अथर्ववेदः/काण्डं ६/सूक्तम् ०७५
दिखावट
← सूक्तं ६.०७४ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०७५ ऋषिः - कबन्धः। |
सूक्तं ६.०७६ → |
दे. इन्द्रः। अनुष्टुप्, ३ षट्पदा जगती।
सपत्नक्षयणम् |
निरमुं नुद ओकसः सपत्नो यः पृतन्यति ।
नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥
परमां तं परावतमिन्द्रो नुदतु वृत्रहा ।
यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥
एतु तिस्रः परावत एतु पञ्च जनामति ।
एतु तिस्रोऽति रोचना यतो न पुनरायति ।
शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥
टिप्पणी