अथर्ववेदः/काण्डं २०/सूक्तम् ०७९

विकिस्रोतः तः
← सूक्तं २०.०७८ अथर्ववेदः - काण्डं २०
सूक्तं २०.०७९
वसिष्ठः शक्तिर्वा।
सूक्तं २०.०८० →
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती)

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥