पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४४

विकिस्रोतः तः
← अध्यायः ०४३ पद्मपुराणम्
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →

युधिष्ठिर उवाच-
फाल्गुनस्यासिते पक्षे किंनामैकादशीभवेत् ।
कथयस्व प्रसादेन वासुदेव ममाग्रतः १।
श्रीकृष्ण उवाच-
नारदः परिपप्रच्छ ब्रह्माणं कमलासनम् ।
फाल्गुनस्यासिते पक्षे विजयानाम नामतः ।
तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः २।
ब्रह्मोवाच-
शृणु नारद वक्ष्यामि कथां पापहराम्पराम् ।
यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम् ३।
पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम् ।
जयं ददाति विजया नृपाणां वै न संशयः ४।
पुरा रामो वनं यातो वर्षाण्येव चतुर्दश ।
न्यवसत्पंचवट्यां तु सहसीतः सलक्ष्मणः ५।
तत्रैव वसतस्तस्य रामस्य विजयात्मनः ।
रावणेन हृता लौल्याद्भार्या सीता यशस्विनी ६।
तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा ।
भ्रमन्जटायुषमथो ददर्श विगतायुषम् ७।
कबंधो निहतः पश्चाद्भ्रमतारण्यमध्यतः ।
सुग्रीवेण समं तस्य सखित्वं समपद्यत ८।
वानराणामनीकानि रामार्थंसंगतानि च ।
ततो हनुमता दृष्टा लंकोद्याने तु जानकी ९।
रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम् ।
पुनः समेत्य रामेण सर्वं तत्र निवेदितम् १०।
अथ श्रुत्वा रामचंद्रो वाक्यं चैव हनूमतः ।
सुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ११।
सौमित्रेकेन पुण्येन तीर्यते वरुणालयः ।
अगाधो नितरामेष यादोभिश्च समाकुलः ।
उपायं नैव पश्यामि येनासौ सुतरो भवेत् १२।
लक्ष्मण उवाच-
आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः ।
बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः १३।
अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघव ।
अन्ये च ब्राह्मणास्तत्र बहवो रघुनंदन १४।
तं पृच्छ गत्वा राजेंद्र पुराणमृषिपुंगवम् ।
इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् १५।
जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम् ।
प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः १६।
ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम् ।
केनापि कारणेनैव प्रविष्टो मानुषीं तनुम् १७।
उवाच स ऋषिस्तुष्टः कुतो राम तवागमः १८।
राम उवाच-
त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः ।
आगतोऽस्मि ससैन्योऽत्र लंकां जेतुं सराक्षसाम् १९।
भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया ।
तमुपायं वद मुने प्रसादं कुरु सांप्रतम् २०।
एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतः ।
रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः २१।
उवाच सुप्रसन्नात्मा रामं राजीवलोचनम् ।
कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् २२।
कृतेन येन सहसा विजयस्ते भविष्यति ।
लंकां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि २३।
एकाग्रमानसो भूत्वा व्रतमेतत्समाचर ।
फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत् २४।
तस्या व्रतेन हे राम विजयस्ते भविष्यति ।
निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः २५।
विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदः ।
दशम्यां दिवसे प्राप्ते कुंभमेकं तु कारयेत् २६।
हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम् ।
स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम् २७।
सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत् ।
तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम् २८।
एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत् ।
निश्चलं स्थापयेत्कुंभं कंठमाल्यानुलेपनैः २९।
पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः ।
गंधैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि ३०।
कुंभाग्रे तद्दिनं राम नीयते सत्कथादिभिः ।
रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः ३१।
प्रकाशयेद्घृतदीपमखंडव्रतहेतवे ।
द्वादशीदिवसे प्राप्ते मार्तंडस्योदये सति ३२।
नीत्वा कुंभं जलोद्देशे नद्याः प्रस्रवणे तथा ।
तडागे स्थापयित्वा तं पूजयित्वा यथाविधि ३३।
दद्यात्सदेवं तं कुंभं ब्राह्मणे वेदपारगे ।
कुंभेन सह राजेंद्र महादानानि दापयेत् ३४।
अनेनविधिना राम यूथपैः सह संगतः ।
कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ३५।
इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा ।
कृते व्रते स विजयी बभूव रघुनंदनः ३६।
प्राप्ता सीता जिता लंका पौलस्त्यो निहतो रणे ।
अनेनविधिना पुत्र ये कुर्वंति नरा व्रतम् ३७।
इहलोकजयप्राप्तिः परलोकस्तथाक्षयः ।
एतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम् ३८।
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम् ।
पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत् ३९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे फाल्गुनकृष्णाविजयामाहात्म्यंनाम चतुश्चत्वारिंशोऽध्यायः ४४।