सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/३११-३२०

विकिस्रोतः तः
← कण्डिका ३०१-३१० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ३११-३२०
[[लेखकः :|]]
कण्डिका ३२१-३३० →

त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्य् अनुष्टुप्। अत्र ह्य् एवावपन्त्य् अत उद्धरन्ति। तद् उ यथायं मध्येन पुरुषस् सुहितो वा स्याद् अशनायेद् वा तथा तत्। अथ यथेतराण्य् अङ्गानि स्थितान्य् एवम् अन्यानि स्तोत्राणि स्थितान्य् एव॥

चत्वार्य् उ ह वै सामान्य् एकर्चेभ्यो तस्थानानि बृहद्रथन्तरे वामदेव्यं यज्ञायज्ञीयम् इति। तानि यत्र क्व चानुपरिप्लवेरंस् तानि तृचेष्व् एव कल्पयेन् नैकर्चेषु। अथ ह वै नैकर्चकल्पी स्यात्। अवीर्य इव वा एष यद् एकर्चः। अयं वै लोक एकर्चः। अवच्छिन्न इव वा अयम् आभ्यां लोकाभ्याम्॥

वीर्यसंतततर इव तृचः। त्रयो वा इमे लोकाः। इमे हि लोकास् तृचः। त्रयो वा एकस्माद् वीर्यवत्तराः। एतस्माद् ध वा इदं भूयस्वी कनीयस्विनम् अतिमन्यते। या हि भूयसी गव्यूतिर् भूयस्य् ऋद्धिस् तां तृचेनर्ध्नोति। अथ या कनीयसी गव्यूतिः कनीयस्य् ऋद्धिस् ताम् एकर्चेनर्ध्नोति॥

एकर्चो ह त्वाव तृचाज् ज्यायान्। एकर्च इति त्रीण्य अक्षराणि तृच इति द्वे। यो ह त्वावैतान्य् ऋक्तृचांश् चाक्षरतृचांश् च वेदोभये मे तृचाः कृता भवन्तीत्य् उभे हैवास्य तृचाः कृता भवन्ति। अथो यद् एवर्क्साम हिंकारस् तेनास्य तृचाः कृता भवन्ति। अथो यद् एव प्रस्तावः प्रतिहारो निधनं तेनो एव तृचेभ्यो नैति॥1.311॥


प्रजापतिर् ह वा एतत् प्रातस्सवने प्रजाः प्रजनयंस् तिष्ठति यद् एतद् बहिष्पवमानम्। स ह सैव देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो लोकः॥

अथाग्नेयम् आज्यम्। स ह सो ऽभिजिद् एव स्तोमः। अग्निर् एव सः। स हीदं सर्वम् अभ्यजयत्। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥

अथ मैत्रावरुण् आज्यम्। स ह स विश्वजिद् एव स्तोमः। अहोरात्रे एव ते। अहर् वै मित्रो रात्रिर् वरुणः। तद् ये के चादित्याद् अर्वाञ्चो लोकास् तान् ह सर्वान् अहोरात्रे एवाप्नुतः। ते उ ह त्व् एवंविदो लोकं नाप्नुतः। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥

अथैन्द्रं आज्यम्। स ह स सर्वजिद् एव स्तोमः। इन्द्र एव सः। स हीदं सर्वम् अजयत्। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥

अथैन्द्राग्नम् आज्यम्। स ह स उद्भिद् एव स्तोमः। इन्द्राग्नी एव तौ। तौ हीदं सर्वम् आजिसृत्यायाम् उदभिन्त्ताम्। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥1.312॥


अथ माध्यंदिन पवमानः। स ह स धनजिद् एव स्तोमः। वायुर् एव सः। स हीदं प्राणो भूत्वा सर्वं धनम् अजयत्। तद् यद् वै किं च प्राणी जीयते तस्मिन् सर्वस्मिन्न् अपित्वी भवति य एवं वेद। ( स ह सैव देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवताये लोकस् स हैवंविदो ) लोकः॥

रथन्तरं वा बृहद् वा पृष्ठम्। स ह स श्रीर् एव स्तोमः। श्रीर् हि पृष्ठम्। स ह सैव देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो लोकः॥

अथ वामदेव्यम्। स ह सा शांतिर् एव स्तोमः। आप एव ताः। यद् ध वा इमां पृथिवीम् अग्निर् वैश्वानरो ददाह तं हाद्भिर् एव शमयांचक्रुः। उभा उ ह वा एतौ वैश्वानरौ यन् निदाघश् च शिशिरश् च। तद् यद् अन्तरेण वर्षा व्यवहिताश् शान्त्या एव। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥

अथ नौधसं वा श्यैतं वा ब्रह्मसाम। सह स सर्वच्छन्दा एव स्तोमः। ब्रह्मैव तत्। ब्रह्म हि सर्वाणि छन्दांसि। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवताये लोकस् स हैवंविदो) लोकः॥

अथ कालेयम्। स ह स रस एव स्तोमः। अन्नम् एव तत्। स यो हान्नस्य रसस्य लोकस् सो ऽस्य लोको भवति य एवं वेद। स ह सैव ( देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥

अथार्भवः पवमानः। स ह सो ऽसित एव स्तोमः। दिश एव ताः। दिशो ह वै व्युत्क्रामन्ति पाप्मा न सिषाय। न हैनं पाप्मा सिनोति य एवं वेद। स ह सैव ( देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥

अथ यज्ञायज्ञीयम्। स ह स नाक एव स्तोमः। आदित्य एव सः। एष हि न कस्मै चनाकम् उदयति। स ह सैव देवता भूत्वैतम् आस्तावम् आसादति। यो हैतस्यै देवतायै लोकस् स हैवंविदो लोकः। एतद् ध वै स्तोमेन्द्रियम्। एते ह वै स्तोमानाम् इन्द्रियावन्तः। इन्द्रियवान् भवत्य् अपित्व्य् अस्मिन् सर्वस्मिन् भवति य एवं वेद॥1.313॥


प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयताहम् एवेदं सर्वं स्याम् अहम् इदम् अभिभवेयम् इति। सो ऽअग्निर् एव भूत्वा पृतना असहत। भूमिर् भूत्वा भूतं भव्यम् अभवत्। आपो भूत्वा सर्वम् आप्नोत्। मनो भूत्वा सर्वम् अमनुत। वाग् भूत्वा सर्वं व्यभवत्। चक्षुर् भूत्वा सर्वं व्यपश्यत्। श्रोत्रं भूत्वा सर्वम् अशृणोत्। वायुर् भूत्वा प्रजानां प्राणो ऽभवत्। अन्तरिक्षं भूत्वा दिवम् अस्तभ्नोत्। द्यौर् भूत्वा सर्वम् अनुव्यभवत्। विराड् भूत्वादित्यो ऽभवत्। कामो भूत्वानन्तो ऽभवत्। अनन्तो भूत्वा मृत्युरभवत्। संवत्सरो भूत्वा नादस्यत्। न ह दस्यति य एवं वेद। चन्द्रमा भूत्वार्धमासान् पर्यगृह्णात्। पर्जन्यो भूत्वा प्रजानां जनित्रम् अभवत्। यज्ञो भूत्वा देवान् बिभर्ति॥
ता अस्येमाः प्रजासः सृष्टा न समजानत। ता नाम भूत्वानुप्राविशत्। ता एता नाम्ना संजानते ऽसौ वा अयम् अमुष्य पुत्र इति॥
स एष वाग्निष्टोमो य एष तपत्य् एष इन्द्र एष प्रजापतिर् एष एवेदं सर्वम् इत्य् उपासितव्यम्॥1.314॥


रेतस्यां गायति। रेतो वै रेतस्या। रेतसस् संतत्या अव्यवच्छेदाय। अहिंकृतां गायति। वज्रो वै हिंकारः। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्॥ स यद्य एकाहस् स्यात् तस्मिन्न् अहिंकृतां गायेत्। एकं हि तद् अहः॥

यदि द्व्यह उभयोर् अह्नोर् अहिंकृतां गायेत्। प्रायणं हि तयोर् अन्यतरद् उदयनम् अन्यतरत्॥

यदि त्र्यहस् तस्मिन् मीमांसन्ते हिंकुर्या3न् इति। तद् धैक आहुः कामम् एवाप्य् अन्वहं संवत्सरं रेतस्याम् अहिंकृतां गायेत्। संवत्सरं वै सिक्तम् अभिक्रियते। रेतस् एवाभिकृत्या इति। तद् उ होवाच शाट्यायनिर् यद् वाव प्रथमाहन् रेतस् सिच्यते स गर्भस् संभवति। अथ यत् त ( त ) स् सिच्यते ऽमुयैव तत् परासिच्यत इति। तस्माद् उ प्रथमाहन्न् एव रेतस्याम् अहिंकृतां गीत्वा हिंकृताम् उत्तरेष्व् अहस्सु गायेत्। अथो अन्नं वै हिंकारः -- अन्नेन वै गर्भो ऽभिवर्धते --अभिवृद्ध्या एवेति। ताम् उदयने गायेद् यत् प्रायणं तद् उदयनम् असद् इति॥1.315॥


ता हैता गळुना आर्क्षाकायणश् शालापत्य आरुणेर् अध्य् अधिजगे। ता एता आरुणेया धुरः। तद् आहुः किं छन्दो रेतस्येति। बृहतीति ब्रूयात्। कथं बृहतीति। मनो हि रेतस्येति ब्रूयात्। नो मनसो बर्हीयः कि चनास्ति। अथो सर्वे प्राणा मनो ऽभिसंपन्नाः। सर्वाणि छन्दांसि बृहतीम् अभिसंपन्नानि। तस्माद् बृहती रेतस्येति। सा केन वृद्धेत्य् आहुः। वृद्धा तेनेति ब्रूयाद् यद् रेतस्या। रेतस्यो हीदं सर्वं वृद्धम्। वृद्धा तेन यन् मनो वृद्धा तेन यच् चन्द्रमा एषा देवतेति। सा हैषा चन्द्रमा एव यद् रेतस्या। स एष रेतसः प्रतिरूपो देवभक्षस् सोमो राजा। सर्वस्यास्य रसस् समुदूढः। तं सर्वे देवा उपजीवन्ति। तस्माद् आहुस् सोम एव राजा ब्रह्म सर्वे ह्य् एनं देवा उपजीवन्ति। सा हैषा ब्रह्मैव यद् रेतस्या। ब्रह्मणा हास्य स्तुतं भवति य एवं विद्वान् रेतस्यया स्तुते॥1.316॥


गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। ओ3र्वाणो अशिश्रा दे3युर्व देवाय दा इति व्यतिषजति। स प्राणः। स वायुः॥

त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। षोधा इत्य् एते द्योतयति। तद् इदं चक्षु। सो ऽसाव् आदित्यः॥

जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। सोमाश् शुक्राः इति शुक्रवती पदे द्योतयति। तद् इदं श्रोत्रम्। ता इमा दिशः॥
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम अर्वाचीम् अभिनुदन् गायति। ओ3 वाजं वाज्य् अक्रामा3 इति निरुक्तं पदं गायति। नुषँः इति निराह। सा वाक्। स प्रजापतिः॥

पंक्ति गायति। ऋतवो वै पंक्तिः। तस्यै षड् अक्षराणि द्योतयति। पवस्वा सूर्या इति सूर्यवती पदे द्योतयति॥1.317॥


ते षड् ऋतवः। षड् ढुर एता देवताः। एताभिस् तद् देवा असुरान् अधूर्वन्। यद् अधूर्वंस् तस्माद् धुरो ऽभवन्। एताभिर् अस्य सर्वाभिर् देवताभिस् स्तुतं भवति य एवं वेद। ताभ्य उ एव सर्वाभ्यो देवताभ्य आवृश्च्यते य एवं विद्वांसम् उपवदति। तां हैताम् एते पंक्ति विगायन्ति नाविकृता गर्भा जायन्त इति वदन्तः सांजग्मानो दायिवा कोवा पवस्वा सूर्याः इति। तद् उ होवाच शाट्यायनिर् एतां विगायन्ति तत इदं गर्भा मुह्यन्ति। यतो वै गर्भाः प्रसार्यन्ते ऽथ जायन्ते। तस्माद् एषा गायत्रम् एव प्रसृता गेयेति। तद् आहुस् स चाद्य धुरो विगायेद् य एनास् संगातुं विद्याद् इति। तद् धैक आहुर् बहिष्पवमाने वाव वयं विगायन्तस् संगायामः यदो ओवा इति वाङ्निधनाः कुर्मस् तेनैव नस् संगीता भवन्तीति। तेनाज्येष्व् आद्रियन्ते न पवमानयोः। अथ हैक आहुर् आज्येष्व् एव वयं विगायन्तस् संगायाम इति॥

जगतीं होतुर् आज्ये। जागतो हि होता॥1.318॥


सैषा भवति अग्न आ याहि वीतये इति॥
गायत्रीं मैत्रावरुणस्य। गायत्रो हि मैत्रावरुणः। सैषा भवति आ नो मित्रावरुणा इति॥
त्रिष्टुभं ब्राह्मणाच्छंसिनः। त्रैष्टुभो हि ब्राह्मणाच्छंसी। सैषा भवति आ याहि सुषुमा हि ते इति॥
अनुष्टुभम् अच्छावाकस्य। आनुष्टुभो ह्य् अच्छावाकः। तस्यैषा भवति इन्द्राग्नी आ गतं सुतम् इति॥
तद् उ हात्रैव यथारूपं गीता भवन्ति। अथ य एनाः प्रातस्सवने गीत्वा माध्यंदिने च सवने तृतीय सवने च गायति तस्य हैव यथायतनं गीता भवन्ति। इदं वा एना एष तद् आयतनाच् च्यावयति य एना माध्यंदिनायतनाश् च सतीस् तृतीयसवनायतनाश् चाथ प्रातस्सवन एव गायति। अथ य एवैनाः प्रातस्सवने गीत्वा माध्यंदिने च सवने तृतीय सवने च गायति स एवैना आयतनेषु प्रतिष्ठापयति। ता अस्यायतनवतीर् गीता भवन्त्य् अत्रैवैतास् संगीता भवन्ति॥1.319॥


इति ह स्माहाद्धियस् सात्ययज्ञिर् ऋद्धुकम् अस्मै स्वायां जनतायां भवति य एवं विद्वान् धुरो न विगायतीति। तस्माद् यदीतरा धुरो विगायेद् व्य् एवाज्यधुरश् च पवमानधुरश् च गायेद् इति। तद् उ होवाच शाट्यायनिर् विकर्षन्त एते धुरो ये विगायन्ति। यदि त्रिष्टुभो माध्यंदिने यो रसस् तं प्रातस्सवने दधाति। यदि रथन्तरवर्णां गायति यो रथन्तरस्य पृष्ठेषु रसस् तं प्रातस्सवने दधाति। यदि जगतीं गायति यो जगत्यै तृतीय सवने रसस् तं प्रातस्सवने दधाति। यद्य् अनुष्टुभं गायति--वाग् वा अनुष्टुप्--तां प्रातस्सवने दधाति। सेयं वाग् अनुष्टुप् प्रातस्सवने बद्धा न कस्मै चनालं भवति।

यद्य् अप्य् आग्नेयम् एवाज्यम् अपिवहेच् छून्ये अमू सवने यातयाम्नी स्याताम्। यद्य् उ वै समाने यस् समाने यज्ञक्रतौ द्वेधा जिगासति विषिक्ता इमे रसा यातयामानो भवन्ति। तद् उ तद् विकृष्टम् उ एव साध्व् एतस्यै नोपपादो ऽस्ति। तस्मात् ओवा ओवा इत्य् एव गायेत्॥

अथो द्वे एव धुरौ मनश् चैव वाक् च। मनसो हि वाक् प्रजायते। सा मनोनेत्रा वाग् भवति। तन् मनो वाचम् अभिप्रवहति। वाग् उ पुनर् मन एवाभिप्रवहति। स यो मनसश् च वाचश् स्वरो जायते-॥1.320॥