पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१८
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्


आदाय हेमपद्मानि स्वर्णदीसंभवानि च ।
ब्रह्मा तु पूर्वमभ्यच्र्य श्रीमद्वेङ्गटनायकम् ॥ ५

अष्टोत्तरशतैर्दिव्यैः नामभिर्मुनिपूजितैः ।
स्वभीष्ट लब्धवान् ब्रह्मा सर्वलोकपितामहः ॥ ६

भवद्भिरपि पद्यैश्च समच्यैस्तैश्च नामभिः ।
तेषा शेषनगाधीशमानसोल्लासकारिणाम् ॥ ७

नाम्नामष्टशर्त वक्ष्ये वेङ्कटाद्विनिवासिनः ।
अायुरारोग्यदं पुंसां धनधान्यसुखप्रदम् ॥ ८

ज्ञानप्रद विशेषेण। महदैश्वर्यकारकम् ।
अर्चयेन्नामभिर्दिव्यैः वेङ्कटेशपदाङ्कितैः ॥ ९

नाम्नामष्टशतस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ।
छन्दोऽनुष्टुप्सथा देवो वेङ्कटेश उदाहृतः ॥ १०

नीलगोक्षीरसंभूती बीजमित्युच्यते बुधै:
श्रीनिवासस्तथा शक्तिर्हृदयं वेङ्कटाधिपः ॥ ११

विनियोगस्तथाऽभीष्टसिद्धयर्थ च निगद्यते ।
औों नमी वेङ्कटेशाय शेषाद्रिनिलयाय च ॥ १२

वृषदृग्गोचरायाथ विष्णवे सततं नम: ।
सदञ्जनगिरीशाय वृषादिपतये नमः ॥ १३