देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०६
वेदव्यासः‎
अध्यायः ०७ →

अगस्त्याश्वासनवर्णनम्

सूत उवाच
 श्रीशस्य वचनाद्देवाः सन्तुष्टाः सर्व एव हि ।
 प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे ॥ १ ॥
 देवा ऊचुः
 देवदेव महाविष्णो सृष्टिस्थित्यन्तकारण ।
 विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि ॥ २ ॥
 तेन भानुविरोधेन सर्व एव महाविभो ।
 अलब्धभोगभागा हि किं कुर्मः कुत्र याम हि ॥ ३ ॥
 श्रीभगवानुवाच
 या कर्त्री सर्वजगतामाद्या च कुलवर्धनी ।
 देवी भगवती तस्याः पूजकः परमद्युतिः ॥ ४ ॥
 अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते ।
 तत्तेजोवञ्चकोऽगस्त्यो भविष्यति सुरोत्तमाः ॥ ५ ॥
 तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम् ।
 याचध्वं विबुधाः काशीं गत्वा निःश्रेयसः पदीम् ॥ ६ ॥
 सूत उवाच
 एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः ।
 प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसीं पुरीम् ॥ ७ ॥
 क्षणेन विबुधश्रेष्ठा गत्वा काशीपुरीं शुभाम् ।
 मणिकर्णीं समाप्लुत्य सचैलं भक्तिसंयुताः ॥ ८ ॥
 सन्तर्प्य देवांश्च पितॄन्दत्त्वा दानं विधानतः ।
 आगत्य मुनिवर्यस्य चाश्रमं परमं महत् ॥ ९ ॥
 प्रशान्तश्वापदाकीर्णं नानापादपसङ्‌कुलम् ।
 मयूरैः सारसैर्हंसैश्चक्रवाकैरुपाश्रितम् ॥ १० ॥
 महावराहैः कोलैश्च व्याघ्रैः शार्दूलकैरपि ।
 मृगै रुरुभिरत्यर्थं खड्गैः शरभकैरपि ॥ ११ ॥
 समाश्रितं परमया लक्ष्म्या मुनिवरं तदा ।
 दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः ॥ १२ ॥

 देवा ऊचुः
 जय द्विजगणाधीश मान्य पूज्य धरासुर ।
 वातापीबलनाशाय नमस्ते कुम्भयोनये ॥ १३ ॥
 लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव ।
 सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते ॥ १४ ॥
 यस्योदये प्रसन्नानि भवन्त्युज्ज्वलभांज्यपि ।
 तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते ॥ १५ ॥
 काशपुष्पविकासाय लङ्‌कावासप्रियाय च ।
 जटामण्डलयुक्ताय सशिष्याय नमोऽस्तु ते ॥ १६ ॥
 जय सर्वामरस्तव्य गुणराशे महामुने ।
 वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते ॥ १७ ॥
 प्रसादः क्रियतां स्वामिन् वयं त्वां शरणं गताः ।
 दुस्तराच्छैलजाद्दुःखात्पीडिताः परमद्युते ॥ १८ ॥
 इत्येवं संस्तुतोऽगस्त्यो मुनिः परमधार्मिकः ।
 प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः ॥ १९ ॥
 मुनिरुवाच
 भवन्तः परमश्रेष्ठा देवास्त्रिभुवनेश्वराः ।
 लोकपाला महात्मानो निग्रहानुग्रहक्षमाः ॥ २० ॥
 योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् ।
 सिद्ध्यष्टकं च यद्द्वारि स शक्रो मरुतां पतिः ॥ २१ ॥
 वैश्वानरः कृशानुर्हि हव्यकव्यवहोऽनिशम् ।
 मुखं सर्वामराणां हि सोऽग्निः किं तस्य दुष्करम् ॥ २२ ॥
 रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः ।
 दण्डव्यग्रकरो देवः किं तस्यासुकरं सुराः ॥ २३ ॥
 तथापि यदि देवेशाः कार्यं मच्छक्तिसिद्धिभृत् ।
 अस्ति चेदुच्यतां देवाः करिष्यामि न संशयः ॥ २४ ॥
 एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः ।
 प्रतीताः प्रणयोद्विग्नाः कार्यं निजगदुर्निजम् ॥ २५ ॥
 महर्षे विन्ध्यगिरिणा निरुद्धोऽर्कविनिर्गमः ।
 त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम् ॥ २६ ॥
 तद्‌वृद्धिं स्तम्भय मुने निजया तपसः श्रिया ।
 भवतस्तेजसागस्त्य नूनं नम्रो भविष्यति ।
 एतदेवास्मदीयं च कार्यं कर्तव्यमस्ति हि ॥ २७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे अगस्त्याश्वासनवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥