पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१७१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा
मादाय संसृतिमहाब्धिविरक्तिमान्सः ॥
गन्तं मनो व्यधित संन्यसनाय दूरं
किं नौस्थितः पतितुमिच्छति वारिराशौ ॥ ८० ॥
इत्थं सुधीः स निरवग्रहमातृलक्ष्मी
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोग्यपदार्थतृष्ण
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥ ८१ ॥




षाधा पीडा । न तत्र निकट एव । भो भगवंस्त्वं चिराय सुखमास्स्वोपविशेत्युदीय
चार्य प्रतिष्ठिपत्प्रतिष्ठापितवानिति योजना ] ॥ ७९ ॥
 तस्माच्छूीकृष्णाद्भक्तिवशात्स्वमातुरप्यनुज्ञां गृहीत्वा स संसारमहासमुद्राद्विरक्तिमा
न्संन्यसनाय दूरं गन्तुं मनोऽकृत । किमर्थमित्यत आह । किमिति । नौकायां स्थित
समुद्रे किं पतितुमिच्छति नैवेच्छति तद्वद्वैराग्यादिलक्षणनौस्थितः संसारसमुद्रे पतितुं
नैवेच्छतीत्यर्थः ॥ ८० ॥
 इत्थमनेन प्रकारेण स सुधीर्निशान्तात्सदनान्निरगान्निर्गतवानिति योजना ।

निशान्तपस्त्यसदनं भवनागारमन्दिरम्


 इत्यमरः । तं विशिनष्टि । माता च लक्ष्मीशश्च मातृलक्ष्मीशौ निरवग्रहो निरव
धिर्मातृविष्ण्वोरनुग्रहो यस्मिन्नेतेन मातृश्रीकृष्णाभ्यां प्रसन्नतापूर्वकं प्रेषित इति बोधि
तम् । नन्वतिशीघ्र किमर्थं गतवानित्यत आह । घटजेनागस्त्येन बोधितं भविष्यं
जानातीति तथा । ननु जीवनोपायमेव कुतो न कृतवानित्यत आह ।
 अत्यन्तं विगता निवृत्ता भोग्यपदार्थेभ्यो देहादिभ्यस्तृष्णा यस्य सः । यतः ।

कृषिभूवाचकः शब्दो णश्च निवृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्य भिधीयते


 इत्युक्तत्वात्कृष्णे प्रतीचि प्रत्यगभिन्ने ब्रह्मणि नितरां रत इत्यर्थः ॥ ८१ ॥
[ सुधीः शोभना सार्वेदिकविवेकवती धीबुद्धिर्यस्य स तथा । सर्वविषयकसार्वकालिक
विचारवानित्यर्थः । तत्र पाथेयार्थं तं विशिनष्टि । निरवग्रहेति ।

वृष्टिर्वर्ष तद्विघाते वग्राहावग्रहौ समौ


 इत्यमरादवग्रहशब्देन वृष्टिप्रतिबन्धकवत्मष्ठतेऽपीष्टवृष्टिप्रतिबन्धकः प्रत्यूहविशेष
एवाच्यते । तथा च निर्गतोऽवग्रह इष्टवस्तुवृष्टिबन्धकपत्यूहविशेषोयस्मात्स तथा
तादृशो मातृलक्ष्मीशयोर्जननीजनार्दनयोरनुग्रहो यस्य स तथा । एवं च मातृलक्ष्मी
पतिभ्यां यत्मसन्नतया गमनायानुमोदनं दत्तं तदेवास्य सकलेष्टपुष्टिकरं मार्गे पाथेयमि