तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा |
षाधा पीडा । न तत्र निकट एव । भो भगवंस्त्वं चिराय सुखमास्स्वोपविशेत्युदीय
चार्य प्रतिष्ठिपत्प्रतिष्ठापितवानिति योजना ] ॥ ७९ ॥
तस्माच्छूीकृष्णाद्भक्तिवशात्स्वमातुरप्यनुज्ञां गृहीत्वा स संसारमहासमुद्राद्विरक्तिमा
न्संन्यसनाय दूरं गन्तुं मनोऽकृत । किमर्थमित्यत आह । किमिति । नौकायां स्थित
समुद्रे किं पतितुमिच्छति नैवेच्छति तद्वद्वैराग्यादिलक्षणनौस्थितः संसारसमुद्रे पतितुं
नैवेच्छतीत्यर्थः ॥ ८० ॥
इत्थमनेन प्रकारेण स सुधीर्निशान्तात्सदनान्निरगान्निर्गतवानिति योजना ।
निशान्तपस्त्यसदनं भवनागारमन्दिरम् |
इत्यमरः । तं विशिनष्टि । माता च लक्ष्मीशश्च मातृलक्ष्मीशौ निरवग्रहो निरव
धिर्मातृविष्ण्वोरनुग्रहो यस्मिन्नेतेन मातृश्रीकृष्णाभ्यां प्रसन्नतापूर्वकं प्रेषित इति बोधि
तम् । नन्वतिशीघ्र किमर्थं गतवानित्यत आह । घटजेनागस्त्येन बोधितं भविष्यं
जानातीति तथा । ननु जीवनोपायमेव कुतो न कृतवानित्यत आह ।
अत्यन्तं विगता निवृत्ता भोग्यपदार्थेभ्यो देहादिभ्यस्तृष्णा यस्य सः । यतः ।
कृषिभूवाचकः शब्दो णश्च निवृतिवाचकः । |
इत्युक्तत्वात्कृष्णे प्रतीचि प्रत्यगभिन्ने ब्रह्मणि नितरां रत इत्यर्थः ॥ ८१ ॥
[ सुधीः शोभना सार्वेदिकविवेकवती धीबुद्धिर्यस्य स तथा । सर्वविषयकसार्वकालिक
विचारवानित्यर्थः । तत्र पाथेयार्थं तं विशिनष्टि । निरवग्रहेति ।
वृष्टिर्वर्ष तद्विघाते वग्राहावग्रहौ समौ |
इत्यमरादवग्रहशब्देन वृष्टिप्रतिबन्धकवत्मष्ठतेऽपीष्टवृष्टिप्रतिबन्धकः प्रत्यूहविशेष
एवाच्यते । तथा च निर्गतोऽवग्रह इष्टवस्तुवृष्टिबन्धकपत्यूहविशेषोयस्मात्स तथा
तादृशो मातृलक्ष्मीशयोर्जननीजनार्दनयोरनुग्रहो यस्य स तथा । एवं च मातृलक्ष्मी
पतिभ्यां यत्मसन्नतया गमनायानुमोदनं दत्तं तदेवास्य सकलेष्टपुष्टिकरं मार्गे पाथेयमि