्। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः॥

अथो हास्यैतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु। अग्निर् एव रथन्तरस्य वायुर् वामदेव्यस्यादित्यो बृहतश् चन्द्रमा गायत्रस्य विद्युद् यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्। एतान्य् अस्य पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते य एवं वेद॥1.292॥


यो वै बृहद्रथन्तरयोर् अन्तवच् चानन्तं च वेदान्तं हि श्रियै परिगृह्णात्य् अनन्तं स्वर्गं लोकं जयति। इयं वै रथन्तरम्। तस्या अस्यै समुद्रो ऽन्तः। अदो बृहत्। तस्या अमुष्या अन्तो नास्ति। एवं ह वा एतत् परेणापि समुद्रं ददृशे। स य एवम् एते बृहद्रथन्तरयोर् अन्तवच् चानन्तं च वेदान्तं हि श्रियै परिगृह्णात्य् अनन्तं स्वर्गं लोकं जयति॥

यो वै बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति।
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः।
ईशानम् अस्य जगतस् स्वर्दृशम् ईशानम् इन्द्र तस्थुषः॥
इति स्तोम्या।
न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते।
इति स्तोत्रिया।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे॥
इति याचितम् इवैतया वीर्यम् इव प्रोक्तम्। स य एवम् एते बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति। अथो हास्यैतेनैव विज्ञानेन सर्वे तृचा विज्ञाता भवन्ति॥1.293॥


बृहद्रथन्तरे वा असृज्येताम्। तद् अनु पशवो ऽसृज्यन्त। ये राथन्तरा आसन् रथन्तरं ते ऽन्वृज्यन्त ये बार्हता बृहत् ते। तान् समद् अविन्दत्। तद् व्यवभिन्दानम् अतिष्ठत्। ते अब्रूताम् इत्थं चेद् वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम्। हन्त रूपाणि व्यतिषजावहा इति। ते रूपाणि व्यत्यषजेताम्। या राथन्तरी वाग् आसीद् बार्हतान् सा पशून् आविशद् या बार्हती राथन्तरान् सा। गौर् वै राथन्तरी नीचीव न्युब्जिता। सा बार्हतीं वाचं वदति भा इति पराचीम् एव। अविर् वै राथन्तरीं वाचं वदति क्रन्देन । अजा[] वै बार्हत्य् ऊर्ध्वेवाक्रान्ता। सा राथन्तरीं वाचं वदति -- ॥1.294॥

अवि क्रन्दनम्
अजा माक्कारम्


--माक्ककारेण। ते पुरुषे न समपादयेताम्। ते अब्रूताम् उभे इमम् आविशावेति। तथेति। तम् उभे आविशताम्। तस्मात् पुरुष उभयीं वाचं वदति या च राथन्तरी या च बार्हती। ते ये राथन्तराः पशवो राथन्तरीम् अस्य ते वाचं पश्यन्त उपतिष्ठन्ते ये बार्हता बार्हतीं ते। पुरुषो वै बृहद्रथन्तरयोस् संक्रोशः। स य एतद् एवं वेद पुरुषो बृहद्रथन्तरयोस् संक्रोश इत्य् उभे हास्मिन् पशवस् संक्रोशन्ते ये च राथन्तरा ये च बार्हताः। स यो ह स बृहद्रथन्तरयोस् संक्रोशः पुरुषो य एवं वेदैवंविदो वैनयोस् संक्रोशः॥1.295॥


आरुणिं ह यान्तम् उदीच्याः परिप्रजिघ्न्युर् आरुणआरुणे कियता बृहद्रथन्तरे प्रजाः प्रजनयतः कियता देवयशसम् आनशाते इति। तद् ध न प्रत्युवाच। स होवाच वेदाहम् एतद् यन् मे ब्रह्म लिप्सध्वे तद् व् एवाहं युष्मभ्यं न वक्ष्यामीति। तम् उ हान्तेवासिन ईक्षांचक्रिरे ऽमेधयेदम् इत्थं प्रत्यवोचद् अनवगतम् अह स्विद् अस्याभूद् धन्तैनं पृच्छाम इति। तं होचुर् यत् प्रत्यवक्ष्यः कथं प्रत्यवक्ष्य इति। स होवाच यद् अष्टाक्षरेण प्रथमस्या ऋचः प्रस्तौत्य् अष्ठाशफांस् तेन पशून् प्रजनयतः। यद् द्व्यक्षरेणोत्तरयोर् द्विपदस् तेन। निधनेनैव देवयशसम् आनशाते इति प्रत्यवक्ष्यम् इति होवाच यत् प्रत्यवक्ष्यम् इति॥

यो वै बृहद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्। ऊर्ध्वा वै रथन्तरस्य देवहूतिर् अर्वाची बृहतः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्योर्ध्वम् इव प्रस्तौति तस्माद् अयम् ऊर्ध्वो लोक ऊर्ध्वो ऽयम् अग्निर् दीप्यत ऊर्ध्वा ओषधय ऊर्ध्वा वनस्पतयस् सर्वम् एवोर्ध्वम्। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्यौ हो इत्य् अर्वाङ् प्रस्तौति तस्माद् असाव् अर्वाङ् लोको ऽर्वाङ् असाव् आदित्यस् तपत्य् अर्वाङ् चन्द्रमा अर्वाञ्चि नक्षत्राण्य् अर्वाची वृष्टिर् एति सर्वम् एवार्वाक्। स य एवम् एते बृद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्॥1.296॥


बृह्द्रथन्तरे वा असृज्येताम्। तद् अनु पशवो ऽसृज्यन्त। ये राथन्तरा आसन् रथन्तरं ते ऽन्वसृज्यन्त ये बार्हता बृहत् ते। ते ये राथन्तराः पशवस् त आद्या अथ ये बार्हतास् ते ऽत्तारः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्य प्रस्तौति तस्माद् राथन्तराः पशवो ऽस्थिप्रतिष्ठाना आद्याः। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्य प्रस्तौति तस्माद् बार्हताः पशवो मांसप्रतिष्ठाना अत्तारः। अत्तुर् हास्य सतो बह्व् आद्यं भवत्य् आस्माद् अत्ता वीरो जायते य एवं वेद॥

बृहद्रथन्तरे वै मध्यतः प्रजासु गर्भान् धत्तः। तस्माद् यज्ञायीयेनैवान्ततः प्रजनयतः। तद् यद् अष्टाक्षरेण प्रथमस्या ऋचः प्रस्तौत्य् अष्टाशफांस् ते पशून् गर्भान् धत्तः। यद् द्व्यक्षरेणोत्तरयोर् द्विपदस् तेन। तद् यद् एवंविदा यज्ञायज्ञीयम् अन्ततः क्रियते जन्मैव तत्। प्रैव तेन जनयति। तस्माद् यज्ञायज्ञीयस्य स्तोत्रे वरं दद्यात्। यथा पुत्रे जाते वरं ददाति तथा। तद् धि यजमानस्य जन्म। अथ या एता अपः पत्न्य् उपप्रवर्तयति या एव तत्र वस्तेर् भिद्यमानस्यापो यन्ति ता एव ताः। अथो अन्नं वा आपः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्। तद् उ वाङ्निधनं भवति। तस्माद् उ कुमारो जायमान एव वाचम् अभिव्याहरति॥1.297॥


बृहद्रथन्तरे वा असृज्येताम्। ते समाननिधने असृज्येताम् अन्तर्निधने वा बहिर्निधने वा। ते अब्रूताम् आजिम् अनयोर् निधनयोर् अयावेति। तथेति ते आजिम् ऐताम्। तद् बृहद् उदजयत्। तद् रथन्तरं हीयमानम् अमन्यत। तद् अब्रवीन्मिथुने ऽन्ते सानुपूर्वं मे योगं प्रयच्छेति। तथेति । तद् अस्य मिथुनम् अभवत्। तस्मा एतं पूर्वं योगं प्रायच्छद् एतं पूर्वाह्णम्। पूर्वाह्णो ह वै रथन्तरस्य योगो ऽपराह्णो बृहतो अस इति ह रथन्तरस्य हस् इति बृहतः । न हैते अहर्निधने सत्यनिधने। सत्यं ह वा एतयोर् निधनम्। तस्माद् उभयसाम्ना यजमान आ सायम् एव यजेत। उभयम् एव बृहद्रथन्तरे आत्ते। स तमिति। उभे हैवास्य बृहद्रथन्तरे आत्ते भवतः॥

तद् आहुर् अन्तर्निधने3 बृह्द्रथन्तरे बहिर्निधने3 इति। उभयम् इति ब्रूयाद् अन्तर्निधने च बहिर्निधने चेति। इदं वै रथन्तरम् अदो बृहत्। तयोर् इदम् एवान्तरिक्षं निधनम्। तेनान्तर्निधने। अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण पृथिवीम् आपस् तेनो बहिर्निधने इति॥

तद् आहुर् बृहद्रथन्तरयोर् अन्तर् वामदेव्यां3 वामदेव्ये ऽन्तर् बृहद्रथन्तरे3 इति। उभयम् इति ब्रूयाद् बृद्रथन्तरयोर् अन्तर् वामदेव्यं वामदेव्ये ऽन्तर् बृहद्रथन्तरे इति। इदं वै रथन्तरम् अदो बृहत्। इदम् एवान्तरिक्षं वामदेव्यम्। तेन बृहद्रथन्तरयोर् वामदेव्यम्। अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण पृथिवीम् आपस् तेनो वामदेव्यं तेन बृहद्रथन्तरे इति॥1.298॥


प्रजापतिर् यस्माद् योनेः प्रजा असृजत - सो ऽलेलायद् एव। स दीप्यमानो भ्राजमानो ऽतिष्ठत्। सो ऽवेद् अस्ति न्वा अन्तर् इति। स देवान् अब्रवीद् अस्ति वा इदम् अन्तर् इतस् सृजध्वम् इति। सो ऽग्निर् गायत्र्या स्वाराण्य् असृजतेन्द्रस् त्रिष्टुभा निधनवन्ति विश्वे देवा जगत्यैळानि प्रजापतिर् अनुष्टुभर्क्समानि। तद् यद् गायत्रं स्वारम् आग्नेयं तद् देवतया यत् त्रैष्टुभं निधनवद् ऐन्द्रं तद् देवतया यज् जागतम् ऐळं वैश्वदेवं तद् देवतया यद् आनुष्टुभम् ऋक्समं प्राजापत्यं तद् देवतया॥

तद् उ ह स्माहेयपिस् सौमापो न बृहद्रथन्तरे यज्ञं कल्पयतः। उभे वै ते अन्तर्निधने वा बहिर्निधने वा। स्वारर्क्समे वाव यज्ञं कल्पयत इति। तद् यद् ऋच्य् अन्तस् संतिष्ठते तद् राथन्तरम् अथ यद् ऋचम् अतिस्वरति तद् बार्हतम्॥1.299॥

तद् आहुः कति सामानीति। चत्वारीति ब्रूयात्। चत्वार्य् उ ह वै सामानि स्वारं निधनवद् ऐळम् ऋक्समम्। चतस्रो दिशश् चतुष्पादाः पशवः। चत्वारि छन्दांसि यज्ञवाहा गायत्री त्रिष्टुब् जगत्य् अनुष्टुप्॥

तान्य् उ ह वै त्रीण्य् एव स्वारं निधनवद् ऐळम्। यद् ऋक्समं स्वारम् एव तत्। त्रिषवणो यज्ञस् त्रयः प्राणापानव्यानास् त्रय इमे लोकाः॥

ते उ ह द्वे एव स्वारं चैव निधनवच् च। या हीळा निधनम् एव तत्। द्वाव् इमौ लोकाव् आविष्टमाव् इव द्वौ प्राणापानौ द्विपात् पुरुषः॥

तद् उ ह वा एकम् एव स्वारम् एव। यद् धि निधनं येळा यद् ऋक्समं स्वारं एव तद् इति। तद् एतद् एकम् एव साम स्वारम् एव। य एवायं पवते तत्। याश् च ह वा अमूर् उपरि पतन्ति याश् चाधस् सर्पन्ति ता एतम् एव स्वारं प्राणम् उपजीवन्ति। स य एतद् एवं वेद सर्वम् एवायुर् एति॥

स यो हैवं विद्वान् जामि कल्पयत्य् अजाम्य् एवास्य तत् क्लृप्तं भवति। तत् तूपर्युपर्य् अजाम्य् एव चिकल्पिषेत्। अमिथुनं तद् अप्रजननं यज् जामि। यथा पुमांसो वा सह शयातां स्त्रियौ वा। किं पुमांसौ सह शयानौ प्रजनयेतां किं स्त्रियौ तौ चेन् मिथुनीकर्तारं न लभेयाताम्। अथो यद् एवाजामि तन् मिथुनं तत् प्रजननम्॥

आत्मा वै स्वरः प्रजा निधनं पशव इळा जायर्क्समम्। समानौ वा आत्मा च जाया च। त एतम् आत्मनोभयतः प्रजाः परिगृहीता अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥1.300॥


  1. अज उपरि टिप्पणी