बृहद्यात्रा/अध्यायः २६
दिखावट
← अध्यायः २५ | बृहद्यात्रा अध्यायः २६ |
अध्यायः २७ → |
अध्यायः - २६ श्वेङ्गित
[सम्पाद्यताम्]नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय।
सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम्॥
उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य।
संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च॥
पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम्।
यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च॥E३