पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/42

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4. सर्वतोभद्रः



[ मध्यग्रहानयने सामान्यविधिः ]


द्युगणे भगणाभ्यस्ते कुदिनहृते पर्ययादि गगनेटः ॥
रव्युदये लङ्कायां मृदूच्चपाताः खकुद्युभिश्चाप्तात् ॥ १ ॥

[ लघ्वहर्गणतः रव्यानयनम् ]


लघुदिवागणतोऽब्दविवर्जिताद्रविचतुर्युगापर्ययताडितात् ।
खरसपञ्चनगैकशिवा[१११७५६० ]हतैविरहिताद् गतभास्करपर्यये: ।। २ ।।
खगुणचन्द्रगुणाङ्कसमुद्रकुत्रिशशि[१३१४९३१३० ]भिर्भजितादिनभादि तत् ।

[लध्वहर्गणतः चन्द्रानयनम् ]


शशिचतुर्युगपर्ययताडिताज्जिनखषड्गजदोर्नवखेषु[५०९२८६०२४]भिः ॥ ३ ॥
विनिहतैर्गतवत्सरकैर्युताद्रविचतुर्युगसावनभूदिनैः ।
विभजिताद् भगणादि शशी भवेत् त्रिकु[१३]हतेनसमासहितं च तत् ॥ ४ ॥




Text of Ms. A :

[1] द्युगणे भगणाभ्यस्ते कुदिनह्रते पर्ययादि गगभेट:

रव्युदये लंकायां मृदूच्चपात्तास्खकुधुभिश्चाघात् ॥ ॥

[2] लघुदिवागणतोव्दविवजिताद्रविचतुर्युगपर्ययताडितात् ।

खरसपंचनगैकशिवाह । तैविरहित्ताद्गतभास्करपर्यर्यैः ॥

[3] खगुणचेंद्रगुणांकसमुद्रकुत्रिशशिभिर्भजितादिनभादि तत् ।

शशिचतुर्युगपर्पयताडिताज्जिनखष्टङ्गजदोर्नवखेषुभिः ।

[4] विनिहितैर्गतवत्सरकैर्युताद्रविचतुर्युगसावनभूदितै:

विभजिताद्भगणादि शशी भवेत्त्रिकृं हतेन समासहित च तत् ।