एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे
गोगजाग्निरसषङ्[६६३८९]गुणो हृतः खाभ्रखाभ्ररसरूपबाहुभिः[२१६००००] ।
लब्धमाससहितोऽभिताडितः खाग्नि[ ३०]भिस्तिथियुतः पृथग्घतः ॥ २५ ॥
मूर्छनाभ्रनवखाक्षि[ २०९०२१]भिहृतः खार्क[१२०]भक्तशिशिरांशुवासरैः ।
लब्धहीनदिवसापवर्जितः स्याद्द्युराशिरिनसावनोऽथवा ॥ २६ ॥
विश्वाग्निनन्दमन्वग्निशशि[१३१४९३१३]घ्ना भाजिताः समाः ।
खखाभ्राङ्गगुणै[ ३६०००]र्लब्धं मेषाद्यहर्युतं च वा ॥ २७ ॥
द्युगणविधिस्तृतीयः ।
Text of Ms. A :
[25] गोगजाग्निरसषड्गुणो हृतः खाभ्रखाभ्ररसरूपवाहुभिः I
- लब्दमाससहितोभिताडितः खाग्निभिस्तिथियुतः पृथग्घतः ।
[26] मूर्छनाभ्रनवखाक्षिभिर्हतः खार्कभक्तशिशिरांशुवासरैः
- लव्दहीनदिवसापवर्जितस्स्पातः द्युराशिरिनसावनोथवा ।
[27] विर्श्वाग्निनंदमन्वग्निशशिघ्ना भाजितास्समाः
- खखाभ्रांकगुणैर्लव्दं मेषाद्यहधुतं च वा।
घुणविधिस्तृतीयः ।
Ms. B : 27 c °लठद