मध्यमकशास्त्रम्/प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम्
प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् [[लेखकः :|]] |
गतागतपरीक्षा द्वितीयं प्रकरणम्॥ → |
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥ १.१ ॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।
देशयामास संबुद्धस्तं वन्दे वदतां वरम् ॥ १.२ ॥
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्कचन केचन ॥ १.३ ॥
चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥ १.४ ॥
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते ॥ १.५ ॥
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया ।
प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥ १.६ ॥
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल ।
यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम् ॥ १.७ ॥
नैवासतो नैव सतः प्रत्ययोऽर्थस्य युज्यते ।
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥ १.८ ॥
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥ १.९ ॥
अनालम्बन एवायं सन् धर्म उपदिश्यते ।
अथानालम्बने धर्मे कुत आलम्बनं पुनः ॥ १.१० ॥
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः ॥ १.११ ॥
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥ १.१२ ॥
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् ।
प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् ॥ १.१३ ॥
अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
अप्रत्ययेभ्योऽपि कस्मात्फलं नाभिप्रवर्तते ॥ १.१४ ॥
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥ १.१५ ॥
तस्मान्न प्रत्ययमयं नाप्रत्ययमयं फलम् ।
संविद्यते फलाभावात्प्रत्ययाप्रत्ययाः कुतः ॥ १.१६ ॥