मध्यमकशास्त्रम्/गतागतपरीक्षा द्वितीयं प्रकरणम्

विकिस्रोतः तः
← प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् गतागतपरीक्षा द्वितीयं प्रकरणम्
[[लेखकः :|]]
चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् →


गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ २.१ ॥
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥ २.२ ॥
गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥ २.३ ॥
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥ २.४ ॥
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥ २.५ ॥
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥ २.६ ॥
गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते ।
गमनेऽसति गन्ताथ कुत एव भविष्यति ॥ २.७ ॥
गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति ॥ २.८ ॥
गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २.९ ॥
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥ २.१० ॥
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति ॥ २.११ ॥
गते नारभ्यते गन्तुं गतं नारभ्यतेऽगते ।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥ २.१२ ॥
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनमगते गमनं कुतः ॥ २.१३ ॥
गतं किं गम्यमानं किमगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥ २.१४ ॥
गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति ॥ २.१५ ॥
गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥ २.१६ ॥
न तिष्ठति गम्यमानान्न गतान्नागतादपि ।
गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥ २.१७ ॥
यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥ २.१८ ॥
यदेव गमनं गन्ता स एव हि भवेद्यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च ॥ २.१९ ॥
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥ २.२० ॥
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ २.२१ ॥
गत्या ययोच्यते गन्ता गतिं तां स न गच्छति ।
यस्मान्न गतिपूर्वोऽस्ति कश्चित्किंचिद्धि गच्छति ॥ २.२२ ॥
गत्या ययोच्यते गन्ता ततोऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति ॥ २.२३ ॥
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥ २.२४ ॥
गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति ।
तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥ २.२५ ॥