देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०७
वेदव्यासः‎
अध्यायः ०८ →

विन्ध्यवृद्ध्यवरोधवर्णनम्

सूत उवाच
 इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः ।
 करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः ॥ १ ॥
 अङ्‌गीकृते तदा कार्ये मुनिना कुम्भजन्मना ।
 देवाः प्रमुदिताः सर्वे बभूबुर्द्विजसत्तमाः ॥ २ ॥
 ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः ।
 पत्‍नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम् ॥ ३ ॥
 अये नृपसुते प्राप्तो विघ्नोऽनर्थस्य कारकः ।
 भानुमार्गनिरोधेन कृतो विन्ध्यमहीभृता ॥ ४ ॥
 आज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् ।
 काशीमुद्दिश्य यद्‌गीतं मुनिभिस्तत्त्वदर्शिभिः ॥ ५ ॥
 अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ।
 किन्तु विघ्ना भविष्यन्ति काश्यां निवसतां सताम् ॥ ६ ॥
 सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये ।
 इत्येवमुक्त्वा भार्यां तां मुनिः परमतापनः ॥ ७ ॥
 मणिकर्ण्यां समाप्लुत्य दृष्ट्वा विश्वेश्वरं विभुम् ।
 दण्डपाणिं समभ्यर्च्य कालराजं समागतः ॥ ८ ॥
 कालराज महाबाहो भक्तानां भयहारक ।
 कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः ॥ ९ ॥
 त्वं काशीवासविघ्नानां नाशको भक्तरक्षकः ।
 मां किं दूरयसे स्वामिन् भक्तार्तिविनिवारक ॥ १० ॥
 परापवादो नोक्तो मे न पैशुन्यं न चानृतम् ।
 केन कर्मविपाकेन काश्या दूरं करोषि माम् ॥ ११ ॥
 एवं प्रार्थ्य च तं कालनाथं कुम्भोद्‍भवो मुनिः ।
 जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम् ॥ १२ ॥
 तं दृष्ट्वाभ्यर्च्य सम्प्रार्थ्य ततः पुर्या विनिर्गतः ।
 लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम् ॥ १३ ॥
 काशीविरहसन्तप्तो महाभाग्यनिधिर्मुनिः ।
 संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया ॥ १४ ॥
 तपोयानमिवारुह्य निमिषार्धेन वै मुनिः ।
 अग्रे ददर्श तं विन्ध्यं रुद्धाम्बरमथोन्नतम् ॥ १५ ॥
 चकम्पे चाचलस्तूर्णं दृष्ट्वैवाग्रे स्थितं मुनिम् ।
 गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव ॥ १६ ॥
 दण्डवत्पतितो भूमौ साष्टाङ्‌गं भक्तिभावितः ।
 तं दृष्ट्वा नम्रशिखरं विन्ध्यं नाम महागिरिम् ॥ १७ ॥
 प्रसन्नवदनोऽगस्त्यो मुनिर्विन्ध्यमथाब्रवीत् ।
 वत्सैवं तिष्ठ तावत्त्वं यावदागम्यते मया ॥ १८ ॥
 अशक्तोऽहं गण्डशैलारोहणे तव पुत्रक ।
 एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः ॥ १९ ॥
 आरुह्य तस्य शिखराण्यवारुहदनुक्रमात् ।
 गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि ॥ २० ॥
 मलयाचलमासाद्य तत्राश्रमपरोऽभवत् ।
 सापि देवी तत्र विन्ध्यमागता मनुपूजिता ॥ २१ ॥
 लोकेषु प्रथिता विन्ध्यवासिनीति च शौनक ।
 सूत उवाच
 एतच्चरित्रं परमं शत्रुनाशनमुत्तमम् ॥ २२ ॥
 अगस्त्यविन्ध्यनगयोराख्यानं पापनाशनम् ।
 राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम् ॥ २३ ॥
 वैश्यानां धान्यधनदं शूद्राणां सुखदं तथा ।
 धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ॥ २४ ॥
 कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात् ।
 एवं स्वायम्भुवमनुर्देवीमाराध्य भक्तितः ॥ २५ ॥
 लेभे राज्यं धरायाश्च निजमन्वन्तराश्रयम् ।
 इत्येतद्वर्णितं सौम्य मया मन्वन्तराश्रितम् ।
 आद्यं चरित्रं श्रीदेव्याः किं पुनः कथयामि ते ॥ २६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे विन्ध्यवृद्ध्यवरोधवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥