पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



॥ श्रीवेङ्कटेशमङ्गलाशासनम् ॥

সুী: ܢܡ ॥
श्रीवेङ्कटेशमङ्गलाशासनम् ॥

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवामाय श्रीनिवासाय मङ्गलम् ॥१॥

लक्ष्मीसविभ्रमालोकसुभ्रविभ्रमचक्षुपे ।
चक्षुषे सर्वलोकाना वेङ्कटेशाय मङ्गलम् ॥२॥
 
श्रीवेङ्कटाद्विश्रृङ्गाग्रमङ्गलाभरणाङ्घये ।
मङ्गलाना निवासाय वेङ्कटेशाय मङ्गलम् ॥३॥
 
सर्वावयवसौन्दर्यसंपदा सर्वचेतमाम् ।
सदा संमोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥४॥

नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥५॥
 
स्वतस्सर्वविदे सर्वशतये सर्वशषिण ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥६॥

परस्तै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥७॥