अथर्ववेदः/काण्डं २०/सूक्तम् ०७८

विकिस्रोतः तः
← सूक्तं २०.०७७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०७८
शंयुः।
सूक्तं २०.०७९ →
दे. इन्द्रः। गायत्री।

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥१॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
यत्सीमुप श्रवद्गिरः ॥२॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
शचीभिरप नो वरत्॥३॥