बृहद्यात्रा/अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ बृहद्यात्रा
अध्यायः २७
अध्यायः २८ →

अध्यायः - २७ मङ्गलामङ्गल[सम्पाद्यताम्]

सिद्धार्थकादर्शपयोंजनानि बद्धैकपश्चामिषपूर्णकुम्भाः।

उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि।

दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशंखाः।

सितवृषकुसुमाम्बराणि मीना द्विजगणकाप्तजनाश् च चारुवेषाः॥

ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि।

मरकतकुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः॥

स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि।

स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य॥

कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलावसाः

पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः।

वातोन्मत्तजडेन्धनं तृणतुषक्षुत्क्षामतक्रारयो

मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश् चाशुभाः॥

पटुपटहमृदङ्गशंखभेरीपणवरवं सपताकतोरणाग्रम्।

प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच् च मार्गम्॥E६