सर्वतापः'-( सहर्पे विहस्य ) क्रोधनः स्फुटाक्षरः । किं क्रियते ?'
( स्फुटाक्षरः प्रणम्योपविशति )
सर्वतापः-(सोत्कण्ठम्)आर्य विशदाशय ! अप्यनुष्ठितं तदार्येण ।
विश०--माहेन्द्री त्वगनेकलोचनपदैः कीर्णा पताका कृता |
प्रस्तावितश्च तत इतो दृश्यविपुलबलजलधिकोलाहलो मायामयः। ततस्तैस्तत्रस्थितैर्देवौपरीतनिर्मितमायावृत्तान्तप्रसृतितः सुज्ञैर्महानुपहासः कृतः । शम्भुना च कृतसंरम्भेण त्वदीयनगरोद्योगाय नियुक्तः क्रौञ्चदारणः ।
सर्व०--(सक्रोधम् ) अयि विशदाशय ! कुलाचार इति कारितेयं मया माया साक्षादेव पितामहादीनाम् ।
उत्कृत्य तानुन्मदलोकपाला- |
विश०-(स्वगतं सविपादम्) अहो ! दुर्पान्घता दानवाघपमस्य निगृढवैशसं च । अत एव नैनं भृगुनन्दनोऽपि प्रत्यवेक्षते ।
( नेपथ्ये सगर्वमुञ्चैःकारम्)
ज्वालामालाभिरग्रेर्लयसमयमरुत्प्रेरणोल्लासिताभि- |
सर्व०-( श्रुत्वा सत्र्कोधम्) आः कथमपं वराकः सूर्यः सूर्यतापपुरं पावकसहापः प्लोपति । तिष्ठ रे तिष्ठ ।