अथर्ववेदः/काण्डं ६/सूक्तम् ०७८

विकिस्रोतः तः
← सूक्तं ६.०७७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७८
ऋषिः - अथर्वा।
सूक्तं ६.०७९ →
दे. १-२ चन्द्रमाः, ३ त्वष्टा। अनुष्टुप्।

तेन भूतेन हविषायमा प्यायतां पुनः ।
जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।
रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।
त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥