एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
श्रीवेङ्कटेशमङ्गलाशासनम्।
आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥८॥
प्रायस्खचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥९॥
दयामृततरङ्गिण्यास्तरङ्गेरिव शीतलै: ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥१०॥
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥११॥
श्रीवैकुण्ठविरक्ताय खामिपुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥१२॥
श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥१३॥
मङ्गलाशासनर्परैर्मदाचार्यपुरोगमैः ।
संवैश्च पूवैरचायैस्सत्कृतायास्तु मङ्गलम् ॥१४॥
। इति श्रीवेङ्कटेशमङ्गलाशासनम् ।
</poem>