पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२०
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रमू



ब्रह्मादिदेवदुर्दर्शविश्वरूपाय ते नमः ।
वैकुण्ठागतसद्धेमविमानान्तर्गताय च ॥ २३

अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय च ।
वासुदेवाय हरये तीर्थपञ्चकवासिने ॥ २४

वामदेवप्रेियायाथ जनकेष्टप्रदाय च ।
मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥ २५

वाक्पतिब्रह्मदात्रे च चन्द्रलावण्यदायेिने ।
नारायणनगेशाय ब्रह्मक्लप्सोत्सवाय च ॥ २६

शडुचक्रवरानम्रलसत्करतलाय च ।
द्रवन्मृगमदासक्तविग्रहाय नमो नमः ॥ २७

केशवाय नमो नित्य नित्ययौवनमूर्तये ।
अर्थितार्थप्रदात्र च विश्वतीर्थाघहारेिणे ॥ २८

तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने ।
कुमारधारेिकावासस्कन्दाभीष्टप्रदाय च ॥ २९

जानुदनसमुडूतपेोत्रिणे कूर्ममूर्तये ।
किन्नरद्वन्द्वशापान्तप्रदाले विभवे नमः ॥ ३०

वैखानसमुनिश्रेष्ठपूजिताय नमो नमः ।
सिंह्माचलनिवासाय श्रीमन्नारायणाय च ॥ ३१