सामग्री पर जाएँ

पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ पद्मपुराणम्
अध्यायः २७
वेदव्यासः
अध्यायः २८ →

भीष्म उवाच।
तटाकारामकूपेषु वापीषु नलिनीषु च।
विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च१।
के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत्।
दक्षिणाबलयः कालः स्थानमाचार्य एव च२।
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व सुव्रत।
पुलस्त्य उवाच।
शृणु राजन्महाबाहो तटाकादिषु यो विधिः३।
पुराणेष्वितिहासोयं पठ्यते राजसत्तम।
प्राप्य पक्षं शुभं शुक्लं संप्राप्ते चोत्तरायणे४।
पुण्येह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम्।
अशुभैर्वर्जिते देशे तटाकस्य समीपतः५।
चतुर्हस्तां समां वेदीं चतुरश्रां चतुर्मुखीम्।
तथा षोडशहस्तः स्यान्मंडपश्च चतुर्मुखः६।
वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः।
नव सप्ताथ वा पंच ऋजुवक्त्रा नृपात्मज७।
वितस्तिमात्रा योनिः स्यात्षट्सप्तांगुलि विस्तृता।
गर्ताश्च हस्तमात्राः स्युस्त्रिपर्वोच्छ्रितमेखलाः८।
सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः।
अश्वत्थोदुंबरप्लक्षवटशाखाकृतानि तु९।
मंडपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्।
शुभास्तत्राष्टहोतारो द्वारपालास्तथाष्ट वै१०।
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः।
सर्वलक्षणसंपूर्णान्मंत्रज्ञान्विजितेंद्रियान्११।
कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान्।
प्रतिगर्तेषु कलशा यज्ञोपकरणानि च१२।
व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम्।
ततस्त्वनेकवर्णास्युर्बलयः प्रतिदैवतम्१३।
आचार्यः प्रक्षिपेद्भूमावनुमंत्र्य विचक्षणः।
अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः१४।
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता।
हेमालंकारिणः कार्याः पंचविंशति ऋत्विजः१५।
कुंडलानि च हैमानि केयूरकटकानि च।
तथांगुलिपवित्राणि वासांसि विविधानि च१६।
दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम्।
दद्याच्छय(प)नसंयुक्तमात्मनश्चापि यत्प्रियम्१७।
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ।
ताम्रौ कुंभीरमंडूका वायसः शिंशुमारकः१८।
एवमासाद्य तत्सर्वमादावेव विशांपते।
शुक्लमाल्याम्बरधरः शुक्लंगंधानुलेपनः१९।
सर्वौषध्युदकैः सर्वैः स्नापितो वेदपारगैः।
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः२०।
पश्चिमद्वारमासाद्य प्रविशेद्यागमंडपम्।
ततो मंगलशब्देन भेरीणां निःस्वनेन च२१।
रजसा मंडलं कुर्यात्पंचवर्णेन तत्त्ववित्।
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम्२२।
चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनम्।
वेद्याश्चोपरितः कृत्वा ग्रहान्लोकपतींस्ततः२३।
संन्यसेन्मंत्रतः सर्वान्प्रतिदिक्षु विचक्षणः।
कलशं स्थापयेन्मध्ये वारुणं मंत्रमाश्रितम्२४।
ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः।
विनायकं च विन्यस्य कमलामंबिकां तथा२५।
शांत्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः।
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम्२६।
कुंभांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत्।
पुष्पगंधैरलंकृत्य द्वारपालान्समंततः२७।
यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत्।
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ२८।
सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ।
उदङ्मुखो दक्षिणतो यजमान उपाविशेत्२९।
यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान्।
उत्कृष्टमंत्रजाप्येन तिष्ठध्वमिति जापकान्३०।
एवमादिश्य तान्सर्वान्संधुक्ष्याग्निं समंत्रवित्।
जुहुयादाहुतीर्मंत्रैराज्यं च समिधस्तथा३१।
ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः।
ग्रहेभ्यो विधिवद्धुत्वा तथेंद्रायेश्वराय च३२।
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे।
शान्तिसूक्तं च रौद्रं च पावमानं च मंगलम्३३।
जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्।
शाक्रं रौद्रं च सौम्यं च कौश्मांडं जातवेदसम्३४।
सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः।
वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम्३५।
शैशवं पंचनिधनं गायत्रं ज्येष्ठसाम च।
वामदेव्यं बृहत्साम रौरवं च रथंतरम्३६।
गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा।
गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः३७।
आथर्वणाश्चोत्तरतः शांतिकं पौष्टिकं तथा।
जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम्३८।
पूर्वे द्युरभितो रात्रावेवं कृत्वाधिवासनम्।
गजाश्वरथवल्मीक संगमाद्व्रजगोकुलात्३९।
मृदमादाय कुंभेषु प्रक्षिपेदोषधीस्तथा।
रोचनां च ससिद्धार्थां गंधान्गुग्गुलुमेव च४०।
स्नापनं तस्य कर्त्तव्यं पंचगव्यसमन्वितं।
पूर्वं कर्तुर्महामंत्रैरेवं कृत्वा विधानतः४१।
अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा।
ततः प्रभाते विमले संजाते तु शतं गवां४२।
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः।
पंचाशद्वाथ षट्त्रिंशत्पंचविंशति वा पुनः४३।
ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने।
वेदशब्दैः सगंधर्वैर्वाद्यैश्च विविधैः पुनः४४।
कनकालंकृतां कृत्वा जले गामवतारयेत्।
सामगाय च सा देया ब्राह्मणाय विशांपते४५।
पात्रीमादाय सौवर्णी पंचरत्नसमन्विताम्।
ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः४६।
धृतां चतुर्भिर्विप्रैश्च वेदवेदांगपारगैः।
महानदीजलोपेतां दध्यक्षतविभूषिताम्४७।
उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत्।
आथर्वणेन सुस्नातां पुनर्मायां तथैव च४८।
आपोहिष्ठेति मंत्रेण क्षिप्त्वागत्य च मंडपं।
पूजयित्वा सदस्यान्वै बलिं दद्यात्समंततः४९।
पुनर्दिनानि होतव्यं चत्वारि राजसत्तम।
चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः1.27.५०।
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च।
ऋत्विग्भ्यस्तु समं दद्यान्मंडपं विभजेत्पुनः५१।
हेमपात्रीं च शय्यां च विप्राय च निवेदयेत्।
ततः सहस्रं विप्राणामथवाऽष्टशतं तथा५२।
भोजनीयं यथाशक्ति पंचाशद्वाथ विंशतिः।
एवमेष पुराणेषु तटाकविधिरुच्यते५३।
कूपवापीषु सर्वासु तथा पुष्करिणीषु च।
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च५४।
मंत्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु।
अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयंभुवा५५।
स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः।
प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम्५६।
शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम्।
वाजपेयातिरात्राभ्यां हेमंते शिशिरे स्थितम्५७।
अश्वमेधसमं प्राहुर्वसंतसमये स्थितम्।
ग्रीष्मेपि यत्स्थितं तोयं राजसूयाद्विशिष्यते५८।
एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्धिः।
स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदते च५९।
अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः।
सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः६०।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे तटाकप्रतिष्ठाविधिर्नाम सप्तविंशोऽध्यायः२७।