पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१९
॥ श्रीवेङ्कटेशाध्टोत्तरशतनामस्तोत्रम् ॥

मेरुपुत्रगिरीशाय सरःस्वामितटीजुषे ।
कुमाराकल्पसेव्याय वख्रिदृग्विषयाय च ॥ १४

सुवर्चलासुतन्यस्तसैनापत्यभराय च ।
रामाय पद्मनाभाय सदा वायुस्तुताय च ॥ १५

त्यक्तवैकुण्ठलोकाय गिरेिकुञ्जविहारिणे ।
हरिचन्दनगोलेन्द्रस्वामिने सततें नमः ॥ १६

शङ्गराजन्यनेत्राब्जविषयाय नमो नमः ।
वसूपरिचरत्त्रात्रे कृष्णाय सतते नमः ॥ १७

अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च ।
सनकादिमहायोगिपूजिताय नमो नम: ॥ १८

देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने ।
श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रयुगाय च ॥ १९

शेषपर्वतरूपत्वप्रकाशनपराय च ।
सानुस्थापितताक्ष्र्याय ताक्ष्र्याचलनिवासिने ॥ २०

मायागूढविमानाय गरुडस्कन्धवासिने ।
अनन्तशिरसे नित्यमनन्ताक्षाय ते नमः ॥ २१

अनन्तचरणायाथ श्रीशैलनिलयाय च ।
दामोदराय ये नित्य नीलमेघनिभाय च ॥ २२