अथर्ववेदः/काण्डं ६/सूक्तम् ०७७

विकिस्रोतः तः
← सूक्तं ६.०७६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७७
ऋषिः - कबन्धः
सूक्तं ६.०७८ →
दे. जातवेदाः। अनुष्टुप्

अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।
आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥
य उदानत्परायणं य उदानण्न्यायनम् ।
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
जातवेदो नि वर्तय शतं ते सन्त्वावृतः ।
सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥