अथर्ववेदः/काण्डं २०/सूक्तम् ०७९
दिखावट
← सूक्तं २०.०७८ | अथर्ववेदः - काण्डं २० सूक्तं २०.०७९ वसिष्ठः शक्तिर्वा। |
सूक्तं २०.०८० → |
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती) |
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥