पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/21

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ॥


श्रीरस्तु श्री श्रीनिवासपरब्रह्मणे नमः
॥श्रीर्य श्रीपद्मावत्यै नमः ॥
॥श्रीमते विष्वक्सेनाय नम:॥
॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ॥
★ ★ ★
श्रियःकान्ताय कल्याणनिधये निधयेऽथिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

मुनयः सूत सर्वार्थतत्त्वज्ञ सर्ववेदान्तपारग ।
येन चाराधितः सद्यः श्रीमद्वेङ्कटनायकः ॥ १

भवत्यभीटसर्वार्थप्रदस्तद् ब्रह नो मुने।
इति पृष्टम्तदा सूनो ध्यात्वा स्वात्मनि तत्क्षणात्॥ २

उवाच - मुनिशार्दूलाञ्छूयतामिति वै मुनिः ।
श्री सूतः-अस्ति किञ्चिन्महद्भोप्र्ये भगवत्प्रीतिकारकम् ॥ ३

पुरा शेषेण कथित कपिलाय महात्मने ।
नाम्नामष्टशर्त पुण्य पवित्र पापनाशनम् ॥ ४