पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/43

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे


[लध्वहर्गणतः ग्रहानयनम् ]


वेदर्तुं[गु]णे [३६४] द्युगणे परिकल्पित इष्टभगणसड्गुणिते ।
भूदिनभक्ते शेषं यत्तद्रविवर्षसङ्गुणं क्षिपेत् ॥ ५ ॥
लघुदिनगणभगणहतौ कुदिनाप्तमतः खगो भचक्रादिः ॥
परिकल्पितादवाप्तं गतवर्षगुणं विनिक्षिपेत्तत्र ॥ ६ ॥


[ज्ञातग्रहादभीष्टग्रहानयनम्]


इष्टग्रहभ[गण]गुणो ग्रहः स[भ]गणः स्वपर्ययैर्भक्तः ॥
भगणाद्यभीष्टखचरः कुदिनैरेवं दिनगणः स्यात् ॥ ७ ॥

[ अहर्गर्ण विना सूर्याचन्द्रमसोरानयनम् ]

[ अवमाधिशेषयोर्ज्ञाते रविचन्द्रानयने प्रथमविधिः!]

अवमावशेषगुणिता युगाधिमासाः कुवासरविभक्ताः ॥
लब्धयुतोऽधिकशेषः शशिमासहृतो दिनादिफलम् ॥ ८ ॥
कुदिनहृतमवमशेषं दिनादि तद्वर्षमासदिनयोगः ॥
पृथगभ्यस्तो विश्वै| १३]रधिकफलोनावुभाविनेन्दू वा ॥ ९ ॥



Text of Ms. A :

[5] वेदर्तुणे द्युगणे परिकल्पित इष्टभगणसंगुणिते

भूदिनभक्तशेषं धत्तद्रविवर्षसंगुणं क्षिपेत् ।

[6] लघुदिनगणभगणहतौ कुदिनाप्तमतः खगो भचक्रादिः

परिकल्पितादवाप्त गतं वर्षगुणं विनिक्षिपेत्तत्रा ।

[7] इष्टग्रहभगुणो ग्रहस्सगणस्स्वपर्ययैर्भक्तः

भगणाद्यभीष्टखचरकुचिनैरेवं दिनगणस्स्पात् ।

[8] अवमावशेगुणिता द्युगाधिगासाः कुवासरविभक्ताः

लब्दयुतोधिकशेपशशिमासं हृतो दिनादिफलं ॥ ॥

[9] कुदिनाहृतमवमशेषं दिनादि तद्वष्टमासदिनयोगः

पृथगभ्यस्तो विश्वैरधिकलोनावुभाविनेन्दू वा।