अथर्ववेदः/काण्डं ६/सूक्तम् ०७६

विकिस्रोतः तः
← सूक्तं ६.०७५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७६
ऋषिः - कबन्धः।
सूक्तं ६.०७७ →
दे. सान्तपनाग्निः। अनुष्टुप्, ३ ककुम्मती।

आयुष्यम्

य एनं परिषीदन्ति समादधति चक्षसे ।
संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥
अग्नेः साम्तपनस्याहमायुषे पदमा रभे ।
अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥
यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।
नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥
नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति ।
अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥