पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४४

विकिस्रोतः तः
← अध्यायः १४३ पद्मपुराणम्
अध्यायः १४४
वेदव्यासः
अध्यायः १४५ →

महादेव उवाच।
ब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरि ।
तस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम १।
यत्र साभ्रमती तोयं ब्रह्मवल्ल्यंभसा सह ।
युज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतम् २।
तत्र पिंडप्रदानेन तृप्तिर्द्वादशवार्षिकी ।
पितॄणां जायते नूनं ब्रह्मणो वचनं यथा ३।
गयाश्राद्धसमंपुण्यंब्रह्मवल्ल्यांविशेषतः ।
यत्रज्ञात्वाप्रकुर्वंतिपितरस्तृप्तिमाप्नुयुः ४।
गोदानंभूमिदानंचअन्नदानंतथैवच ।
एतद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः ५।
अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम् ।
परंब्रह्मपदध्यानाद्विष्णुलोकमवाप्नुयुः ६।
पुष्करे चैव गंगायां क्षेत्रे चामरकंटके ।
तत्र गत्वा तु देवेशि यत्फलं लभते नरः ७।
तत्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतः ।
चंद्र सूर्योपरागे च दानं ये ददते नराः ८।
तत्फलं समवाप्नोति ब्रह्मावल्ल्यां सुरेश्वरि ।
दिव्यरूपधरास्ते च शंखचक्रगदाधराः ९।
तेऽपि स्वर्गे हि गच्छंति स्नानं कृत्वा सुरेश्वरि ।
धृत्वा तुलसिजां मालां नारायणमनुस्मरन् ।
वैकुंठं दिव्यमानंदं याति वै पदमव्ययम् १०।
इति ब्रह्मवल्लीतीर्थमाहात्म्यम् ।
वृषतीर्थं ततो गच्छेत्खंडतीर्थेऽतिविश्रुतम् ।
तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः ११।
खंडरूपेण धर्मेण या गावो लोकमातरः ।
शापाद्भ्रष्टावितास्तेन खंडतीर्थमथोच्यते १२।
पार्वत्युवाच।
शापो हि लोकमातॄणां गवां कस्य पुराऽभवत् ।
कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः १३।
महादेव उवाच।
पुरा वृषेण गोलोके क्रीडता सह मातृभिः ।
मुक्तं तथा शकृन्मूत्रं पतितं हरमूर्द्धनि १४।
ततस्तासां ददौ शापं तेन दोषेण वै हरः ।
नष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम् १५।
गावः शप्ता भगवता संप्रसाद्य पुनर्हरम् ।
प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे १६।
यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतः ।
खंडसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम् १७।
ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सह ।
स्वर्गं गता शुद्धतमा महादेवसमीपतः १८।
गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम् ।
गवां लोकमवाप्नोति दाहप्रलयवर्जितम् १९।
तत्र स्थित्वा निराहारो गोपिंडं च ददाति वै ।
स नरः सुखमेधेत यावदिंद्राश्चतुर्दश २०।
गवांकोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम् ।
तत्फलं समवाप्नोति खंडतीर्थे न संशयः २१।
गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरः ।
तत्क्षणादेव शुद्धिः स्यात्खंडतीर्थे न संशयः २२।
खंडतीर्थात्परं तीर्थं न भूतं न भविष्यति ।
ये गच्छंति सुरश्रेष्ठ ते नराः पुण्यभागिनः २३।
तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत् ।
वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः २४।
पूजनाद्वै न संदेहो गोलोके तु वसेच्चिरम् ।
तत्र गत्वा विशेषेण सौवर्णी गां ददंति ये २५।
ते नरा भुंजते सौख्यं यावदिंद्राश्चतुर्दश ।
दशधेनुं ततः कृत्वा यो ददाति द्विजातये २६।
खंडतीर्थे सुरश्रेष्ठे तदनंतफलं स्मृतम् ।
तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः २७।
तत्कृते सति देवेशि पितृलोकं स गच्छति ।
पंच वामलकीर्दिव्या ये कुर्वंति प्ररोपणम् २८।
इहलोके सुखं भुक्त्वा हरिलोकं व्रजंति ते २९।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खंडतीर्थंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः १४४।