पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ पद्मपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

भीष्म उवाच।
दीर्घायुरारोग्यकुलातिवृद्धिभिर्युक्तः पुमान्रूपकुलान्वितः स्यात्।
मुहुर्मुहुर्जन्मनि येन सम्यक्व्रतं समाचक्ष्व च शीतरश्मेः१।
पुलस्त्य उवाच।
त्वया पृष्टमिदं सम्यगक्षयस्वर्गकारकम्।
रहस्यं तु प्रवक्ष्यामि यत्पुराणविदो विदुः२।
रोहिणीचंद्रशयनं नामव्रतमिहोच्यते।
तस्मिन्नारायणस्यार्चामर्चयेदिंदुनामभिः३।
यदा सोमदिने शुक्ला भवेत्पंचदशी क्वचित्।
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते४।
तदा स्नानं नरः कुर्यात्पंचगव्येन सर्षपैः।
आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः५।
शूद्रोपि परया भक्त्या पाषंडालापवर्जितः।
सोमाय शांताय नमोस्तु पादावनंतधाम्नेति च जानुजंघे।
ऊरुद्वयं चापि जलोदराय संपूजयेन्मेढ्रमनंगधाम्ने८।
नमोनमः कामसुखप्रदाय कटिः शशांकस्य सदार्चनीयः।
तथोदरं चाप्यमृतोदराय नाभिः शशांकाय नमोभिपूज्या९।
नमोस्तु चंद्राय मुखं च नित्यं दंता द्विजानामधिपाय पूज्याः।
हास्यं नमश्चंद्रमसेऽभिपूज्यमोष्ठौ तु कौमोदवनप्रियाय१०।
नासा च नाथाय वरौषधीनामानंदबीजाय पुनर्भ्रुवौ च।
नेत्रद्वयं पद्मनिभं तथेंदोरिंदीवरव्यासकराय शौरेः११।
नमः समस्ताध्वरपूजिताय कर्णद्वयं दैत्यनिषूदनाय।
ललाटमिंदोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः१२।
शिरः शशांकाय नमो मुरारेर्विश्वेश्वरायाथ नमः किरीटं।
पद्मप्रिये रोहिणीनाम लक्ष्मि सौभाग्यसौख्यामृतसागराय१३।
दैवीं च संपूज्य सुगंधिपुष्पैर्नैवेद्यधूपादिभिरिंदुपत्नीम्।
सुप्त्वा तु भूमौ पुनरुत्थितो यः स्नात्वा च विप्राय हविष्यभुक्तः१४।
देयः प्रभाते सहिरण्य वारिकुंभो नमः पापविनाशनाय।
संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च१५।
ग्रासांश्च त्रीन्सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तं ।
कदंबनीलोत्पलकेतकानि जातिःसरोजं शतपत्रिका च१६।
अम्लानपुष्पाण्यथ सिंदुवारं पुष्पं पुनर्भारतमल्लिकायाः।
शुक्लं च पुष्पं करवीरपुष्पं श्रीचंपकं चंद्रमसे प्रदेयम्१७।
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा।
यस्मिन्मासे व्रतादिः स्यात्तत्पुष्पैरर्चयेद्धरिम्१८।
एवं संवत्सरं यावदुपोष्य विधिवन्नरः।
व्रतांते शयनं दद्याच्छयनोपस्करान्वितम्१९।
रोहिणीचंद्रमिथुनं कारयित्वा तु कांचनम्।
चंद्रः षडंगुलः कार्यो रोहिणी चतुरंगुला२०।
मुक्ताफलाष्टकयुतां सितनेत्रसमन्विताम्।
क्षीरकुंभोपरि पुनः कांस्यपात्राक्षतान्विताम्२१।
दद्यान्मंत्रेण पूर्वाह्णे शालीक्षुफलसंयुताम्।
श्वेतामथ सुवर्णास्यां रौप्यखुरसमन्विताम्२२।
सवस्त्रभाजनां धेनुं तथा शंखं च भाजनम्।
भूषणैर्द्विजदाम्पत्यमलंकृत्य गुणान्वितं२३।
चंद्रोयं विप्ररूपेण सभार्य इति कल्पयेत्।
यथा ते रोहिणी कृष्ण शयनं न त्यजेदपि२४।
सोमरूपस्य वैतद्वन्न मे भेदो विभूतिभिः।
यथा त्वमेव सर्वेषां परमानंदमुक्तिदः२५।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चंद्र दृढास्तु मे।
इति संसारभीतस्य मुक्तिकामस्य चानघ२६।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्।
इदमेव पितॄणां च सर्वदा वल्लभं नृप२७।
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्।
चंद्रलोकमवाप्नोति पुनरावृत्तिदुर्लभम्२८।
नारी वा रोहिणीचंद्रशयनं या समाचरेत्।
सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम्२९।
इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिंदुकीर्तनेन।
मतिमपि च ददाति सोपि शौरेर्भवनगतः परिपूज्यतेमरौघैः३०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रोहिणीचंद्रशयनव्रतं नाम षड्विंशोऽध्यायः२६।