अथर्ववेदः/काण्डं ६/सूक्तम् ०७६
दिखावट
← सूक्तं ६.०७५ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०७६ ऋषिः - कबन्धः। |
सूक्तं ६.०७७ → |
दे. सान्तपनाग्निः। अनुष्टुप्, ३ ककुम्मती।
आयुष्यम् |
य एनं परिषीदन्ति समादधति चक्षसे ।
संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥
अग्नेः साम्तपनस्याहमायुषे पदमा रभे ।
अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥
यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।
नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥
नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति ।
अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥