अथर्ववेदः/काण्डं २०/सूक्तम् ०८०

विकिस्रोतः तः
← सूक्तं २०.०७९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०८०
शंयुः।
सूक्तं २०.०८१ →
दे. इन्द्रः। प्रगाथः(बृहती-सतोबृहती)

इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः ।
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥१॥
त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे ।
विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि ॥२॥