पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७९
← अध्यायः १७८ | पद्मपुराणम् अध्यायः १७९ वेदव्यासः |
अध्यायः १८० → |
[१]श्रीभगवानुवाच।
पंचमस्याधुना देवि माहात्म्यं लोकपूजितम् ।
कथयामि समासेन सावधाना शृणु प्रिये १।
[२]पिंगलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः ।
अवदाते कुले जातो विश्रुते वेदवादिनाम् २।
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः ।
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ३।
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने ।
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ४।
समातस्थे स तेनासौ पुरा भूमिभुजा सह ।
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ५।
तत उत्सिक्तगर्वोऽयं सूचमानो निरंकुशः ।
परच्छिद्राणि चामुष्मै विविक्ते स निरंतरम् ६।
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ७।
भ्रमत्यन्वेषयंती सा कामुकेन विहारिणी ।
तमंतरायं मन्वाना निशीथिन्यां निजालये ८।
निजघान शिरश्छित्त्वा निचखान महीतले ।
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ९।
दुर्जयान्नरकान्भुंक्त्वा गृध्रोऽभूद्विजने वने ।
भगंदरेण रोगेण सापि हित्वा वरां तनुम् १०।
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी ।
कणानादातुकामां तां संचरंतीमितस्ततः ११।
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन् ।
नृकपाले[३] पयः पूर्णे निपतंतीं ततः शुकीम् १२।
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः ।
पत्नीवियोजिता प्राणैर्नृकपालजले ततः १३।
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः ।
पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः ।
प्राक्कृतं दुष्कृतं कर्म स्मरंतौ भयभागिनौ १४।
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम् ।
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् १५।
अनुजज्ञे ततो लोकमीप्सितं गंतुमेतयोः ।
महापातकसंघातैरपि दुर्द्धर्षमानसौ १६।
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् ।
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् १७।
संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम् ।
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ १८।
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः ।
आसीद्गंगातटे नाम्ना बटुर्ब्रह्मविदुत्तमः॥ १९।
एकाकी निर्ममः शांतो वीतरागो विमत्सरः ।
गीतानां पंचमाध्यायमावर्त्तयति सर्वदा २०।
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम् ।
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ २१।
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः ।
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् २२।
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान् ।
गीतानां पंचमाध्यायमाहात्म्येन पवित्रितौ २३।
एवं तौ बोधितौ तेन मुदितौ समवर्तिना ।
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् २४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः १७९।